श्रवणम्

2.17.5
स प्रा॒चीना॒न्पर्व᳚तान्दृंह॒दोज᳚साधरा॒चीन᳚मकृणोद॒पामपः᳚ ।
अधा᳚रयत्पृथि॒वीं वि॒श्वधा᳚यस॒मस्त᳚भ्नान्मा॒यया॒ द्याम᳚व॒स्रसः᳚ ॥
▶ पदपाठः (Word-by-word)
सः । प्रा॒चीना᳚न् । पर्व᳚तान् । दृं॒ह॒त् । ओज᳚सा । अ॒ध॒रा॒चीन᳚म् । अ॒कृ॒णो॒त् । अ॒पाम् । अपः᳚ ।
अधा᳚रयत् । पृ॒थि॒वीम् । वि॒श्व॑धा᳚यसम् । अस्त᳚भ्नात् । मा॒यया᳚ । द्याम् । अ॒व॒॑स्रसः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः प्राचीनान् इतस्ततःप्रकर्षेणाञ्चतोगच्छतः सपक्षान् पर्वतान् ओजसाबलेन दृंहत् पक्षच्छे- दंक्रुत्वाभूमौदृढीचकार अचलानकरोदित्यर्थः अपांमेघस्थितानामुदकानामपः स्यन्दनलक्षणंकर्मअध- राचीनंअधः प्रदेशमञ्चतिगच्छतीत्यधराचीनं तादृशमकृणोत् मेघभेदनंकृत्वाअपोभूमावपातयदित्य- र्थः किञ्च विश्वधायसंविश्वस्यधात्रींपृथिवींबलेनाधारयत् माययाप्रज्ञया उपायेनद्यांद्युलोकंअवस्रजः किञ्च विशधायसंविशस्यधात्रींपृथिवींबलेनाधारयत् माययाप्रज्ञया उपायेनद्यांद्युलोकंअवस्रजः स्रंसु- गतौ संपदादिलक्षणोभावेक्विप् अवपतनादस्तभ्रात् ॥ ५ ॥