द्वितीयं मण्डलम् - सूक्तम् 4

9 ऋचः

ऋषिः: सोमाहुतिर्भार्गवः देवता: अग्निः छन्दः: त्रिष्टुप्

सूक्तम् 2.4 - सम्पूर्णम्

1 / 9
ऋक्: 2.4.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (9)
2.4.1 समानपद
हु॒वे वः᳚ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति᳚थिं सुप्र॒यस᳚म् ।
मि॒त्र इ᳚व॒ यो दि᳚धि॒षाय्यो॒ भूद्दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
हु॒वे । वः॒ । सु॒॑द्योत्मा᳚नम् । सु॒॑वृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति᳚थिम् । सु॒॑प्र॒यस᳚म् ।
मि॒त्रः॑इ᳚व । यः । दि॒धि॒षाय्यः᳚ । भूत् । दे॒वः । आ॑दे᳚वे । जने᳚ । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमानाःवोयुष्मदर्थं अग्निंहुवेआह्वयामि कीदृशंतं सुद्योत्मानं सुष्ठुद्योतमानंसुवृक्तिं सुवर्जि- तंपापैः शोभनस्तुतिंवाविशांयजमानानांअतिथिं अतिथिवत्सदापूज्यंसुप्रयसंशोभनहविर्लक्षणान्नं किञ्चजातवेदाः जातानांवेदितायोदेवोग्निर्मित्रइव सखेवआदित्यइववादिधिषाय्यः धारयिता भूत् भवति कुत्रेतिउच्यते आदेवेवपर्यन्तेजनेमनुष्यप्रभृतिदेवपर्यन्तेषु तेषांधारकोभवदित्यर्थः ॥ १ ॥

2.4.2 समानपद
इ॒मं वि॒धन्तो᳚ अ॒पां स॒धस्थे᳚ द्वि॒ताद᳚धु॒र्भृग᳚वो वि॒क्ष्वा॒३॒᳚योः ।
ए॒ष विश्वा᳚न्य॒भ्य᳚स्तु॒ भूमा᳚ दे॒वाना᳚म॒ग्निर᳚र॒तिर्जी॒राश्व᳚ः ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । वि॒धन्तः᳚ । अ॒पाम् । स॒ध॑स्थे᳚ । द्वि॒ता । अ॒द॒धुः॒ । भृग᳚वः । वि॒क्षु । आ॒योः ।
ए॒षः । विश्वा᳚नि । अ॒भि । अ॒स्तु॒ । भूम᳚ । दे॒वाना᳚म् । अ॒ग्निः । अ॒र॒तिः । जी॒र॑अ᳚श्वः ॥
▶ सायणभाष्यम् (Sayana Commentary)

इममग्निंविधन्तः परिचरन्तोभृगवोस्मत्पूर्वेमहर्षयः अपांसधस्थेसहस्थानेन्तरिक्षेआयोर्मनुष्य- स्ययजमानस्यस्वभूतासुविक्षुप्रजास्वृत्विक्षुतेषांमध्येचद्विताद्वयोःस्थानात् अदधुः अधारयत् दधाते- र्लुङिरूपं एषोग्निर्भूमभूम्नाअत्यर्थंविश्वानिभूतजातान्यस्मद्विरोधीन्यभ्यस्तुअभिभवतु सकीदृशः देवानामरतिरीश्वरः तेषांमध्येशीघ्रंअरणशीलोवास्मद्यागंप्रति तथाजीराश्वः क्षिप्राश्वः ॥ २ ॥

2.4.3
अ॒ग्निं दे॒वासो॒ मानु᳚षीषु वि॒क्षु प्रि॒यं धु᳚ः क्षे॒ष्यन्तो॒ न मि॒त्रम् ।
स दी᳚दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व᳚ते॒ दम॒ आ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । दे॒वासः᳚ । मानु᳚षीषु । वि॒क्षु । प्रि॒यम् । धुः॒ । क्षे॒ष्यन्तः᳚ । न । मि॒त्रम् ।
सः । दी॒द॒य॒त् । उ॒श॒तीः । ऊर्म्याः᳚ । आ । द॒क्षाय्यः᳚ । यः । दास्व᳚ते । दमे᳚ । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवासोदेवाः क्षेष्यन्तः स्वर्गंप्रतिगच्छन्तःसन्तः पूर्वंमानुषीषुमनुष्यसंबन्धिनीषुविक्षुप्रजासु प्रियंदेवानांप्रीणयितारमग्निं धुः अधुः स्थपितवन्तः तत्रदृष्टान्तः—क्षेष्यन्तोमित्रंन रायंप्रतिगच्छ- न्तोनरामित्रंप्रियंसखायंस्वगृहरक्षार्थंस्थापयन्ति तद्वत् एवंदेवैःस्थापितोयोग्निर्दास्वतेहविर्दत्तवते- यजमानायतदर्थंदमतदीयेयागगृहेआआहितः स्थापितः दक्षाय्यः समर्धयितादातावा सोग्निः उशतीः कामयमानाः ऊर्म्याः रात्रीः सर्वासुरात्रिषुआदीदयत् दीप्यतेसर्वतः सर्वरात्रीरादीपयतिवा ॥ ३ ॥

2.4.4
अ॒स्य र॒ण्वा स्वस्ये᳚व पु॒ष्टिः संदृ᳚ष्टिरस्य हिया॒नस्य॒ दक्षो᳚ः ।
वि यो भरि᳚भ्र॒दोष᳚धीषु जि॒ह्वामत्यो॒ न रथ्यो᳚ दोधवीति॒ वारा᳚न् ॥
▶ पदपाठः (Word-by-word)
अ॒स्य । र॒ण्वा । स्वस्य᳚॑इव । पु॒ष्टिः । सम्॑दृ᳚ष्टिः । अ॒स्य॒ । हि॒या॒नस्य᳚ । धक्षोः᳚ ।
वि । यः । भरि᳚भ्रत् । ओष᳚धीषु । जि॒ह्वाम् । अत्यः᳚ । न । रथ्यः᳚ । दो॒ध॒वी॒ति॒ । वारा᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेः पुष्टिः शरीरवृद्धिः रण्वारमणीयाशब्दयुक्तावा तत्रदृष्टान्तः—स्वस्यपुष्टिरिवयथालोके स्वकीयापुष्टिः स्वस्मैरमणीयाभवतितद्वत् यद्वास्याग्नेःसंबन्धिनीपुष्टिः यथायजमानविषयारण्वातद्वत् किञ्च हियानस्यसमृद्धिंगच्छतोव्याप्नुवतोधक्षोः काष्ठान् दिधक्षोःदग्धुमिच्छोरस्याग्नेः सन्दृष्टिः सन्द- र्शनाविर्भावोपिरण्वा योग्निरोषधीषुकाष्ठेषुजिह्वांज्वालां जात्येकवचनं ज्वालाः विभरिभ्रत् अत्य- र्थंविहिरतिकम्पयतीत्यर्थः हरतेर्यङ् लुगन्तत्वेनदाधर्त्यादिषुनिपातिताल्लेट्यडागमः यद्योगादनि- घातः तत्रदृष्टान्तः—रथ्योरथार्होऽत्योन वाजीयथा वारान् दंशवारणसाधनान् बालान् दोधवीति कम्पयतितद्वत् योग्निर्ज्वालाःकम्पयति अस्याग्नेःपुष्टिःरण्वेति ॥ ४ ॥

2.4.5
आ यन्मे॒ अभ्वं᳚ व॒नद॒ः पन᳚न्तो॒शिग्भ्यो॒ नामि᳚मीत॒ वर्ण᳚म् ।
स चि॒त्रेण᳚ चिकिते॒ रंसु᳚ भा॒सा जु᳚जु॒र्वा{4} यो मुहु॒रा युवा॒ भूत् ॥
▶ पदपाठः (Word-by-word)
आ । यत् । मे॒ । अभ्व᳚म् । व॒नदः᳚ । पन᳚न्त । उ॒शिक्॑भ्यः᳚ । न । अ॒मि॒मी॒त॒ । वर्ण᳚म् ।
सः । चि॒त्रेण᳚ । चि॒कि॒ते॒ । रम्॑सु᳚ । भा॒सा । जु॒जु॒र्वान् । यः । मुहुः᳚ । आ । युवा᳚ । भूत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यत् यस्याभ्वं महत्त्वंमेममसंबन्धिनोवनदः संभक्तारः यद्वा वनदःअवनदः भृशंशब्दयन्तः स्तोता- रः अवशब्दोभृशार्थवाचीतत्पूर्वान्नदेःक्विप् अवाप्योरित्यकारलोपः आपनन्त समन्तात् स्तुवन्ति सो- ग्निरुशिग्भ्योस्मदीयंरूपंकामयमानेभ्यः ऋत्विग्भ्योवर्णं स्वसदृशंरूपंनामिमीत नशब्दश्चार्थे निर्मिमी- तेच रंसु रमणीयेष्वाज्यादिहविःषुनिमित्तेषु चित्रेणभासाकनकादिनानावर्णया दीप्त्याचिकिते विज्ञा- यते किञ्च योग्निःजुजुर्वान् जीर्णःसन् ज्वालोपशमेसएवमुहुःपुनःपुनः आयुवासर्वतोमिश्रयितातरुणो- वाभूत् भवतिपुनराज्यादिसंयोगात् ॥ ५ ॥

2.4.6
आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् ।
कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि᳚केत॒ द्यौरि᳚व॒ स्मय᳚मानो॒ नभो᳚भिः ॥
▶ पदपाठः (Word-by-word)
आ । यः । वना᳚ । त॒तृ॒षा॒णः । न । भाति᳚ । वाः । न । प॒था । रथ्या᳚॑इव । स्वा॒नी॒त् ।
कृ॒ष्ण॑अ᳚ध्वा । तपुः᳚ । र॒ण्वः । चि॒के॒त॒ । द्यौः॑इ᳚व । स्मय᳚मानः । नभः᳚॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्वनावनानिवृक्षसमूहान् ततृषाणोनतृषितइव त्वरमाणइत्यर्थः आभातिआभासयति ददह- तीत्यर्थः यद्वा वनावनेआभाति किञ्चवार्णउदकमिव पथाप्रवणेनमार्गेणगच्छति तद्वत् इतस्ततोगच्छ- ति रथ्येवरथस्यवोढाश्वइवस्वानीत् शब्दयति यद्वा रथशब्दात् सोर्ड्यादेशः यथारथोयुद्धमार्गेणगच- च्छन् स्वनतितद्वत् किञ्च कृष्णाध्वाकृष्णवर्त्मा तपुस्तापकः रण्वोरमणीयः एवंभूतः सन् चिकेतज्ञाय- ते प्रकाशतइत्यर्थः कइव नभोभिर्नक्षत्रैः स्मयमानः प्रकाशमानोद्यौरिवद्युलोकइव यद्वा नभोभिरन्त- रिक्षप्रदेशविशेषैः स्मयमानः शोभमानोद्यौरादित्यइवनीलवर्णांतरिक्षचार्यादित्योयथाज्ञायतेतद्वत् स्वसंचारेणकृष्णीभूतेमार्गेज्ञायते प्रकाशयतइत्यर्थः ॥ ६ ॥

2.4.7
स यो व्यस्था᳚द॒भि दक्ष᳚दु॒र्वीं प॒शुर्नैति᳚ स्व॒युरगो᳚पाः ।
अ॒ग्निः शो॒चिष्मा{4}᳚ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य᳚थिरस्वदय॒न्न भूम᳚ ॥
▶ पदपाठः (Word-by-word)
सः । यः । वि । अस्था᳚त् । अ॒भि । धक्ष᳚त् । उ॒र्वीम् । प॒शुः । न । ए॒ति॒ । स्व॒॑युः । अगो᳚पाः ।
अ॒ग्निः । शो॒चिष्मा᳚न् । अ॒त॒सानि᳚ । उ॒ष्णन् । कृ॒ष्ण॑व्य᳚थिः । अ॒स्व॒द॒य॒त् । न । भूम᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योग्निर्व्यस्थात् विविधंतिष्ठति व्याप्नोतिविश्वंतथायोग्निरुर्वींविस्तृतं पृथिवींसर्वांअभिधक्षत् आ- भिमुख्येनप्रवर्धमानोभवति उभेअपियच्छब्दयोगान्ननिहन्येते सोग्निः पशुर्नपशुरिव यथा जातःपशुः स्वच्छन्देनचरति तथास्वयुः स्वयमेवगच्छन् अगोपाः गोपरहितः नियामकवर्जितइत्यर्थः एतिगच्छ- ति किंकुर्वन् शोचिष्मान्प्रकृष्टदीप्तिः कृष्णव्यथिः कृष्णवर्णंप्राप्तादग्धाव्यथाकराः कण्टकादयोयेन ता- दृशःसन् भूमअत्यधिकंअस्वदयत् न आस्वादयतीववृक्षगतान् रसान् अतसानिसततानिनीरसानिवा- तरुगुल्मादीनिउष्णन् दहन्नेति ॥ ७ ॥

2.4.8 समानपद
नू ते॒ पूर्व॒स्याव᳚सो॒ अधी᳚तौ तृ॒तीये᳚ वि॒दथे॒ मन्म᳚ शंसि ।
अ॒स्मे अ᳚ग्ने सं॒यद्वी᳚रं बृ॒हन्तं᳚ क्षु॒मन्तं॒ वाजं᳚ स्वप॒त्यं र॒यिं दा᳚ः ॥
▶ पदपाठः (Word-by-word)
नु । ते॒ । पूर्व᳚स्य । अव᳚सः । अधि᳚॑इतौ । तृ॒तीये᳚ । वि॒दथे᳚ । मन्म᳚ । शं॒सि॒ ।
अ॒स्मे इति᳚ । अ॒ग्ने॒ । सं॒यत्॑वी᳚रम् । बृ॒हन्त᳚म् । क्षु॒॑मन्त᳚म् । वाज᳚म् । सु॒॑अ॒प॒त्यम् । र॒यिम् । दाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने तेतवसंबन्धिनः पूर्वस्यपूर्वंयागसमये कृतस्यावसोभिमततर्पणस्यअधीतौस्मरणे सति त- त्स्मृत्यानु अद्यापितृतीयेविदथेयागेतृतीयसवने यद्वा प्रातरनुवाकसंबन्धिनांआग्नेयोषस्याश्विनानांम- ध्येअन्यतमेतृतीयेक्रतौ मन्ममननीयंस्तोत्रंशंसि अशंसि शस्यतेस्माभिः हेअग्ने त्वंचास्मेअस्मभ्यंसंय- द्वीरंसंयतोवीरायस्मिन् तादृशं बृहन्तंमहान्तं क्षुमन्तंशब्दवन्तंकीर्तिमन्तंवाजंउक्तलक्षणमन्नं स्वप- त्यंरयिंचदाः देहि ॥ ८ ॥

2.4.9
त्वया॒ यथा᳚ गृत्सम॒दासो᳚ अग्ने॒ गुहा᳚ व॒न्वन्त॒ उप᳚रा{4} अ॒भि ष्युः ।
सु॒वीरा᳚सो अभिमाति॒षाह॒ः स्मत्सू॒रिभ्यो᳚ गृण॒ते तद्वयो᳚ धाः ॥
▶ पदपाठः (Word-by-word)
त्वया᳚ । यथा᳚ । गृ॒त्स॒॑म॒दासः᳚ । अ॒ग्ने॒ । गुहा᳚ । व॒न्वन्तः᳚ । उप᳚रान् । अ॒भि । स्युरिति॒ स्युः ।
सु॒॑वीरा᳚सः । अ॒भि॒मा॒ति॒॑सहः᳚ । स्मत् । सू॒रि॑भ्यः᳚ । गृ॒ण॒ते । तत् । वयः᳚ । धाः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने त्वयारक्षकेणवन्वन्तः त्वांसंभजंतः गृत्समदाऋषयः आत्मनिपारोक्ष्येणवचनं यथागुहागु- हायांवर्तमानान् उपरान् उपरमणसाधनान् उपरिउत्कृष्टेवर्तमानान्वाधनविशेषानभिस्युः अभिभवे- युःस्वाधीनान् कुर्युः यद्वा गूढानुपरान् उपरिअधिकत्वेनवर्तमानान् पापानभिस्युः अभिभवेयुः तथा- कुर्वित्यर्थः कीदृशाः सुवीरासः शोभनपुत्राद्युपेताः अभिमातिसहः वैरिणांपापादीनांसोढारः किञ्च सूरिभ्योमेधाविभ्योयजमानेभ्योगृणते व्यत्ययेनैकवचनं शब्दयद्भ्यः स्तोतृभ्यः यद्वा सूरिभ्योयजमा- नेभ्योगृणतेस्तोत्रेचस्मत् सुमत् अतिप्रभूतंतत्तादृशंप्रसिद्धंवयोन्नंधाः धेहि ॥ ९ ॥

होताजनिष्टेत्यष्टर्चंपञ्चमंसूक्तं सोमाहुतेरार्षमाग्नेयमानुष्टुभं होताष्टावानुष्टुभमित्यनुक्रान्तम् प्रात- रनुवाकाश्विनशस्त्रयोराग्नेयेक्रतावस्यविनियोगः सूत्रितञ्च—अग्नायोहोताजनिष्टेतिचतुर्विंशेहन्यपीद- मेवाज्यंसूत्रितम्—चतुर्विशेहोताजनिष्टेत्याऽज्यमिति आभिप्लविकेद्वितीयेहनीदमेवाज्यं द्वितीयस्य- च्तुर्विंशेनाज्यमित्यतिदिष्टत्वात् ।