विश्वा॒ यद्गो॒त्रा सह᳚सा॒ परी᳚वृता॒ मदे॒ सोम᳚स्य दृंहि॒तान्यैर᳚यत् ॥
पदपाठः (Word-by-word)
विश्वा᳚ । यत् । गो॒त्रा । सह᳚सा । परि᳚॑वृता । मदे᳚ । सोम᳚स्य । दृं॒हि॒तानि᳚ । ऐर᳚यत् ॥
सायणभाष्यम् (Sayana Commentary)
गृत्समदोब्रूते हेस्तोतारः नव्यंनवतरमन्येष्वदृष्टपूर्वंतत्तादृशंस्तोत्रमङ्गिरस्वत् अङ्गिरसइवास्मा इन्द्रायार्चतब्रूत यद्यस्माज्जातमात्रस्यास्येन्द्रस्य शुष्माः शत्रूणांशोषकाणितेजांसिप्रत्नथा प्रत्नपूर्वविश्वे- मात्थाल् छन्दसीतिइवार्थेथाल् प्रत्ययः प्रत्नानि पुरातनानीव उदीरते उद्गच्छन्ति ईरगतौ अनुदात्तेत् तिङिचोदात्तवतीतिगतेर्निघातः यद्यस्माच्च विश्वासर्वान् गोत्रामेघान् गाः उदकानित्रायन्तेरक्षन्तीति गोत्रामेघाः परीवृतावृत्रेणाक्रान्तान् सर्वत्रसुपोडादेशः तान् दृंहितानितेनदृढीकृतान् मेघान् सोमस्य- मदे हर्षेसञ्चातेसति सहसाबलेनऎरयत् उदघाटयत् मेघभेदनेनापःप्रेरयामासेत्यर्थः यद्वा विश्वा सर्वा- णिपरीबृता वृत्रासुरेणाक्रान्तानिदृंहितानि पर्वतबिले निरुद्धानि गोत्रा इनित्रकट्यचश्चेतिसमूहार्थेत्र- प्रत्ययः गवंवृन्दानि सहसाऎरयत् तम्साद्बिलान्निरगमयत् तस्मादर्चतेतिसमन्वयः ऎरयत् ईरगतौ ण्यन्तस्यलङिरूपं यद्वृत्तयोगादनिघातः ॥ १ ॥