श्रवणम्

2.40.5 समानपद
विश्वा᳚न्य॒न्यो भुव᳚ना ज॒जान॒ विश्व᳚म॒न्यो अ᳚भि॒चक्षा᳚ण एति ।
सोमा᳚पूषणा॒वव᳚तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वा॒ः पृत᳚ना जयेम ॥
▶ पदपाठः (Word-by-word)
विश्वा᳚नि । अ॒न्यः । भुव᳚ना । ज॒जान᳚ । विश्व᳚म् । अ॒न्यः । अ॒भि॒॑चक्षा᳚णः । ए॒ति॒ ।
सोमा᳚पूषणौ । अव᳚तम् । धिय᳚म् । मे॒ । यु॒वाभ्या᳚म् । विश्वाः᳚ । पृत᳚नाः । ज॒ये॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोमापूषणौ अन्यः युवयोरेकः सोमः विश्वानिभुवनाभुवनानिभूतानिजजान अजनयत् तथाच मन्त्रः—सोमः पवतेजनितामतीनामिति । अन्यःअपरः पूषादित्योविश्वमभिचक्षाणः अभि पश्यन्नेतिगच्छति तौयुवांसोमापूषणौमेधियंकर्म धीःशचीतिकर्मनामसुपाठात् अवतंरक्षतं किंच वयं युवाभ्यांहेतुभ्यां विश्वाः पृतनाः सर्वाः शत्रुसेनाः जयेमअभिभवेम ॥ ५ ॥