यो र॒ध्रस्य᳚ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध᳚मानस्य की॒रेः ।
यु॒क्तग्रा᳚व्णो॒ यो॑वि॒ता सु᳚शि॒प्रः सु॒तसो᳚मस्य॒ स ज᳚नास॒ इन्द्र᳚ः ॥
यु॒क्तग्रा᳚व्णो॒ यो॑वि॒ता सु᳚शि॒प्रः सु॒तसो᳚मस्य॒ स ज᳚नास॒ इन्द्र᳚ः ॥
पदपाठः (Word-by-word)
यः । र॒ध्रस्य᳚ । चो॒दि॒ता । यः । कृ॒शस्य᳚ । यः । ब्र॒ह्मणः᳚ । नाध᳚मानस्य । की॒रेः ।
यु॒क्त॑ग्रा᳚व्णः । यः । अ॒वि॒ता । सु॒॑शि॒प्रः । सु॒त॑सो᳚मस्य । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
यु॒क्त॑ग्रा᳚व्णः । यः । अ॒वि॒ता । सु॒॑शि॒प्रः । सु॒त॑सो᳚मस्य । सः । ज॒ना॒सः॒ । इन्द्रः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
यःरध्रस्य रधहिंसासंराध्योः समृद्धस्यचोदिताधनानां प्रेरयिताभवति यश्चकृश्स्यचदरिद्रस्यच यश्चनाधमानस्य नाथृनाधृयाच्ञोपतापैश्वर्याशीःषु याचमानस्यकीरेः करोतेःकीर्तयतेर्वी स्तोतुः ब्रह्म- णोब्राह्मणस्यच धनानांप्रेरयिता यश्चसुशिपःशोभनहनुः सुशीर्षकोवासन् युक्तग्राव्णः अभिषवार्थमु- द्यतग्राव्णः सुतसोमस्याभिषुतसोमस्ययजमानस्याविता रक्षिताभवति सएवेन्द्रोनाहमिति ब्रह्मशब्द- स्यत्वन्नपरत्वेह्याद्युदात्ततास्यात् तथाब्रह्मवन्वानोअजरंसुवीरमिति । अयंत्वन्तोदात्तःपठ्यतइतिना- न्नपरः ॥ ६ ॥