द्वितीयं मण्डलम् - सूक्तम् 15

10 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.15 - सम्पूर्णम्

1 / 10
ऋक्: 2.15.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (10)
2.15.1
प्र घा॒ न्व᳚स्य मह॒तो म॒हानि᳚ स॒त्या स॒त्यस्य॒ कर᳚णानि वोचम् ।
त्रिक᳚द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो᳚ जघान ॥
▶ पदपाठः (Word-by-word)
प्र । घ॒ । नु । अ॒स्य॒ । म॒ह॒तः । म॒हानि᳚ । स॒त्या । स॒त्यस्य᳚ । कर᳚णानि । वो॒च॒म् ।
त्रि॑क᳚द्रुकेषु । अ॒पि॒ब॒त् । सु॒तस्य᳚ । अ॒स्य । मदे᳚ । अहि᳚म् । इन्द्रः᳚ । ज॒घा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदोभ्रूते महतोबलवतः सत्यस्य सत्यसंकल्पस्यास्येन्द्रस्य सत्या सत्यानियथार्थानि महानि- महान्तिकरणानि अस्मिन् सूक्तेवक्ष्यमाणानिकर्माणिनुअद्यप्रवोचं प्रकर्षेणब्रवीमि वचपरिभाषणे छन्दसिलुङ्लङ् लिटइतिवर्तमानेलुङि अस्यतिवक्तिख्यातिभ्योङ् वचउम् घेतिप्रसिद्धौ कानितानि- उच्यन्ते त्रिकद्र्४उकेषुज्योतिर्गोरायुरित्येवंरूपेष्वाभिप्लविकेष्वहस्सु सुतस्याभिषुतंसोमं इन्द्रोपिबत् ततःपीतस्यास्यसोमस्यमदेहर्षेसंजातेसति इन्द्रः अहिंवृत्रमसुरंजघानहतवान् ॥ १ ॥

2.15.2
अ॒वं॒शे द्याम᳚स्तभायद्बृ॒हन्त॒मा रोद᳚सी अपृणद॒न्तरि᳚क्षम् ।
स धा᳚रयत्पृथि॒वीं प॒प्रथ᳚च्च॒ सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
अ॒वं॒शे । द्याम् । अ॒स्त॒भा॒य॒त् । बृ॒हन्त᳚म् । आ । रोद᳚सी॒ इति᳚ । अ॒पृ॒ण॒त् । अ॒न्तरि᳚क्षम् ।
सः । धा॒र॒य॒त् । पृ॒थि॒वीम् । प॒प्रथ᳚त् । च॒ । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अवंशेआकाशेद्यांद्योतमानंसूर्यंद्युलोकंवा अस्तभायत् इन्द्रः अस्तभ्रात् अनवलंबनस्यतस्थावस्था- पनमकरोदित्यर्थः स्तंभुइतिसौत्रोधातुः क्र्यादिः लङिव्यत्ययोबहुलमितिअहावपि शायजदेशः बृहंतं- महदन्तरिक्षं रोदसीद्यावापृथिव्यौचआअपृणत् स्वतेजसापूरितवान् किञ्च सइन्द्रः पृथिवींविस्तीर्णां- भूमिंधारयत् अधारयत् तथा पप्रथच्च एनांभूमिंअप्रथयत् प्रथप्रख्याने ण्यन्तस्यलुङिचङिरूपम् चङ्य- न्यतरस्यामितिमध्योदात्तत्वं सोमस्यमदेहर्षेसञ्चातेसति ता तानीमानिकर्माणीन्द्रश्चकार ॥ २ ॥

2.15.3
सद्मे᳚व॒ प्राचो॒ वि मि᳚माय॒ मानै॒र्वज्रे᳚ण॒ खान्य᳚तृणन्न॒दीना᳚म् ।
वृथा᳚सृजत्प॒थिभि᳚र्दीर्घया॒थैः सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सद्म᳚॑इव । प्राचः᳚ । वि । मि॒मा॒य॒ । मानैः᳚ । वज्रे᳚ण । खानि᳚ । अ॒तृ॒ण॒त् । न॒दीना᳚म् ।
वृथा᳚ । अ॒सृ॒ज॒त् । प॒थि॑भिः᳚ । दी॒र्घ॒॑या॒थैः । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सद्मेव यथायज्ञगृहान्मानैः षट् त्रिंश्त्प्रक्रमप्राचीत्येवंरूपैःपरिमाणैः प्राक् प्रवणान्कुर्वन्ति तद्वत् सिन्धून् लोकान्वानृजून्मानैः परिमाणैः प्राचः प्राङ्मुखान्विमिमाय इन्द्रोविशेषेणनिर्मितवान् तथा- नदीनांखानिनिर्गमनद्वाराणिवज्रेणचअतृणत् अखनत् तृहिहिंसानादरयोः रुधादिलङ् तथाचमन्त्रः— इन्द्रोअस्माँअरदद्वज्रबाहुरिति । तथादीर्घयाथैः बहुकालंगन्तव्यैः पथिभिर्मार्गैः वृथासृजत् अनाया- सेनतानदीःसृष्टवान् सोमस्येतिसिद्धार्थइति ॥ ३ ॥

2.15.4
स प्र᳚वो॒ळ्हॄन्प᳚रि॒गत्या᳚ द॒भीते॒र्विश्व᳚मधा॒गायु᳚धमि॒द्धे अ॒ग्नौ ।
सं गोभि॒रश्वै᳚रसृज॒द्रथे᳚भि॒ः सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सः । प्र॒॑वो॒ळ्हॄन् । प॒रि॒॑गत्य᳚ । द॒भीतेः᳚ । विश्व᳚म् । अ॒धा॒क् । आयु᳚धम् । इ॒द्धे । अ॒ग्नौ ।
सम् । गोभिः᳚ । अश्वैः᳚ । अ॒सृ॒ज॒त् । रथे᳚भिः । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

प्राक्विलचुमुरिधुनिप्रभृतयोसुराः दभीतेःपुरंसंरुध्यतंपरिगृह्यतस्मात्पुरान्निरगुरितिकथा सइन्द्रः दभीतेः दभीतिर्नामकश्चिद्राजर्षिः तस्यप्रवोह्ळ्न् प्रवोढृन् सहिव्होरोदवर्णस्येत्योत्वम् प्रकर्षेणतं- दभीतिंवहतस्तानसुरान्मध्येमार्गंपरिगत्यतेषांविश्वंसर्वमायुधमिद्धेग्नौदीप्यमानेवह्नौअधाक् अधा- क्षित् दहेर्लुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् पश्चात्तंदभीतिंगोभिरश्वैरथेभिः रथैश्चसमसृजत् संयोजित- वान् सोमस्येत्यादिसिद्धमिति ॥ ४ ॥ अतिमूर्तिनाम्न्येकाहेमरुत्वतीयेसूक्तमुखीया अतिमूर्तिनेतिखण्डेसूत्रितम्—सईंमहींधुनिमेतो- ररम्णादिति ।

2.15.5
स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त्सो अ᳚स्ना॒तॄन᳚पारयत्स्व॒स्ति ।
त उ॒त्स्नाय᳚ र॒यिम॒भि प्र त᳚स्थु॒ः सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । म॒हीम् । धुनि᳚म् । एतोः᳚ । अ॒र॒म्णा॒त् । सः । अ॒स्ना॒तॄन् । अ॒पा॒र॒य॒त् । स्व॒स्ति ।
ते । उ॒त्॑स्नाय᳚ । र॒यिम् । अ॒भि । प्र । त॒स्थुः॒ । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः ईमेनांमहींमहतीं धुनिं धुनोतिस्तोतॄणांपापानीतिधुनिः परुष्णीनदी तां एतोः ईश्वर- पदासन्निधानेपि तोसुन्प्रत्ययः ऋषीणांगमनार्थंअरम्णात् उपाशमयत् महाजलांनदींअल्पोदकाम- करोदित्यर्थः सइन्द्रः अस्नातॄन् स्नातुमशक्तान् तरणासमर्थानृषीन् स्वस्तिक्षेमेणअपरयत् तेमहर्षयः उत्स्नायतांनदीमुत्तीर्ययंरयिमपेक्ष्यगच्छन्ति तंरयिंअभिलक्ष्यप्रतस्थुः प्रतस्थिरे शिष्टंसिद्धम् ॥ ५ ॥

2.15.6
सोद᳚ञ्चं॒ सिन्धु᳚मरिणान्महि॒त्वा वज्रे॒णान᳚ उ॒षस॒ः सं पि᳚पेष ।
अ॒ज॒वसो᳚ ज॒विनी᳚भिर्विवृ॒श्चन्त्सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सः । उद᳚ञ्चम् । सिन्धु᳚म् । अ॒रि॒णा॒त् । म॒हि॒॑त्वा । वज्रे᳚ण । अनः᳚ । उ॒षसः᳚ । सम् । पि॒पे॒ष॒ ।
अ॒ज॒वसः᳚ । ज॒विनी᳚भिः । वि॒॑वृ॒श्चन् । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सइन्द्रः सिन्धुंप्राञ्चंसन्तंमहित्वास्वकीयेनमहिम्नाउदञ्चमरिणात् उदङ्मुखमकरोत् सिन्धुशब्दः छन्दसिपुँल्लिङ्गः उषसः उषोदेव्याः अनः शकटंवज्रेणसंपिपेष चूर्णीचकार एतच्चदिवश्चिद्घादुहितर मित्यत्रस्पष्टंवक्ष्यते किंकुर्वन् अजवसः जवहीनादुर्बलाःसेनाःजविनीभिः जवयुक्ताभिः सेनाभिः विवृश्चन् विशेषेणभिन्दन् पिपेषेतिसमन्वयः ओव्रश्चूछेदने शतरिग्रहिज्यादिनासंप्रसारणं शिष्टं- स्पष्टम् ॥ ६ ॥

2.15.7
स वि॒द्वा{4} अ᳚पगो॒हं क॒नीना᳚मा॒विर्भव॒न्नुद᳚तिष्ठत्परा॒वृक् ।
प्रति᳚ श्रो॒णः स्था॒द्व्य१॒᳚नग᳚चष्ट॒ सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सः । वि॒द्वान् । अ॒प॒॑गो॒हम् । क॒नीना᳚म् । आ॒विः । भव᳚न् । उत् । अ॒ति॒ष्ठ॒त् । प॒रा॒॑वृक् ।
प्रति᳚ । श्रो॒णः । स्था॒त् । वि । अ॒नक् । अ॒च॒ष्ट॒ । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुराकिलकन्यकाः चक्षुर्हीनंपादहीनंपरावृजंजिघृक्षुमृषिंदृष्ट्वाभिदुद्रुवुः ततःसऋषिः इन्द्रं स्तु- त्वाचक्षुःपादंचलेभे तदेतदाह सःकनीनांकन्यकानांअपगोहं अपगोहनंतिरोभावं विद्वान् परावृगृषिः आविर्भवन् सर्वेषांप्रत्यक्षोभवन् उदतिष्ठन् श्रोणः पूर्वंपङ्मुरिदानींइन्द्रस्यप्रसादाद्विभग्नजानुः ताः कन्याः प्रतिस्थात् पूर्वमन्धः अधुनचक्षुर्लाभाद्भ्यचष्ट ताः कन्यकाः विशेषेणपश्यति स्म तानीमानि- कर्माणि सइन्द्रश्चकार ॥ ७ ॥

2.15.8
भि॒नद्व॒लमङ्गि᳚रोभिर्गृणा॒नो वि पर्व᳚तस्य दृंहि॒तान्यै᳚रत् ।
रि॒णग्रोधां᳚सि कृ॒त्रिमा᳚ण्येषां॒ सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
भि॒नत् । व॒लम् । अङ्गि᳚रः॑भिः । गृ॒णा॒नः । वि । पर्व᳚तस्य । दृं॒हि॒तानि᳚ । ऐ॒र॒त् ।
रि॒णक् । रोधां᳚सि । कृ॒त्रिमा᳚णि । ए॒षा॒म् । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अङ्गिरोभिर्गृणानः स्तूयमानः सइन्द्रः वलंवलनामकमसुरंभिनत् अभिनत् तथागवांनिरोधक- स्यपर्वतस्यदृंहितानिशिलाभिर्दृढीकृतानिद्वाराणि व्यैरत् उद्घाटितवान् तदेवाह एषांपर्वतानां कृत्रि- माणिक्रिययानिर्वृत्तानिरोधांसिनिरुद्धानिद्वाराणिरिणक् उदघटयत् गतमन्यत् ॥ ८ ॥ अतिमूर्तिनाम्न्येकाहे निष्केवल्येसूक्तमुखीयास्वप्नेनेत्येषा सूत्रितम्—स्वप्नेनाभ्युप्याचुमुरिंधुनिं- चेतिसूक्तमुखीयेति ।

2.15.9
स्वप्ने᳚ना॒भ्युप्या॒ चुमु᳚रिं॒ धुनिं᳚ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति᳚मावः ।
र॒म्भी चि॒दत्र᳚ विविदे॒ हिर᳚ण्यं॒ सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
स्वप्ने᳚न । अ॒भि॒॑उप्य᳚ । चुमु᳚रिम् । धुनि᳚म् । च॒ । ज॒घन्थ᳚ । दस्यु᳚म् । प्र । द॒भीति᳚म् । आ॒वः॒ ।
र॒म्भी । चि॒त् । अत्र᳚ । वि॒वि॒दे॒ । हिर᳚ण्यम् । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्वंदस्युंसर्वस्योपक्षपयितारंचुमुरिंधुनिंच एतन्नामानावसुरौस्वप्नेनदीर्घनिद्रयाअभ्युप्य संयोज्य- जघंथहतवानसि ततस्ताभ्यांयुध्यमानंदभीतिंराजर्षिंप्रावः रक्षितवानसि तथाचमन्त्रवर्णः—त्वंनिद- स्युंचुमुरिंधुनिंचास्वापयोदभीतयेसुहन्त्विति । आवः अवतेरक्षणार्थस्यलङिसिपिरूपम् रंभीचित् वेत्रधारीचास्यदौवारिकः अत्रास्मिन्युद्धेतयोरसुरयोरसुरयोर्हिरण्यंधनंविविदेलेभे विदॢलाभे स्वरिते- त् तानीमानिकर्माणिसोमस्यमदेसतिचकारेति ॥ ९ ॥

2.15.10
नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु᳚ही॒यदि᳚न्द्र॒ दक्षि᳚णा म॒घोनी᳚ ।
शिक्षा᳚ स्तो॒तृभ्यो॒ माति᳚ ध॒ग्भगो᳚ नो बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
नू॒नम् । सा । ते॒ । प्रति᳚ । वर᳚म् । ज॒रि॒त्रे । दु॒ही॒यत् । इ॒न्द्र॒ । दक्षि᳚णा । म॒घोनी᳚ ।
शिक्ष᳚ । स्तो॒तृ॑भ्यः᳚ । मा । अति᳚ । ध॒क् । भगः᳚ । नः॒ । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषाऋग्व्याख्याता ॥ १० ॥

प्रवः सतामितिनवर्चंपञ्चमंसूक्तंगार्त्समदमैन्द्रम् अत्रानुक्रमणिका—प्र्वोनवान्त्यात्रिष्टुबिति नव- मीत्रिष्टुप् शिष्टास्त्रिष्टुबन्तपरिभाषयाजगत्यः तृतीयेपर्यायेच्छावाकशस्त्रेप्रवःसतामितिसूक्तम् अतिरा- त्रेइतिखण्डेसूत्रितम्—प्रवः सतांप्रोद्रोणेहरयःकर्माग्मन्नितियाज्येति ।