द्वितीयं मण्डलम् - सूक्तम् 25

5 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: ब्रह्मणस्पतिः छन्दः: जगती

सूक्तम् 2.25 - सम्पूर्णम्

1 / 5
ऋक्: 2.25.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (5)
2.25.1
इन्धा᳚नो अ॒ग्निं व᳚नवद्वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्रा॒तह᳚व्य॒ इत् ।
जा॒तेन᳚ जा॒तमति॒ स प्र स᳚र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
इन्धा᳚नः । अ॒ग्निम् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । कृ॒त॑ब्र᳚ह्मा । शू॒शु॒व॒त् । रा॒त॑ह᳚व्यः । इत् ।
जा॒तेन᳚ । जा॒तम् । अति᳚ । सः । प्र । स॒र्सृ॒ते॒ । यम्॑य᳚म् । युज᳚म् । कृ॒णु॒ते । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अग्निमिन्धानः ब्रह्मणस्पतेर्यागार्थंअग्निंप्रज्वलयन्यजमानः वनुष्यतोहिंसिष्यतोहिंसां कुर्वतोवाश- त्रून् वनवत् वनुयाथिंस्यात् वनुष्यतिर्हन्तिकर्मेतियास्कः । इदितिचार्थे किञ्च कृतब्रह्मा ब्रह्मस्तोत्रंकृतं येनसतथोक्तः रातहव्यः रातंदत्तंहव्यंहविर्येन एवंभूतःसन् शूशुवत् वर्धते टुओश्विगतिवृद्भ्योः अस्मा- ण्ण्यन्ताल्लुङिरूपम् तथासयजमानः जातेनपुत्रेणजातंउत्पादितंस्वस्य पौत्रं अतिप्रसर्सृते अतीत्यभृशं प्रसरति पौत्रमपिपस्यन् चिरकालंजीवेदित्यर्थः सर्तेर्यङ्लुगन्ताद्भ्यत्ययेनात्मनेपदम् यंयंयजमानंब्रह्म- णस्पतिः स्तोत्रहविषोःस्वीकरणेनयुजं सखायं कृणुतेकुरुते सससमानएवभवतीत्यर्थः ॥ १ ॥

2.25.2
वी॒रेभि᳚र्वी॒रान्व᳚नवद्वनुष्य॒तो गोभी᳚ र॒यिं प᳚प्रथ॒द्बोध᳚ति॒ त्मना᳚ ।
तो॒कं च॒ तस्य॒ तन᳚यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
वी॒रेभिः᳚ । वी॒रान् । व॒न॒व॒त् । व॒नु॒ष्य॒तः । गोभिः᳚ । र॒यिम् । प॒प्र॒थ॒त् । बोध᳚ति । त्मना᳚ ।
तो॒कम् । च॒ । तस्य᳚ । तन᳚यम् । च॒ । व॒र्ध॒ते॒ । यम्॑य᳚म् । युज᳚म् । कृ॒णु॒ते । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सयजमानः वीरेभिः वीरैरात्मीयैःपुत्रैः वनुष्यतोहिंसतः वीरान् शत्रुपुत्रान् वनवत् वनुयात् हिं- स्यात् अपिच गोभिःसहितंरयिंधनंपप्रथत् प्रथयति विस्तारयति प्रथयतेर्लुङिचङ्येतद्रूपम् तथात्मना आत्मनैवबोधति सर्वंजानाति अनन्याधीनज्ञानोभवतीत्यर्थः किञ्च त्स्ययजमानस्य तोकंपुत्रः तनयं विभक्तिव्यत्ययः तनयस्तत्पुत्रश्चवर्धते प्रवृद्धोभवति तदातोकंतनयं पुत्रंपौत्रंचब्रह्मणस्पतिर्वर्धयति वृधिरन्तर्भावितण्यर्थोद्रष्टव्यः अन्यद्गतम् ॥ २ ॥

2.25.3
सिन्धु॒र्न क्षोद॒ः शिमी᳚वा{4} ऋघाय॒तो वृषे᳚व॒ वध्री{4}᳚र॒भि व॒ष्ट्योज᳚सा ।
अ॒ग्नेरि᳚व॒ प्रसि᳚ति॒र्नाह॒ वर्त᳚वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
सिन्धुः᳚ । न । क्षोदः᳚ । शिमी᳚॑वान् । ऋ॒घा॒य॒तः । वृषा᳚॑इव । वध्री᳚न् । अ॒भि । व॒ष्टि॒ । ओज᳚सा ।
अ॒ग्नेः॑इ᳚व । प्र॑सि᳚तिः । न । अह᳚ । वर्त᳚वे । यम्॑य᳚म् । युज᳚म् । कृ॒णु॒ते । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सिन्धुः स्यन्दनशीलानदीक्षोदोन क्षुद्यमानंकूलंयथाभिनत्तितथा शिमीवान् शिमीतिकर्मनाम ब्रह्मणस्पतेःपरिचरणात्मनाकर्मणायुक्तोयजमानः ऋघायतोहिंसतःशत्रून् ओजसाबलेनअभिवष्टि हन्तुमभितःकामयते व्शक्रान्तौ इदमपरंनिदर्शनम् वृषेववध्रीन् वध्रयोनिष्पिष्टमुष्कानिर्वीर्याबली- वर्दाः तान् यथावृषासेचनसमर्थः सवीर्योवृषभोभिभवति तद्वत् शत्रूनभिभवतीत्यर्थः अपिचासौअग्ने- रिवप्रसितिः प्रसीयतेबद्भ्यतेनयेतिप्रसितिर्ज्वाला षिञ् बन्धने करणेक्तिन् यथा अग्नेर्ज्वालाअप्रतिहत- प्रसराएवमपिनवर्तवेवारयितुंनिवर्तयितुंवानैवशक्यते अहशब्दोवधारणे वृणोतेरन्तर्भावितण्यर्थात् वर्ततेर्वातुमर्थेतवेन्प्रत्ययः अन्यद्गतम् ॥ ३ ॥

2.25.4
तस्मा᳚ अर्षन्ति दि॒व्या अ᳚स॒श्चत॒ः स सत्व᳚भिः प्रथ॒मो गोषु᳚ गच्छति ।
अनि᳚भृष्टतविषिर्ह॒न्त्योज᳚सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । अ॒र्ष॒न्ति॒ । दि॒व्याः । अ॒स॒श्चतः᳚ । सः । सत्व᳚॑भिः । प्र॒थ॒मः । गोषु᳚ । ग॒च्छ॒ति॒ ।
अनि᳚भृष्ट॑तविषिः । ह॒न्ति॒ । ओज᳚सा । यम्॑य᳚म् । युज᳚म् । कृ॒णु॒ते । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्मैयजमानायदिव्यादिविभवावृष्टिलक्षणाः आपः असश्चतः असज्यमानाः अनिरुद्धाः सत्यः अर्षंतिगच्छन्ति प्राप्नुवन्ति अर्तेर्लेटिरूपम् तथासयजमानः सत्वभिः सत्वानः साधकाः परिचारकाः तैः सहितः प्रथमोन्येभ्योयजमानेभ्यः पूर्वभावीसन् गोषुगच्छति गवादिधनंप्राप्नोतीत्यर्थः किञ्च अनिभृष्टतविषिः तविषीतिबलनाम अनिभृष्टापरैरबाधितातविषीबलंयस्यतादृशः सन् ओजसाब- लेनहन्तिशत्रून् ॥ ४ ॥

2.25.5
तस्मा॒ इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वो॑च्छि᳚द्रा॒ शर्म᳚ दधिरे पु॒रूणि᳚ ।
दे॒वानां᳚ सु॒म्ने सु॒भग॒ः स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
तस्मै᳚ । इत् । विश्वे᳚ । धु॒न॒य॒न्त॒ । सिन्ध᳚वः । अच्छि᳚द्रा । शर्म᳚ । द॒धि॒रे॒ । पु॒रूणि᳚ ।
दे॒वाना᳚म् । सु॒म्ने । सु॒॑भगः᳚ । सः । ए॒ध॒ते॒ । यम्॑य᳚म् । युज᳚म् । कृ॒णु॒ते । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

तस्माइत् तस्माएवयजमानायविश्वेसिन्धवः सर्वाःस्यन्दनशीलानद्यः धुनयन्त चलयन्ति एतदभी ष्टफलसिद्भ्यर्थंप्रवहन्तीत्यर्थः तथाअच्छिद्राअच्छिद्राणि छिद्ररहितानिसन्ततानि पुरूणिबहूनिशर्मश- र्माणिसुखानिदधिरे तस्माएवधार्यन्ते यद्वा शर्मेतिगृहनाम छिद्ररहितानिबहूनि सदनानिधार्यन्ते सयजमानः सुभगः शोभनधनः देवानांसुम्ने देवैःप्रत्तेसुखेवर्तमानः सन् एधते वर्धते शिष्टंस्पष्टम् ॥ ५ ॥

ऋजुरितिचतुरृच्ंचतुर्थंसूक्तं गृत्समदस्यार्षंजागतंब्राह्मणस्पत्यम् तथाचानुक्रान्तम्-ऋजुश्चतुष्क- मिति गतोविनियोगः ।