सास्मा॒ अरं᳚ बा॒हुभ्यां॒ यं पि॒ताकृ᳚णो॒द्विश्व᳚स्मा॒दा ज॒नुषो॒ वेद᳚स॒स्परि᳚ ।
येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ᳚णक्तुवि॒ष्वणि᳚ः ॥
येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ᳚णक्तुवि॒ष्वणि᳚ः ॥
पदपाठः (Word-by-word)
सः । अ॒स्मै॒ । अर᳚म् । बा॒हु॑भ्या᳚म् । यम् । पि॒ता । अकृ᳚णोत् । विश्व᳚स्मात् । आ । ज॒नुषः᳚ । वेद᳚सः । परि᳚ ।
येन᳚ । पृ॒थि॒व्याम् । नि । क्रिवि᳚म् । श॒यध्यै᳚ । वज्रे᳚ण । ह॒त्वी । अवृ᳚णक् । तु॒वि॒॑स्वनिः᳚ ॥
येन᳚ । पृ॒थि॒व्याम् । नि । क्रिवि᳚म् । श॒यध्यै᳚ । वज्रे᳚ण । ह॒त्वी । अवृ᳚णक् । तु॒वि॒॑स्वनिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सतादृशइन्द्रः अस्मैजगते अरमलं पर्याप्तोबभूव रक्षकत्वेनस्वामीबभूवेत्यर्थः पितासर्वस्यपालकः प्रजापतिः विश्वस्मात् सर्वस्माज्जनुषोजनात् परिततोप्युत्कृष्टाद्वेदसोज्ञानात्तद्विशिष्टं बाहुभ्यांस्वकीया भ्यांबाहुभ्यांयमाकृणोत् तुविष्वणिः बहुकीर्तिः महास्वनोवासइन्द्रः येनज्ञानेनक्रिविंएतन्नामानमसुरं वज्रेणहत्वी स्नात्व्यादयश्चेतित्वी हत्वा ताडयित्वा पृथिव्यांभूमौशयध्यै शयनायदीर्घनिद्रायैन्यवृणक् व्रुणक्तिर्हिंसाकर्मान्यवधीत् ॥ ६ ॥