श्रवणम्

2.4.1 समानपद
हु॒वे वः᳚ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति᳚थिं सुप्र॒यस᳚म् ।
मि॒त्र इ᳚व॒ यो दि᳚धि॒षाय्यो॒ भूद्दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ॥
▶ पदपाठः (Word-by-word)
हु॒वे । वः॒ । सु॒॑द्योत्मा᳚नम् । सु॒॑वृ॒क्तिम् । वि॒शाम् । अ॒ग्निम् । अति᳚थिम् । सु॒॑प्र॒यस᳚म् ।
मि॒त्रः॑इ᳚व । यः । दि॒धि॒षाय्यः᳚ । भूत् । दे॒वः । आ॑दे᳚वे । जने᳚ । जा॒त॑वे᳚दाः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेयजमानाःवोयुष्मदर्थं अग्निंहुवेआह्वयामि कीदृशंतं सुद्योत्मानं सुष्ठुद्योतमानंसुवृक्तिं सुवर्जि- तंपापैः शोभनस्तुतिंवाविशांयजमानानांअतिथिं अतिथिवत्सदापूज्यंसुप्रयसंशोभनहविर्लक्षणान्नं किञ्चजातवेदाः जातानांवेदितायोदेवोग्निर्मित्रइव सखेवआदित्यइववादिधिषाय्यः धारयिता भूत् भवति कुत्रेतिउच्यते आदेवेवपर्यन्तेजनेमनुष्यप्रभृतिदेवपर्यन्तेषु तेषांधारकोभवदित्यर्थः ॥ १ ॥