द्वितीयं मण्डलम् - सूक्तम् 40

6 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: सोमापूषणौ छन्दः: त्रिष्टुप्

सूक्तम् 2.40 - सम्पूर्णम्

1 / 6
ऋक्: 2.40.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
2.40.1
सोमा᳚पूषणा॒ जन᳚ना रयी॒णां जन᳚ना दि॒वो जन᳚ना पृथि॒व्याः ।
जा॒तौ विश्व᳚स्य॒ भुव᳚नस्य गो॒पौ दे॒वा अ᳚कृण्वन्न॒मृत᳚स्य॒ नाभि᳚म् ॥
▶ पदपाठः (Word-by-word)
सोमा᳚पूषणा । जन᳚ना । र॒यी॒णाम् । जन᳚ना । दि॒वः । जन᳚ना । पृ॒थि॒व्याः ।
जा॒तौ । विश्व᳚स्य । भुव᳚नस्य । गो॒पौ । दे॒वाः । अ॒कृ॒ण्व॒न् । अ॒मृत᳚स्य । नाभि᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोमापूषणा हे सोमापूषणौ युवांरयीणांधनानां जनना जनयितारौ दिवः द्युलोकस्यापि जनना जनयितारौ पृथिव्याः प्रथितायाश्च जनना जनयितारौभवतः किंच जातौजातमात्रावेव युवांविश्वस्यभुवनस्य कृत्स्नस्यजगतः गोपौ गोप्तारौ देवाअमृतस्यामरणस्यनाभिं हेतुमकृण्वन् अकार्षुः ॥ १ ॥

2.40.2 समानपद
इ॒मौ दे॒वौ जाय᳚मानौ जुषन्ते॒मौ तमां᳚सि गूहता॒मजु᳚ष्टा ।
आ॒भ्यामिन्द्र᳚ः प॒क्वमा॒मास्व॒न्तः सो᳚मापू॒षभ्यां᳚ जनदु॒स्रिया᳚सु ॥
▶ पदपाठः (Word-by-word)
इ॒मौ । दे॒वौ । जाय᳚मानौ । जु॒ष॒न्त॒ । इ॒मौ । तमां᳚सि । गू॒ह॒ता॒म् । अजु᳚ष्टा ।
आ॒भ्याम् । इन्द्रः᳚ । प॒क्वम् । आ॒मासु᳚ । अ॒न्तरिति᳚ । सो॒मापू॒ष॑भ्या᳚म् । ज॒न॒त् । उ॒स्रिया᳚सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

इमौ सोमापूषणौ देवौ द्योतमानौ जायमानौ उत्पन्नमात्रावेव जुषन्त सर्वेदेवाः अजुषन्त सेवितवन्तइतियावत् किंच इमौ सोमापूषणौ अजुष्टा आसेव्यानितमांसि गूहतांनाशयतः किंच आभ्यामेताभ्यां सोमापूषभ्यांसहइन्द्रः आमासुतरुणीषुउस्रियासुगोष्वन्तर्मध्येऊधःप्रदेशेपक्वं परि क्वंपयोजनत् जनयति ॥ २ ॥

2.40.3
सोमा᳚पूषणा॒ रज᳚सो वि॒मानं᳚ स॒प्तच᳚क्रं॒ रथ॒मवि᳚श्वमिन्वम् ।
वि॒षू॒वृतं॒ मन᳚सा यु॒ज्यमा᳚नं॒ तं जि᳚न्वथो वृषणा॒ पञ्च᳚रश्मिम् ॥
▶ पदपाठः (Word-by-word)
सोमा᳚पूषणा । रज᳚सः । वि॒॑मान᳚म् । स॒प्त॑च᳚क्रम् । रथ᳚म् । अवि᳚श्व॑मिन्वम् ।
वि॒षु॒॑वृत᳚म् । मन᳚सा । यु॒ज्यमा᳚नम् । तम् । जि॒न्व॒थः॒ । वृ॒ष॒णा॒ । पञ्च᳚॑रश्मिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वृषणा वृषणौ कामानांवर्षितारौ सोमापूषणा हेसोमापूषणौ रजसोलोकस्य लोकारजांस्यु च्यन्तइतियास्कः । विमानंपरिच्छेदकंसर्वमानमित्यर्थः सप्तचक्रं सप्तर्तुचक्रं त्रयोदशोमासः सप्त- मऋतुः अस्तित्रयोदशोमासइतिश्रुतेः । अविश्वमिन्वं विश्वस्यापरिच्छेद्यं विषुवृतं विष्वक् सर्वत्र परिवर्तमानं पञ्चरश्मिंपञ्चर्तुरश्मिं हेमन्तशिशिरयोः समासेनर्तवःपञ्च तथाचश्रूयते—द्वादशवैमा- साःपञ्चर्तवोहेमन्तशिशिरयोःसमासेनेति । मनसायुज्यमानं मनोमात्रेणयुज्यमानंतंप्रसिद्धंरथं जि- न्वथः अस्मान्प्रतिप्रेरयथः ॥ ३ ॥

2.40.4
दि॒व्य१॒᳚न्यः सद᳚नं च॒क्र उ॒च्चा पृ᳚थि॒व्याम॒न्यो अध्य॒न्तरि᳚क्षे ।
ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य᳚तां॒ नाभि᳚म॒स्मे ॥
▶ पदपाठः (Word-by-word)
दि॒वि । अ॒न्यः । सद᳚नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि᳚ । अ॒न्तरि᳚क्षे ।
तौ । अ॒स्मभ्य᳚म् । पु॒रु॒॑वार᳚म् । पु॒रु॒॑क्षुम् । रा॒यः । पोष᳚म् । वि । स्य॒ता॒म् । नाभि᳚म् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यः तयोरेकः पूषाउच्चाउच्चैः उच्छ्रितेदिविद्युलोकेसदनंस्थानंचक्रेचकार अन्यः अपरः सोमः पृथिव्यामोषषिरूपेणअध्यन्तरिक्षेचचन्द्ररूपेणसदनंचक्रे तौ सोमापूषणौयुवांपुरुवारं बहुभिर्वरणी यं पुरुक्षुं बहुकीर्तिंरायस्पोषंधनस्यपुष्टिं पश्वात्मकंधनमित्यर्थः तथाचब्राह्मणं—पशवोवैरायस्पोष इति । अस्मेअस्माकं नाभिंविश्वस्यभोगस्यहेतुभूतमस्मभ्यंविष्यतां विमुञ्चतांप्रयच्छतामित्यर्थः ॥ ४ ॥

2.40.5 समानपद
विश्वा᳚न्य॒न्यो भुव᳚ना ज॒जान॒ विश्व᳚म॒न्यो अ᳚भि॒चक्षा᳚ण एति ।
सोमा᳚पूषणा॒वव᳚तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वा॒ः पृत᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । अ॒न्यः । भुव᳚ना । ज॒जान᳚ । विश्व᳚म् । अ॒न्यः । अ॒भि॒॑चक्षा᳚णः । ए॒ति॒ ।
सोमा᳚पूषणौ । अव᳚तम् । धिय᳚म् । मे॒ । यु॒वाभ्या᳚म् । विश्वाः᳚ । पृत᳚नाः । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोमापूषणौ अन्यः युवयोरेकः सोमः विश्वानिभुवनाभुवनानिभूतानिजजान अजनयत् तथाच मन्त्रः—सोमः पवतेजनितामतीनामिति । अन्यःअपरः पूषादित्योविश्वमभिचक्षाणः अभि पश्यन्नेतिगच्छति तौयुवांसोमापूषणौमेधियंकर्म धीःशचीतिकर्मनामसुपाठात् अवतंरक्षतं किंच वयं युवाभ्यांहेतुभ्यां विश्वाः पृतनाः सर्वाः शत्रुसेनाः जयेमअभिभवेम ॥ ५ ॥

2.40.6
धियं᳚ पू॒षा जि᳚न्वतु विश्वमि॒न्वो र॒यिं सोमो᳚ रयि॒पति᳚र्दधातु ।
अव᳚तु दे॒व्यदि᳚तिरन॒र्वा बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
धिय᳚म् । पू॒षा । जि॒न्व॒तु॒ । वि॒श्व॒म्॑इ॒न्वः । र॒यिम् । सोमः᳚ । र॒यि॒॑पतिः᳚ । द॒धा॒तु॒ ।
अव᳚तु । दे॒वी । अदि᳚तिः । अ॒न॒र्वा । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पूषादित्योविश्वमिन्वः विश्वस्यप्रीणयिताधियमस्माकंकर्मजिन्वतुतर्पयतु रयिपतिर्धनपतिः सोमः रयिंधनंदधातु अस्मभ्यंददातु किंच देवीद्योतमाना अनर्वा अप्रत्यृताकेनापिप्रातिकूल्यम- प्रापिता अदितिःअवतु अस्मान् रक्षतु अन्यत्सिद्धम् ॥ ६ ॥

वायोयेतइत्येकविंशत्यृचंनवमंसूक्तंगार्त्समदंगायत्रं अंबितमइतिषष्ठस्य तृचस्य आदितोद्वेअनु ष्टुभौ तृतीयाबृहती वायोयेतेइत्यादिकेद्वेऋचौवायव्यौ शुक्रस्याद्येत्येषैन्द्रवायवी अयं वामित्रावरु णेतिपञ्चानांमित्रावरुणावश्विनाविन्द्रोविश्वेदेवाः सरस्वतीतिक्रमेणदेवताः प्रेतांयज्ञस्येत्यन्त्यस्तृचो ब्राह्मणसूत्रयोर्हविर्धानप्रवर्तनेद्यावापृथिव्यनिविद्धानत्वेनचविनियुक्तत्वात् द्यावापृथिव्योहविर्धान देवत्योवा अग्निंचहव्यवाहनमितिपादोग्निदेवत्योवा तथाचानुक्रान्तं—वायोसैकागायत्रमुक्तादेवताः प्रउगेणाद्येतुतृचेन्त्यैन्द्रवायवीद्यावापृथिव्योन्त्यस्तृचोहाविर्धानोवातृतीयःपादोवाग्नेयोंबितमेनुष्टुभौ बहुतीचेति पृष्ठ्याभिप्लवषडहयोर्द्वितीयेहनि प्रउगेन्त्यतृचवर्जमेतत्सूक्तं वायव्यतृचस्यवायोयेते सहस्रिणइत्याद्येद्वेऋचौ ऎन्द्रवायवतृचस्यश्रुक्रस्याद्येत्येषातृतीया तथाचसूत्रितं—वायोयेतेसहस्रिण इतिद्वेतीव्राः सोमासआगहीत्येकोभादेवादिविस्पृशेतिद्वेशुक्रस्याद्यगवाशिरइत्येकाअयंवांमित्रावरुणे तिपञ्चतृचाइति चातुर्विंशिकेहनि प्रातः सवने मैत्रावरुणशस्त्रे अयंवांमित्रावरुणेतिषळहस्तोत्रिय संज्ञकः चतुर्विंशेहोताजनिष्टेतिखण्डेसूत्रितं—अयंवांमित्रावरुणापुरूरुणाचिद्भ्यस्तीति आभिप्लविके ष्वहस्सु प्रातःसवने मैत्रावरुणशस्त्रे अयमेवतृचः पञ्चदशादिस्तोमनिमित्तमावापनीयः अयंवांमि त्रावरुणाआनोमित्रावरुणेतितृचाइतिसूत्रितत्वात् आद्यामैत्रावरुणग्रहस्यानुवाक्या सूत्रितंच—मैत्रा वरुणस्य अयंवांमित्रावरुणेतिप्रातरनुवाकाश्विनशस्त्रयोर्ग्फ़ायत्रेछन्दसिगोमदूष्वितितृचोविनियुक्तः गोमदूषु नासत्येतितृचाइतिसूत्रितत्वात् अतिरात्रे प्रथमेपर्याये ब्राह्मणाच्छंसिशस्त्रे इन्द्रोअङ्गमह द्भयमितितृचः अतिरात्रेपर्यायाणामितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभिन्युषुवाचमिति आग्र यणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं—इन्द्रोअङ्गमहद्भयमभि न्यूषुवाचमिति आग्रयणेवैश्वदेवस्यहविषोविश्वेदेवासइत्यनुवाक्या आग्रयणमितिखण्डेसूत्रितं— विश्वेदेवासआगतयेकेचज्ममहिनोअहिमायाइति दशरात्रेप्रथमेहनिप्रउगशस्त्रे अंबितमेनदीतमइति सारस्वतः सप्तमस्तृचः चतुर्थेहनीतिखण्डेसूत्रितं—अंबितमेनदीतमइत्यानुष्टुभंप्रउगमिति सूत्रितंच- व्यूढेदशरात्रे प्रथमेछन्दोमेवैश्वदेवशस्त्रे प्रेतांयज्ञस्यशंभुवेतिद्यावापृथिव्यनिविद्धानीयस्तृचः अथ छन्दोमाइतिखण्डेसूत्रितं—प्रेतांयज्ञस्यशंभुवायंदेवायजन्मनइतितृचाइति हविर्धानप्रवर्तनेप्ययंतृचो विनियुक्तः सूत्रितंच—प्रेतांयज्ञस्यशंभुवायुवांयमेइवयतमानेयदैतमिति ।