श्रवणम्

2.15.3
सद्मे᳚व॒ प्राचो॒ वि मि᳚माय॒ मानै॒र्वज्रे᳚ण॒ खान्य᳚तृणन्न॒दीना᳚म् ।
वृथा᳚सृजत्प॒थिभि᳚र्दीर्घया॒थैः सोम᳚स्य॒ ता मद॒ इन्द्र᳚श्चकार ॥
▶ पदपाठः (Word-by-word)
सद्म᳚॑इव । प्राचः᳚ । वि । मि॒मा॒य॒ । मानैः᳚ । वज्रे᳚ण । खानि᳚ । अ॒तृ॒ण॒त् । न॒दीना᳚म् ।
वृथा᳚ । अ॒सृ॒ज॒त् । प॒थि॑भिः᳚ । दी॒र्घ॒॑या॒थैः । सोम᳚स्य । ता । मदे᳚ । इन्द्रः᳚ । च॒का॒र॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सद्मेव यथायज्ञगृहान्मानैः षट् त्रिंश्त्प्रक्रमप्राचीत्येवंरूपैःपरिमाणैः प्राक् प्रवणान्कुर्वन्ति तद्वत् सिन्धून् लोकान्वानृजून्मानैः परिमाणैः प्राचः प्राङ्मुखान्विमिमाय इन्द्रोविशेषेणनिर्मितवान् तथा- नदीनांखानिनिर्गमनद्वाराणिवज्रेणचअतृणत् अखनत् तृहिहिंसानादरयोः रुधादिलङ् तथाचमन्त्रः— इन्द्रोअस्माँअरदद्वज्रबाहुरिति । तथादीर्घयाथैः बहुकालंगन्तव्यैः पथिभिर्मार्गैः वृथासृजत् अनाया- सेनतानदीःसृष्टवान् सोमस्येतिसिद्धार्थइति ॥ ३ ॥