प्र यद्वयो॒ न पप्त॒न्वस्म᳚न॒स्परि᳚ श्रव॒स्यवो॒ हृषी᳚वन्तो वन॒र्षदः᳚ ॥
पदपाठः (Word-by-word)
प्र । यत् । वयः᳚ । न । पप्त᳚न् । वस्म᳚नः । परि᳚ । श्र॒व॒स्यवः᳚ । हृषी᳚वन्तः । व॒न॒॑सदः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मित्रावरुणा हेमित्रावरुणौ आदित्यैः धात्रर्यमादिभिर्द्वादशभिः रुद्रैः एकादशसंख्याकैः वसु- भिः धरोध्रुवइत्यादिभिरष्टसंख्याकैः एवंत्रिभिर्देवगणैः सचाभुवासहभवन्तौसहवर्तमानौयुवां अ- स्माकं रथंअन्नलाभाय प्रवृत्तंअबतम् यद्यदास्मदीयारथाः वस्मनः परिवसन्त्यस्मिन्नितिवस्मनिवा- सस्थानं औणादिकोमनिन् तस्मात् स्थानात् परिउपरिदेशान्तरे पञ्चम्याःपरावध्यर्थेइतिसत्वम् अध्यर्थउपर्यर्थइतिवृत्तिः वयोन पक्षिणइव प्रपप्तन् प्रपतन्ति प्रकर्षेणगच्छन्ति पतेश्छान्दसेलुङि ऌदित्वात् च्लेरङादेशः पतःपुमितिपुमागमः कीदृशावयः श्रवस्यवोन्नकामाः हृषीवन्तः प्राप्त- हर्षाः वनर्षदः वनेवृक्षादौनिषण्णाः सांहितिकश्छान्दसोरेफोपजनः ॥ १ ॥