श्रवणम्

2.12.1 समानपद
यो जा॒त ए॒व प्र᳚थ॒मो मन᳚स्वान्दे॒वो दे॒वान्क्रतु᳚ना प॒र्यभू᳚षत् ।
यस्य॒ शुष्मा॒द्रोद᳚सी॒ अभ्य᳚सेतां नृ॒म्णस्य᳚ म॒ह्ना स ज᳚नास॒ इन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । जा॒तः । ए॒व । प्र॒थ॒मः । मन᳚स्वान् । दे॒वः । दे॒वान् । क्रतु᳚ना । प॒रि॒॑अभू᳚षत् ।
यस्य᳚ । शुष्मा᳚त् । रोद᳚सी॒ इति᳚ । अभ्य᳚सेताम् । नृ॒म्णस्य᳚ । म॒ह्ना । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदोब्रूते—जनासोजनाः हेअसुराः यः जातएवजायमानएव सन् प्रथमः देवानांप्रधानभूतः मनस्वान् मनस्विनामग्रगण्यः देवोद्योतमानःसन् क्रतुनावृत्रवधादिलक्षणेनस्वकीयेनकर्मणादेवान्- सर्वान् यागदेवान् पर्यभूषत् रक्षकत्वेनपर्यग्रहीत् भूषअलंकारे भौवादिः लङिरूपं यद्वा सर्वान न्यान्- देवान् पर्यभूषत् पर्यभवत् अत्यक्रामत् अस्मिन्पक्षेभवतेर्व्यत्ययेनक्सः श्र्युकः कितीतीट्प्रतिषेधःयस्ये- न्द्रस्याशुष्मात् शारीरात् बलात् रोदसीद्यावापृथिव्यौअभ्यसेतां अबिभीतां भ्यसभये अनुदात्तेत् भ्य- सभयवेपनयोरितिनैरुक्ताः । अभ्यसेतांअवेपेतांवा तथाचमन्त्रान्तरम्—इमेचितवमन्यवेवेपेतेभिय- सामहीइति । नृम्णस्यसेनालक्षणस्यबलस्यमह्नामहत्त्वेनयुक्तः । सइन्द्रोनाहमिति अत्रनिरुक्तम्— योजातएवप्रथमोमनस्वीदेवोदेवान् क्रतुनाकर्मणापर्यभवत्पर्यगृह्णात्पर्यारक्षदत्यतिक्रामदितिवायस्य- बलाद्द्यावापृथिव्यावप्यबिभीतांनृम्णस्यमह्नाबलस्यमहत्त्वेनसजनासइन्द्रइत्यृषेर्दृष्टार्थस्यप्रीतिर्भ- वत्याख्यानसंयुक्तेति ॥ १ ॥