श्रवणम्

2.31.3 समानपद
उ॒त स्य न॒ इन्द्रो᳚ वि॒श्वच᳚र्षणिर्दि॒वः शर्धे᳚न॒ मारु᳚तेन सु॒क्रतु᳚ः ।
अनु॒ नु स्था᳚त्यवृ॒काभि᳚रू॒तिभी॒ रथं᳚ म॒हे स॒नये॒ वाज᳚सातये ॥
▶ पदपाठः (Word-by-word)
उ॒त । स्यः । नः॒ । इन्द्रः᳚ । वि॒श्व॑च᳚र्षणिः । दि॒वः । शर्धे᳚न । मारु᳚तेन । सु॒॑क्रतुः᳚ ।
अनु᳚ । नु । स्था॒ति॒ । अ॒वृ॒काभिः᳚ । ऊ॒ति॑भिः᳚ । रथ᳚म् । म॒हे । स॒नये᳚ । वाज᳚॑सातये ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिचविश्वस्यचर्षणिः विश्वस्यसर्वस्यद्रष्टा यद्वा विश्वेचर्षणयोमनुष्यायस्यपरिचारकाः अथवाविश्वेसर्वेलोकाः चर्षणयोद्रष्टव्यायेन बहुव्रीहौविश्वंसंज्ञायामितिपूर्वपदान्तोदात्तत्वम् मा- रुतेनमरुत्समूहरूपेणशर्धेनबलेनसहसुक्रतुः शोभनकर्माशोभनप्रज्ञोवा स्यःसइन्द्रः अवृकाभिः हिं- सकरहिताभिः ऊतिभीरक्षाभिःसहितःसन् दिवोद्युलोकादागत्यनुअद्यनोस्माकंरथंअनुस्थातिआनु- गुण्येनाधितिष्ठतु छान्दसःशपोलुक् किमर्थं महे सनये महतेधनाय तथावाजसातये वाजस्यान्नस्य सातयेसंभजनार्थम् ॥ ३ ॥