श्रवणम्

2.31.5
उ॒त त्ये दे॒वी सु॒भगे᳚ मिथू॒दृशो॒षासा॒नक्ता॒ जग᳚तामपी॒जुवा᳚ ।
स्तु॒षे यद्वां᳚ पृथिवि॒ नव्य᳚सा॒ वचः᳚ स्था॒तुश्च॒ वय॒स्त्रिव᳚या उप॒स्तिरे᳚ ॥
▶ पदपाठः (Word-by-word)
उ॒त । त्ये इति᳚ । दे॒वी इति᳚ । सु॒भगे॒ इति᳚ सु॒॑भगे᳚ । मि॒थु॒॑दृशा᳚ । उ॒षसा॒नक्ता᳚ । जग᳚ताम् । अ॒पि॒॑जुवा᳚ ।
स्तु॒षे । यत् । वा॒म् । पृ॒थि॒वि॒ । नव्य᳚सा । वचः᳚ । स्था॒तुः । च॒ । वयः᳚ । त्रि॑व᳚याः । उ॒प॒॑स्तिरे᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिच त्ये तेप्रसिद्धे देवी देव्यौ देवनशीले सुभगेशोभनधनेमिथूद्रुशा मिथः परस्परंपश्य- न्त्यौ एवंभूतेउषासानक्ता उषाश्चरात्रिश्च जगतांजङ्गानांअपीजुवाप्रेरयित्र्यौभवतः तस्मादस्मदी- यमपिरथंप्रेरयताम् उत्तरोर्धर्चोद्यावापृथिव्यःप्रत्यक्षकृतः हेपृथिवि वांयुवां त्वांदिवंच नव्यसा नवीयसानवतरेणप्रशस्येनवा वचः वचसा सुपांसुलुगितितृतीयायालुक् यद्यदास्तुषेस्तुवे उत्तम- स्यव्यत्ययेनमध्यमः तदानींस्थातुः स्थावरस्यव्रीह्यादेः सबन्धिवयोन्नंचरुपुरोडाशादिलक्षणं त्रिव- याः वयइत्यन्ननाम त्रीणिओषधिपशुसोमात्मकानि हविर्लक्षणान्यन्नानियस्यतादृशोहंउपस्तिरे उपस्तृणामिआज्येनोपस्तरणाभिघारणपूर्वकंप्रयच्छामीत्यर्थः स्तृञ् आच्छान्दने लट्युत्तमे छान्द सोविकरणस्यलुक् अत्रत्यश्चशब्दश्चणितिनिपातान्तरंपादपूरणम् ऋतइद्धातोरितीत्वं निपातै- र्यद्यदिहन्ते तिनिघातप्रतिषेधः ॥ ५ ॥