श्र॒व॒स्यवो॒ वाजं᳚ चका॒नाः सप्ति॒र्न रथ्यो॒ अह᳚ धी॒तिम᳚श्याः ॥
पदपाठः (Word-by-word)
श्र॒व॒स्यवः᳚ । वाज᳚म् । च॒का॒नाः । सप्तिः᳚ । न । रथ्यः᳚ । अह᳚ । धी॒तिम् । अ॒श्याः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेयजत्राः यजनीयाविश्वेदेवाः वोयुष्मदीयानिएताएतानिउद्यताउद्यतानिवचांसिवश्मकामये नव्यसेनवतरायस्तुत्यतमाययुष्मद्गणायआयवोमत्प्रभृतयोमनुष्याः कामितानिस्तोत्राणिसमतक्षन् समस्कुर्वन् किमिच्छन्तः श्रवस्यवःश्रवणीयंयशोन्नंवाआत्मनइच्छन्तः वाजंबलंचकानाः कामयमा- नाः कनीदीप्तिकान्तिगतिषु लिटः कानच् रथ्योरथसंबन्धीसप्तिर्न सर्पणशीलोश्वइवयुष्मद्गणः धी- तिमस्मदीयंकर्मअश्याः प्राप्नोतु अहपूरणः अशूव्याप्तौ व्यत्ययेनपरस्मैपदमध्यमौ बहुलंछन्दसीति- विकरणस्यलुक् ॥ ७ ॥
अस्यमइत्यष्टर्चंदशमंसूक्तम् गृत्समदस्यार्षम् षष्ठ्याद्यास्तिस्रोनुष्द्तुभः शिष्टाःपञ्चजगत्यः प्रथमाद्यावापृथिवीया ततोद्वेऎंद्भ्यौत्वाष्ट्रयौवा ततोद्वेराकादेवत्ये द्वेसिनीवालीदेवत्ये अन्यागुंग्वा- दिषड् देवताका तथाचानुक्रान्तं—अस्यमेष्टौजागतं त्र्यनुष्टुवन्तंद्यावापृथिव्येकाद्वेऎंद्भ्यौत्वाष्ट्र्यौ वाद्वेद्वेरकासिनिवाल्योरन्त्यालिङ्गोक्तदेवतेति । आभिप्लविकेचनुर्थेहनिवैश्वदेवशस्त्रं आद्यस्तृचो- द्यावाप्रुथिवीयनिविद्धानः तथाचसूत्रितम्—अस्यमेद्यावापृथवीइतितिस्रस्ततंमे अपइतिवैश्वदेव- मिति ।