दि॒व्य१॒᳚न्यः सद᳚नं च॒क्र उ॒च्चा पृ᳚थि॒व्याम॒न्यो अध्य॒न्तरि᳚क्षे ।
ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य᳚तां॒ नाभि᳚म॒स्मे ॥
ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य᳚तां॒ नाभि᳚म॒स्मे ॥
पदपाठः (Word-by-word)
दि॒वि । अ॒न्यः । सद᳚नम् । च॒क्रे । उ॒च्चा । पृ॒थि॒व्याम् । अ॒न्यः । अधि᳚ । अ॒न्तरि᳚क्षे ।
तौ । अ॒स्मभ्य᳚म् । पु॒रु॒॑वार᳚म् । पु॒रु॒॑क्षुम् । रा॒यः । पोष᳚म् । वि । स्य॒ता॒म् । नाभि᳚म् । अ॒स्मे इति᳚ ॥
तौ । अ॒स्मभ्य᳚म् । पु॒रु॒॑वार᳚म् । पु॒रु॒॑क्षुम् । रा॒यः । पोष᳚म् । वि । स्य॒ता॒म् । नाभि᳚म् । अ॒स्मे इति᳚ ॥
सायणभाष्यम् (Sayana Commentary)
अन्यः तयोरेकः पूषाउच्चाउच्चैः उच्छ्रितेदिविद्युलोकेसदनंस्थानंचक्रेचकार अन्यः अपरः सोमः पृथिव्यामोषषिरूपेणअध्यन्तरिक्षेचचन्द्ररूपेणसदनंचक्रे तौ सोमापूषणौयुवांपुरुवारं बहुभिर्वरणी यं पुरुक्षुं बहुकीर्तिंरायस्पोषंधनस्यपुष्टिं पश्वात्मकंधनमित्यर्थः तथाचब्राह्मणं—पशवोवैरायस्पोष इति । अस्मेअस्माकं नाभिंविश्वस्यभोगस्यहेतुभूतमस्मभ्यंविष्यतां विमुञ्चतांप्रयच्छतामित्यर्थः ॥ ४ ॥