सु॒वीरा᳚सो अभिमाति॒षाह॒ः स्मत्सू॒रिभ्यो᳚ गृण॒ते तद्वयो᳚ धाः ॥
पदपाठः (Word-by-word)
सु॒॑वीरा᳚सः । अ॒भि॒मा॒ति॒॑सहः᳚ । स्मत् । सू॒रि॑भ्यः᳚ । गृ॒ण॒ते । तत् । वयः᳚ । धाः॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्ने त्वयारक्षकेणवन्वन्तः त्वांसंभजंतः गृत्समदाऋषयः आत्मनिपारोक्ष्येणवचनं यथागुहागु- हायांवर्तमानान् उपरान् उपरमणसाधनान् उपरिउत्कृष्टेवर्तमानान्वाधनविशेषानभिस्युः अभिभवे- युःस्वाधीनान् कुर्युः यद्वा गूढानुपरान् उपरिअधिकत्वेनवर्तमानान् पापानभिस्युः अभिभवेयुः तथा- कुर्वित्यर्थः कीदृशाः सुवीरासः शोभनपुत्राद्युपेताः अभिमातिसहः वैरिणांपापादीनांसोढारः किञ्च सूरिभ्योमेधाविभ्योयजमानेभ्योगृणते व्यत्ययेनैकवचनं शब्दयद्भ्यः स्तोतृभ्यः यद्वा सूरिभ्योयजमा- नेभ्योगृणतेस्तोत्रेचस्मत् सुमत् अतिप्रभूतंतत्तादृशंप्रसिद्धंवयोन्नंधाः धेहि ॥ ९ ॥
होताजनिष्टेत्यष्टर्चंपञ्चमंसूक्तं सोमाहुतेरार्षमाग्नेयमानुष्टुभं होताष्टावानुष्टुभमित्यनुक्रान्तम् प्रात- रनुवाकाश्विनशस्त्रयोराग्नेयेक्रतावस्यविनियोगः सूत्रितञ्च—अग्नायोहोताजनिष्टेतिचतुर्विंशेहन्यपीद- मेवाज्यंसूत्रितम्—चतुर्विशेहोताजनिष्टेत्याऽज्यमिति आभिप्लविकेद्वितीयेहनीदमेवाज्यं द्वितीयस्य- च्तुर्विंशेनाज्यमित्यतिदिष्टत्वात् ।