द्वितीयं मण्डलम् - सूक्तम् 12

15 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.12 - सम्पूर्णम्

1 / 15
ऋक्: 2.12.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
2.12.1 समानपद
यो जा॒त ए॒व प्र᳚थ॒मो मन᳚स्वान्दे॒वो दे॒वान्क्रतु᳚ना प॒र्यभू᳚षत् ।
यस्य॒ शुष्मा॒द्रोद᳚सी॒ अभ्य᳚सेतां नृ॒म्णस्य᳚ म॒ह्ना स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन᳚स्वान् । दे॒वः । दे॒वान् । क्रतु᳚ना । प॒रि॒॑अभू᳚षत् ।
यस्य᳚ । शुष्मा᳚त् । रोद᳚सी॒ इति᳚ । अभ्य᳚सेताम् । नृ॒म्णस्य᳚ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदोब्रूते—जनासोजनाः हेअसुराः यः जातएवजायमानएव सन् प्रथमः देवानांप्रधानभूतः मनस्वान् मनस्विनामग्रगण्यः देवोद्योतमानःसन् क्रतुनावृत्रवधादिलक्षणेनस्वकीयेनकर्मणादेवान्- सर्वान् यागदेवान् पर्यभूषत् रक्षकत्वेनपर्यग्रहीत् भूषअलंकारे भौवादिः लङिरूपं यद्वा सर्वान न्यान्- देवान् पर्यभूषत् पर्यभवत् अत्यक्रामत् अस्मिन्पक्षेभवतेर्व्यत्ययेनक्सः श्र्युकः कितीतीट्प्रतिषेधःयस्ये- न्द्रस्याशुष्मात् शारीरात् बलात् रोदसीद्यावापृथिव्यौअभ्यसेतां अबिभीतां भ्यसभये अनुदात्तेत् भ्य- सभयवेपनयोरितिनैरुक्ताः । अभ्यसेतांअवेपेतांवा तथाचमन्त्रान्तरम्—इमेचितवमन्यवेवेपेतेभिय- सामहीइति । नृम्णस्यसेनालक्षणस्यबलस्यमह्नामहत्त्वेनयुक्तः । सइन्द्रोनाहमिति अत्रनिरुक्तम्— योजातएवप्रथमोमनस्वीदेवोदेवान् क्रतुनाकर्मणापर्यभवत्पर्यगृह्णात्पर्यारक्षदत्यतिक्रामदितिवायस्य- बलाद्द्यावापृथिव्यावप्यबिभीतांनृम्णस्यमह्नाबलस्यमहत्त्वेनसजनासइन्द्रइत्यृषेर्दृष्टार्थस्यप्रीतिर्भ- वत्याख्यानसंयुक्तेति ॥ १ ॥

2.12.2
यः पृ᳚थि॒वीं व्यथ᳚माना॒मदृं᳚ह॒द्यः पर्व᳚ता॒न्प्रकु᳚पिता{4}॒ अर᳚म्णात् ।
यो अ॒न्तरि᳚क्षं विम॒मे वरी᳚यो॒ यो द्यामस्त᳚भ्ना॒त्स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । पृ॒थि॒वीम् । व्यथ᳚मानाम् । अदृं᳚हत् । यः । पर्व᳚तान् । प्र॑कु᳚पितान् । अर᳚म्णात् ।
यः । अ॒न्तरि᳚क्षम् । वि॒॑म॒मे । वरी᳚यः । यः । द्याम् । अस्त᳚भ्नात् । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेजनाःयः इन्द्रः व्यथमानांचलन्तींपृथिवींअदृहत् शर्करादिभिर्दृढामकरोत् द्रुधदृहिवृद्धौ यश्चप्रकु- पितान् इतस्ततश्चलितान् पक्षयुक्तान् पर्वतान् अरम्णात् नियमितवान् स्वेस्वेस्थानेस्थापितवान् अ- रम्णात् रमुक्रीडायां अन्तर्भावितण्यथेस्यव्यत्यनेनश्नाप्रत्ययः यश्चवरीयउरुतममन्तरिक्षं विममे निर्म- मे विस्तीर्णं चकारेत्यर्थः यश्चद्यांदिवमस्तभ्रात् तस्तंभ निरुद्धामकरोत् स्तंभुरोधनेइतिसौत्रोधातुः सएवेन्द्रोनाहमिति ॥ २ ॥

2.12.3
यो ह॒त्वाहि॒मरि᳚णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज᳚दप॒धा व॒लस्य᳚ ।
यो अश्म᳚नोर॒न्तर॒ग्निं ज॒जान᳚ सं॒वृक्स॒मत्सु॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । ह॒त्वा । अहि᳚म् । अरि᳚णात् । स॒प्त । सिन्धू᳚न् । यः । गाः । उ॒त्॑आज᳚त् । अ॒प॒॑धा । व॒लस्य᳚ ।
यः । अश्म᳚नोः । अ॒न्तः । अ॒ग्निम् । ज॒जान᳚ । स॒म्॑वृक् । स॒मत्॑सु᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः अहिंमेघं हत्वा मेघहननंकृत्वासप्तसर्पणशीलाः सिन्धून् स्यन्दनशीलाअपः अरिणात् प्रैरयत् यद्वा सप्तगंगायमुनाद्यामुख्यानदीररिणात् रीङ्श्रवणे क्र्यादिः यश्चबलस्यबलनामकस्यासुरस्यअप- धा तत्कर्तृकात्तिरोधानान्निरुद्धागाउदाजत् निरगमयत् अपधा अपपूर्वाद्दधातेरातश्चोपसर्गेइतिभावे- अङ्प्रत्ययः सुपांसुलुगितिपञ्चम्याआकारः यश्चअश्मनोः अश्नुतेव्याप्नोत्यन्तरिक्षमित्यश्मामेघः अत्य- न्तमृदुरूपयोर्मेघयोरन्तर्मध्येवैद्युतमग्निंजजान उत्पादयामास यश्चसमत्सु संभक्षयन्तियोद्धॄणामायूं- षीतिसमदःसङ्ग्रामाः तेषुसंवृक् हिनस्ति वृणक्तेर्हिंसार्थस्यक्विपिरूपं सइन्द्रोनाहमिति ॥ ३ ॥

2.12.4
येने॒मा विश्वा॒ च्यव᳚ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध᳚रं॒ गुहाकः᳚ ।
श्व॒घ्नीव॒ यो जि᳚गी॒वा{4}ल्ल॒क्षमाद᳚द॒र्यः पु॒ष्टानि॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
येन᳚ । इ॒मा । विश्वा᳚ । च्यव᳚ना । कृ॒तानि᳚ । यः । दास᳚म् । वर्ण᳚म् । अध᳚रम् । गुहा᳚ । अक॒रित्यकः᳚ ।
श्व॒घ्नी॑इ᳚व । यः । जि॒गी॒वान् । ल॒क्षम् । आद᳚त् । अ॒र्यः । पु॒ष्टानि᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

येनेन्द्रेणइमा इमानिविश्वाच्यवना नश्वराणिभुवनानिकृतानि स्थिरीकृतानि यश्चदासंवर्णं शुद्रा- दिकं यद्वा दासमुपक्षपयितारंअधरंनिकृष्टमसुरंगुहागुहायांगूढस्थानेनरकेवाअकः अकार्षीत् करोतेर्लु- ङिमन्त्रेघसेत्यादिनाच्लेर्लुकिरूपं लक्षंलक्ष्यंजिगीवान जिजयेक्वसौ सन् लिटोर्जेरिति अभ्यासादुत्तर- पदस्यकुत्वम् दीर्घश्छान्दसः जितवान अर्यः अरेः षष्ठ्येकवचनेछान्दसोयणादेशः शत्रोः संबन्धीनि- पुष्टानिसमृद्धानिधनानिआदत् आदत्ते तत्रदृष्टान्तः—श्वघ्रीव श्वभिर्मृगान् हन्तीतिशघ्रीव्याधः यथा- व्याधोजिघृक्षितंमृगंपरिगृह्णातितद्वत् ॥ ४ ॥

2.12.5
यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति᳚ घो॒रमु॒तेमा᳚हु॒र्नैषो अ॒स्तीत्ये᳚नम् ।
सो अ॒र्यः पु॒ष्टीर्विज᳚ इ॒वा मि᳚नाति॒ श्रद᳚स्मै धत्त॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । स्म॒ । पृ॒च्छन्ति᳚ । कुह᳚ । सः । इति᳚ । घो॒रम् । उ॒त । ई॒म् । आ॒हुः॒ । न । ए॒षः । अ॒स्ति॒ । इति᳚ । ए॒न॒म् ।
सः । अ॒र्यः । पु॒ष्टीः । विजः᳚॑इव । आ । मि॒ना॒ति॒ । श्रत् । अ॒स्मै॒ । ध॒त्त॒ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपश्यन्तोजनाघोरंशत्रूणांघातकंयंपृच्छन्तिस्मकुहसेति सइन्द्रः कुत्रवर्ततइति सेति सोचिलोपे- चेत्पादपूरणमितिसोर्लोपेगुणः नक्वचिदसौतिष्ठतीतिमन्यमानाजनाएनमिन्द्रमाहुः एषइन्द्रोनास्तीति तथाचमन्त्रे—नेन्द्रोअस्तीतिनेमउत्वआहेति । ईमितिपूरणः उतापिचसइन्द्रोविजइव इवशब्दएवार्थे उद्वेजकएवसन् अर्योरेःसंबन्धीनिपुष्टीः पोषकाणि गवाश्वादीनिधनानि आमिनाति सर्वतोहिनस्ति मीङ् हिंसायां मीनातेर्निगमेइतिह्रस्वः तस्मात् श्रदस्माइन्द्रायधत्तसइन्द्रोस्तीतिविश्वासमत्रकुरुत यद्यप्यसौविशेषतोस्माभिर्नदृश्यते तथापिअस्तीतिविश्वासंकुरुत एवंनिर्धारणमहिमोपेतः सइन्द्रोना- हमिति ॥ ५ ॥

2.12.6
यो र॒ध्रस्य᳚ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध᳚मानस्य की॒रेः ।
यु॒क्तग्रा᳚व्णो॒ यो॑वि॒ता सु᳚शि॒प्रः सु॒तसो᳚मस्य॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । र॒ध्रस्य᳚ । चो॒दि॒ता । यः । कृ॒शस्य᳚ । यः । ब्र॒ह्मणः᳚ । नाध᳚मानस्य । की॒रेः ।
यु॒क्त॑ग्रा᳚व्णः । यः । अ॒वि॒ता । सु॒॑शि॒प्रः । सु॒त॑सो᳚मस्य । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःरध्रस्य रधहिंसासंराध्योः समृद्धस्यचोदिताधनानां प्रेरयिताभवति यश्चकृश्स्यचदरिद्रस्यच यश्चनाधमानस्य नाथृनाधृयाच्ञोपतापैश्वर्याशीःषु याचमानस्यकीरेः करोतेःकीर्तयतेर्वी स्तोतुः ब्रह्म- णोब्राह्मणस्यच धनानांप्रेरयिता यश्चसुशिपःशोभनहनुः सुशीर्षकोवासन् युक्तग्राव्णः अभिषवार्थमु- द्यतग्राव्णः सुतसोमस्याभिषुतसोमस्ययजमानस्याविता रक्षिताभवति सएवेन्द्रोनाहमिति ब्रह्मशब्द- स्यत्वन्नपरत्वेह्याद्युदात्ततास्यात् तथाब्रह्मवन्वानोअजरंसुवीरमिति । अयंत्वन्तोदात्तःपठ्यतइतिना- न्नपरः ॥ ६ ॥

2.12.7
यस्याश्वा᳚सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा᳚सः ।
यः सूर्यं॒ य उ॒षसं᳚ ज॒जान॒ यो अ॒पां ने॒ता स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यस्य᳚ । अश्वा᳚सः । प्र॒॑दिशि᳚ । यस्य᳚ । गावः᳚ । यस्य᳚ । ग्रामाः᳚ । यस्य᳚ । विश्वे᳚ । रथा᳚सः ।
यः । सूर्य᳚म् । यः । उ॒षस᳚म् । ज॒जान᳚ । यः । अ॒पाम् । ने॒ता । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यसर्वान्तर्यामितयावर्तमानस्यप्रदिशि प्रदेशनेनुशासने अश्वासोश्वावर्तन्ते यस्यानुशासनेगावः यस्यानुशासनेग्रामाः ग्रसन्तेत्रेति ग्रामाजनपदाः यस्याज्ञायांविश्वेसर्वेरथासोरथावर्तन्ते यश्चवृत्रंहत्वा- सूर्यंजजान जनयामास यश्चोषसं तथामन्त्रः—जजानसूर्यमुषसंसुदंसाइति । यश्चमेघभेदनद्वारा अपां- नेताप्रेरकः सइन्द्रइत्यादिप्रसिद्धम् ॥ ७ ॥

2.12.8
यं क्रन्द᳚सी संय॒ती वि॒ह्वये᳚ते॒ परे॑व᳚र उ॒भया᳚ अ॒मित्रा᳚ः ।
स॒मा॒नं चि॒द्रथ᳚मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यम् । क्रन्द᳚सी॒ इति᳚ । सं॒य॒ती इति᳚ स॒म्॑य॒ती । वि॒ह्वये᳚ते॒ इति᳚ वि॒॑ह्वये᳚ते । परे᳚ । अव᳚रे । उ॒भयाः᳚ । अ॒मित्राः᳚ ।
स॒मा॒नम् । चि॒त् । रथ᳚म् । आ॒त॒स्थि॒॑वांसा᳚ । नाना᳚ । ह॒वे॒ते॒ इति᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यंक्रन्दसीरोदसीशब्दंकुर्वाणेमानुषीदेवीचद्वेसेनेवासंयती परस्परंसङ्गच्छन्त्यौयमिन्द्रंविह्वयेते स्वरक्षार्थंविविधमाह्वयतः परेउत्कृष्टाः अवरेअधमाश्चोभयाः उभयविधाः अमित्राः शत्रवः यमाह्व- यन्ति समानंइन्द्ररथसदृशंरथमातस्थिवांसाआस्थितौद्वौरथिनौचित् तमेवेन्द्रंनानापृथक् पृथक् हवेते- आह्वयेते यद्वा समानमेकरथमारूढाविन्द्राग्नीहवेतेयज्ञार्थंयजमानैः पृथगाहूयेते तयोरन्यतरःसइन्द्रो- नाहमिति ॥ ८ ॥

2.12.9
यस्मा॒न्न ऋ॒ते वि॒जय᳚न्ते॒ जना᳚सो॒ यं युध्य᳚माना॒ अव᳚से॒ हव᳚न्ते ।
यो विश्व᳚स्य प्रति॒मानं᳚ ब॒भूव॒ यो अ᳚च्युत॒च्युत्स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यस्मा᳚त् । न । ऋ॒ते । वि॒॑जय᳚न्ते । जना᳚सः । यम् । युध्य᳚मानाः । अव᳚से । हव᳚न्ते ।
यः । विश्व᳚स्य । प्र॒ति॒॑मान᳚म् । ब॒भूव᳚ । यः । अ॒च्यु॒त॒॑च्युत् । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्मादृते जनासोजनाः नविजयन्ते विजयंनप्राप्नुवन्ति अतः युध्यमानायुद्धंकुर्वाणाजनाअवसे- स्वरक्षणायंइन्द्रं हवन्तेआह्वयन्ति यश्चविश्वस्यसर्वस्यजगतः प्रतिमानंप्रतिनिधिर्बभुव यश्चाच्युत- च्युत् अच्युतानांक्षयरहितानांपर्वतादीनांच्यावयितासइन्द्रइत्यादिप्रसिद्धम् ॥ ९ ॥

2.12.10
यः शश्व᳚तो॒ मह्येनो॒ दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ ज॒घान᳚ ।
यः शर्ध᳚ते॒ नानु॒ददा᳚ति शृ॒ध्यां यो दस्यो᳚र्ह॒न्ता स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । शश्व᳚तः । महि᳚ । एनः᳚ । दधा᳚नान् । अम᳚न्यमानान् । शर्वा᳚ । ज॒घान᳚ ।
यः । शर्ध᳚ते । न । अ॒नु॒॑ददा᳚ति । शृ॒ध्याम् । यः । दस्योः᳚ । ह॒न्ता । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः महिमहत् एनः पापंदधानान् शश्वतोबहून् अमन्यमानान् आत्मानमजानतः इन्द्रमपूजयतो- वाजनान् शर्वा श्रृणातिशत्रूननेनेतिशरुर्वज्रः तेनायुधेनजघान हन्तेर्लिटिरूपं यश्चशर्धतेउत्साहंकुरुते अनात्मज्ञायजनायश्रृध्यां उत्साहनीयंकर्मनानुददाति नप्रयच्छति अनुपूर्वात् हृदाञ् दाने जौहोत्या- दिकः अभ्यस्तानामादिरितितिङि चोदात्तवतीतिगतेर्निघातः यश्चदस्योरुपक्षपयितुःशत्रोर्हन्ताघा- तकः सइन्द्रइत्यादिपूर्ववत् ॥ १० ॥

2.12.11
यः शम्ब᳚रं॒ पर्व᳚तेषु क्षि॒यन्तं᳚ चत्वारिं॒श्यां श॒रद्य॒न्ववि᳚न्दत् ।
ओ॒जा॒यमा᳚नं॒ यो अहिं᳚ ज॒घान॒ दानुं॒ शया᳚नं॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । शम्ब᳚रम् । पर्व᳚तेषु । क्षि॒यन्त᳚म् । च॒त्वा॒रिं॒श्याम् । श॒रदि᳚ । अ॒नु॒॑अवि᳚न्दत् ।
ओ॒जा॒यमा᳚नम् । यः । अहि᳚म् । ज॒घान᳚ । दानु᳚म् । शया᳚नम् । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःपर्वतेषुक्षियन्तंइन्द्रभियाबहून्संवत्सरान् प्रच्छन्नोभूत्वापर्वतगुहासुनिवसन्तंशंबरंएतन्नामकं- मायाविनमसुरंचत्वारिंश्यांशरदि चत्वारिंशेसंवत्सरेअन्वविन्दत् अन्विष्यालभत लब्ध्वाचयः ओजा- यमानं कर्तुःक्यङ्सलोपश्च ओजसोप्सरसोनित्यमितिसकारलोपः बलमाचरन्तंअहिंआहन्तारं दानुं- दानवं शयानंशंबरमसुरंजघान हतवान्सइन्द्रोनाहमिति ॥ ११ ॥

2.12.12
यः स॒प्तर᳚श्मिर्वृष॒भस्तुवि᳚ष्मान॒वासृ᳚ज॒त्सर्त᳚वे स॒प्त सिन्धू᳚न् ।
यो रौ᳚हि॒णमस्फु᳚र॒द्वज्र᳚बाहु॒र्द्यामा॒रोह᳚न्तं॒ स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । स॒प्त॑र᳚श्मिः । वृ॒ष॒भः । तुवि᳚ष्मान् । अ॒व॒॑असृ᳚जत् । सर्त᳚वे । स॒प्त । सिन्धू᳚न् ।
यः । रौ॒हि॒णम् । अस्फु᳚रत् । वज्र᳚॑बाहुः । द्याम् । आ॒॑रोह᳚न्तम् । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यःसप्तरश्मिः सप्तसंख्याकाः पर्जन्यारश्मयोयस्य तेचरश्मयः वराहवःस्वतपसोविद्युन्महसोधूपयः शापयोगृहमेधाश्चेत्येते येचमेशिमिविद्विषः पर्जन्याः सप्तपृथिवीमभिवर्षन्तिवृष्टिभिरितितैत्तिरीयार- ण्यकेह्याम्नाताः । वृषभोवर्षकः तुविष्मान् वृद्धिमान्बलवान्वा सप्त सप्रणस्वभावाः सिन्धूनपः सर्तवे- सरणायअवासृजत् अवसृष्टवान् यद्वा गंगाद्याः सप्तमुख्यानदीरवासृजत् यश्चवज्रबाहुः सन् द्यांदिव- मारोहन्तंरौहिणमसुरंअस्फुरत् जघान स्फुरस्फुरणेतुदादिः ॥ १२ ॥

2.12.13
द्यावा᳚ चिदस्मै पृथि॒वी न᳚मेते॒ शुष्मा᳚च्चिदस्य॒ पर्व᳚ता भयन्ते ।
यः सो᳚म॒पा नि᳚चि॒तो वज्र᳚बाहु॒र्यो वज्र᳚हस्त॒ः स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
द्यावा᳚ । चि॒त् । अ॒स्मै॒ । पृ॒थि॒वी इति᳚ । न॒मे॒ते॒ इति᳚ । शुष्मा᳚त् । चि॒त् । अ॒स्य॒ । पर्व᳚ताः । भ॒य॒न्ते॒ ।
यः । सो॒म॒॑पाः । नि॒॑चि॒तः । वज्र᳚॑बाहुः । यः । वज्र᳚॑हस्तः । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मै इन्द्रायद्यावापृथिवी इतरेतरापेक्षयाद्विवचनं प्रमित्रयोर्वरुणयोरितिवत् नमेतेचित् स्वयमे- वप्रह्वीभवतः णमप्रह्वत्वे कर्मकर्तरि नदुहस्नुनमांयक् चिणावितियकः प्रतिषेधः चिदपिच अस्येन्द्र- स्यशुष्मात् बलात्पर्वताभयन्तेबिभ्यति यः सोमपाः सोमस्यपातानिचितः सर्वैः यद्वाअन्येभ्योपिदेवे- भ्योदृढाङ्गः वज्रबाहुः वज्रसदृशबाहुः यश्चवज्रहस्तः वज्रयुक्तकरः सइन्द्रइत्यादिप्रसिद्धम् ॥ १३ ॥

2.12.14
यः सु॒न्वन्त॒मव᳚ति॒ यः पच᳚न्तं॒ यः शंस᳚न्तं॒ यः श᳚शमा॒नमू॒ती ।
यस्य॒ ब्रह्म॒ वर्ध᳚नं॒ यस्य॒ सोमो॒ यस्ये॒दं राध॒ः स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । सु॒न्वन्त᳚म् । अव᳚ति । यः । पच᳚न्तम् । यः । शंस᳚न्तम् । यः । श॒श॒मा॒नम् । ऊ॒ती ।
यस्य᳚ । ब्रह्म᳚ । वर्ध᳚नम् । यस्य᳚ । सोमः᳚ । यस्य᳚ । इ॒दम् । राधः᳚ । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यः सुन्वन्तं सोमाभिषवंकुर्वन्तंयजमानमवतिरक्षति यश्चपुरोडाशादीनिहवींषिपचन्तंयश्चउती- ऊतये सुपांसुलुगितिचतुर्थ्याःपूर्वसवर्णदीर्घः स्वरक्षायैशस्त्राणिशंसन्तंयश्चशशमानं अवति स्तोत्रंकु- र्वाणंरक्षति ब्रह्मपरिवृढंस्तोत्रंयस्यवर्धनंवृद्धिकरंभवति तथायस्यसोमोवृद्धिहेतुर्भवति यस्यचइदम- स्मदीयंराधः पुरोडाशदिलक्षणमन्नंवृद्धिकरंभवति सइन्द्रइत्यादिमसिद्धम् ॥ १४ ॥

2.12.15
यः सु᳚न्व॒ते पच᳚ते दु॒ध्र आ चि॒द्वाजं॒ दर्द᳚र्षि॒ स किला᳚सि स॒त्यः ।
व॒यं त᳚ इन्द्र वि॒श्वह᳚ प्रि॒यासः᳚ सु॒वीरा᳚सो वि॒दथ॒मा व᳚देम ॥
▶ पदपाठः (Word-by-word)
यः । सु॒न्व॒ते । पच᳚ते । दु॒ध्रः । आ । चि॒त् । वाज᳚म् । दर्द᳚र्षि । सः । किल᳚ । अ॒सि॒ । स॒त्यः ।
व॒यम् । ते॒ । इ॒न्द्र॒ । वि॒श्वह᳚ । प्रि॒यासः᳚ । सु॒॑वीरा᳚सः । वि॒दथ᳚म् । आ । व॒दे॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इदानीमृषिः साक्षात्कृतमिन्द्रंप्रतिप्रब्रूते हेइन्द्र योदुध्रः दुर्धरःसन् सुन्वतेसोमाभिषवं कुर्वतेपुरो- डाशादिहवींषिपचतेयजमानायवाजमन्नंबलंवाआदर्दर्षि भृशंप्रापयसि सतादृशस्त्वंसत्यः चित् यथा- र्थभूतएवासि नपुनर्नास्तीतिबुद्धियोग्योसि किलेतिप्रसिद्धौ तेतवप्रियासः सुवीरासः कल्याणपुत्र- पौत्राः सन्तोवयंविश्वह सर्वेष्वहस्सुविदथंस्तोत्रंआवदेम ब्रूयाम ॥ १५ ॥

ऋतुर्जनित्रीतित्रयोदशर्चंद्वितीयंसूक्तंगार्त्समदं ऋतुःसप्तोनांत्यात्रिष्टुबित्यनुक्रमणिका अस्मभ्यं- तद्वसोइति त्रयोदशीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः इन्द्रोदेवता उक्थेतृतीयसवनेच्छावा- कशस्त्रेअस्यसूक्तस्यविनियोगः सूत्रितञ्च—ऋतुर्जनित्रीनूमर्तोभवामित्रइति दशरात्रेषष्ठेहन्यपितृतीय- सवनेच्छावाकशस्त्रेएतत्सूक्तम् ऋतुर्जनित्रीतिनित्यान्यैकाहिकानीतिसूत्रितम् ।