द्वितीयं मण्डलम् - सूक्तम् 35

15 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: अपांनपात् छन्दः: त्रिष्टुप्

सूक्तम् 2.35 - सम्पूर्णम्

1 / 15
ऋक्: 2.35.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (15)
2.35.1
उपे᳚मसृक्षि वाज॒युर्व᳚च॒स्यां चनो᳚ दधीत ना॒द्यो गिरो᳚ मे ।
अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित्स सु॒पेश᳚सस्करति॒ जोषि᳚ष॒द्धि ॥
▶ पदपाठः (Word-by-word)
उप᳚ । ई॒म् । अ॒सृ॒क्षि॒ । वा॒ज॒॑युः । व॒च॒स्याम् । चनः᳚ । द॒धी॒त॒ । ना॒द्यः । गिरः᳚ । मे॒ ।
अ॒पाम् । नपा᳚त् । आ॒शु॒॑हेमा᳚ । कु॒वित् । सः । सु॒॑पेश᳚सः । क॒र॒ति॒ । जोषि᳚षत् । हि ॥
▶ सायणभाष्यम् (Sayana Commentary)

वाजयुः वाजमन्नमात्मनइच्छ्न्नहंईमेनांवचस्यां वचसःस्तोत्रस्येच्छांउपासृक्षि उपासृजामि उ- त्पादयामि अपान्नपातंस्तोतुंप्रवृत्तोस्मीत्यर्थः सृजेश्छान्दसोलुङ् लिङ्सिचावात्मनेपदेष्विति सिचः कित्त्वाद्गुणाभावः सच नाद्योनदीनांशब्दकारिणीनांमेघस्थानामपांसंबन्धीआशुहेमाआशुशीघ्रंग न्ता हिगतावित्यस्मादन्येभ्योपिदृश्यन्तइतिमनिन् एवंभूतोऽपांनपात् अपांपौत्रस्थानीयः अद्भ्यओष धिवनस्पतयोजायन्ते ओषधिवनस्पतिभ्यएषोग्निर्जायतइतितत्पौत्रत्वं एतत्संज्ञकोदेवः गिरः गृणा- तीतिगीःस्तोता तस्यमे ममकुवित् बहुनामैतत् बहुलं चनः अन्नंदधीत दधातुविदधातु प्रयच्छत्वित्य- र्थः अपिचास्मान् सुपेशसः शोभनरूपान् शोभनालङ्कारान्वाकरोति करोतुकरोतेर्व्यत्ययेनशप् कः करत्करतिकृधिकृतेष्वनदितेरितिविसर्जनीयस्यसत्वम् हियस्मादयंदेवः जोषिषत् स्तोत्राणिसेवते तस्मादस्मानेवमनुगृह्णात्वित्यर्थः जुषीप्रीतिसेवनयोः लेट्यडागमः विकरणःसिप् इडागमश्च हिचे- तिनिघातप्रतिषेधः ॥ १ ॥

2.35.2
इ॒मं स्व᳚स्मै हृ॒द आ सुत᳚ष्टं॒ मन्त्रं᳚ वोचेम कु॒विद᳚स्य॒ वेद᳚त् ।
अ॒पां नपा᳚दसु॒र्य᳚स्य म॒ह्ना विश्वा᳚न्य॒र्यो भुव᳚ना जजान ॥
▶ पदपाठः (Word-by-word)
इ॒मम् । सु । अ॒स्मै॒ । हृ॒दः । आ । सु॑त᳚ष्टम् । मन्त्र᳚म् । वो॒चे॒म॒ । कु॒वित् । अ॒स्य॒ । वेद᳚त् ।
अ॒पाम् । नपा᳚त् । अ॒सु॒र्य᳚स्य । म॒ह्ना । विश्वा᳚नि । अ॒र्यः । भुव᳚ना । ज॒जा॒न॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मैअपान्नपात्संज्ञकायदेवायहृदोहृदयात् सुतष्टं सुष्ठुनिर्मितंइमंमन्त्रं सुष्ठुआभिमुख्येनवोचेम ब्रवाम अस्यअस्माभिरुक्तमिमंमन्त्रं कुवित् वेदत् बहुलंजानातु वेत्तेर्लेट्यडागमः निपातैर्यद्यदि- हन्तेतिनिघातप्रतिषेधः किंस्तोत्रमितिचेदुच्यते—अर्यः स्वामीअपांनपात् संज्ञकोवैद्युतोग्निः असुर्य स्यअसुरः शत्रून्क्षेप्तातस्यस्वभूतस्यबलस्यमह्नामहिम्नामहत्त्वेनविश्वानि सर्वाणि भुवनाभुवनानि वृष्ट्युदकानिवृष्ट्युत्पादनेनभूतजातानिवाजजान जनयामास ॥ २ ॥ अपोनप्त्नीयेवसतीवरीसमीपे एकधनासुप्राप्तासुसमन्यायन्तीत्येषानुवक्तव्या सूत्रितञ्च—सम न्यायंत्युपयंत्यन्याइतितीर्थ्यदेशइति सारस्वतेचशस्त्रेयद्यप्सुशम्यानिपतेत् तदानीमपोनप्त्नीयश्चरुः कार्यः तत्रैषैवयाज्या सूत्रितञ्च—समन्यायन्त्युपयन्त्यन्याइत्यातः समानंसर्वेषामिति ।

2.35.3 समानपद
सम॒न्या यन्त्युप᳚ यन्त्य॒न्याः स᳚मा॒नमू॒र्वं न॒द्य᳚ः पृणन्ति ।
तमू॒ शुचिं॒ शुच᳚यो दीदि॒वांस᳚म॒पां नपा᳚तं॒ परि᳚ तस्थु॒रापः᳚ ॥
▶ पदपाठः (Word-by-word)
सम् । अ॒न्याः । यन्ति᳚ । उप᳚ । य॒न्ति॒ । अ॒न्याः । स॒मा॒नम् । ऊ॒र्वम् । न॒द्यः᳚ । पृ॒ण॒न्ति॒ ।
तम् । ऊं॒ इति᳚ । शुचि᳚म् । शुच᳚यः । दी॒दि॒॑वांस᳚म् । अ॒पाम् । नपा᳚तम् । परि᳚ । त॒स्थुः॒ । आपः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अन्यावर्ष्याआपः संयंतिभूम्यासंगच्छन्ते अन्याश्चपूर्वंतत्रावस्थिताः उपयन्ति उपगच्छंति ताः सर्वा आपः समानं सहनद्योनदी भूताऊर्वं समुद्रमध्येवर्तमानंवडवानलंपृणन्ति प्रीणयन्ति पृणप्रीण ने तौदादिकः तमु तमेवापांनपातंशुचिंनिर्मलंदिवांसंदीप्यमानं दीदेतिश्छान्दसोदीप्तिकर्मा लिटः क्वसुः वस्वेकाजाद्घसामितिनियमादिडभावः छंदसिवेतिवक्तव्यमितिवचनात् द्विर्वचनाभावः एवं भूतं शुचयः शुद्धाआपः परितस्थुः परिवृत्यतिष्ठन्ति एषहिवैद्युताग्निरूपेणमेघेवर्तमानोस्मानजीजन दितिबुद्ध्यावडवानलरूपेणवर्तमानंतं पर्युपासतइत्यर्थः यद्वा अन्याएकधनाख्याआपः संयन्ति चात्वालोत्करयोर्मध्ये वसतीवरीभिः संगच्छन्ते अन्याःवसतीवर्याख्याआपश्चउपयंति उपगच्छन्ति ऎकमत्यंप्राप्ताभवन्ति एताश्चमिलित्वायज्ञं साधयंत्यस्तत्साध्यवृष्टिद्वारानद्योभूत्वाऊर्वंवृणंतीत्यादि समानम् एवंहिआपोवाअस्पर्धन्तवयंपूर्वयज्ञंवक्ष्यामइत्यादिकंब्राह्मणविनियोगश्चानुगृह्यते ॥ ३ ॥

2.35.4
तमस्मे᳚रा युव॒तयो॒ युवा᳚नं मर्मृ॒ज्यमा᳚ना॒ः परि᳚ य॒न्त्यापः᳚ ।
स शु॒क्रेभि॒ः शिक्व᳚भी रे॒वद॒स्मे दी॒दाया᳚नि॒ध्मो घृ॒तनि᳚र्णिग॒प्सु ॥
▶ पदपाठः (Word-by-word)
तम् । अस्मे᳚राः । यु॒व॒तयः᳚ । युवा᳚नम् । म॒र्मृ॒ज्यमा᳚नाः । परि᳚ । य॒न्ति॒ । आपः᳚ ।
सः । शु॒क्रेभिः᳚ । शिक्व᳚॑भिः । रे॒वत् । अ॒स्मे इति᳚ । दी॒दाय᳚ । अ॒नि॒ध्मः । घृ॒त॑नि᳚र्निक् । अ॒प्॑सु ॥
▶ सायणभाष्यम् (Sayana Commentary)

तमपांनपातमग्निं अस्मेराअस्मयमानादर्परहितायुवतयः युवानंयुवराजमिवमर्मृज्यमानाः अ- त्यर्थमलङ्कुर्वाणाआपः मृजूशौचालङ्कारयोः परियन्ति परितोगच्छन्ति प्राप्नुवन्ति घ्रुतनिर्निक् क्षर णशीलोदकनिर्नेजनः यद्वा निर्निगितिरूपनाम दीप्तरूपः सोपान्नपादग्निः अप्सुमेघान्तर्गतासुममुद्र गतासुवामध्येअनिध्मः इन्धनरहितएवसन् अस्मेअस्माकं रेवद्धनयुक्तमन्नंयथाभवतितथाशुक्रेभिः शुक्रैर्निर्मलैः शिक्वभिस्तेजोभिः दीदायदीप्यते ॥ ४ ॥

2.35.5
अ॒स्मै ति॒स्रो अ᳚व्य॒थ्याय॒ नारी᳚र्दे॒वाय᳚ दे॒वीर्दि᳚धिष॒न्त्यन्न᳚म् ।
कृता᳚ इ॒वोप॒ हि प्र᳚स॒र्स्रे अ॒प्सु स पी॒यूषं᳚ धयति पूर्व॒सूना᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । ति॒स्रः । अ॒व्य॒थ्याय᳚ । नारीः᳚ । दे॒वाय᳚ । दे॒वीः । दि॒धि॒ष॒न्ति॒ । अन्न᳚म् ।
कृताः᳚॑इव । उप᳚ । हि । प्र॒॑स॒र्स्रे । अ॒प्॑सु । सः । पी॒यूष᳚म् । ध॒य॒ति॒ । पू॒र्व॒॑सूना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नारीर्नेत्र्यः तिस्रोदेवीर्देव्यः इळासरस्वतीभारत्याख्याः अव्यथ्यायअव्यथनायास्मैदेवायापान्न पाते अन्नंसोमाख्यंदिधिषन्ति धारयन्ति धिषशब्दे जौहोत्यादिकः व्यत्ययेनान्तादेशः धातूनामने कार्थत्वादत्रधारणार्थः अप्सूदकेषुक्रुताइवनिर्मिताइव उपप्रसर्स्रेप्रसरन्ति सृगतौ लिटि इरयोरेआ देशः छान्दसोहलादिशेषाभावः हियस्मादेवंतस्मात्पूर्वसूनांपूर्वंब्रह्मणः सकाशात् उत्पन्नानामपां पीयूषंसारभूतंसोमाख्यममृतंसोपान्नपादग्निर्धयति पिबति ॥ ५ ॥

2.35.6
अश्व॒स्यात्र॒ जनि᳚मा॒स्य च॒ स्व᳚र्द्रु॒हो रि॒षः स॒म्पृचः᳚ पाहि सू॒रीन् ।
आ॒मासु᳚ पू॒र्षु प॒रो अ᳚प्रमृ॒ष्यं नारा᳚तयो॒ वि न᳚श॒न्नानृ᳚तानि ॥
▶ पदपाठः (Word-by-word)
अश्व᳚स्य । अत्र᳚ । जनि᳚म । अ॒स्य । च॒ । स्वः᳚ । द्रु॒हः । रि॒षः । स॒म्॑पृचः᳚ । पा॒हि॒ । सू॒रीन् ।
आ॒मासु᳚ । पू॒र्षु । प॒रः । अ॒प्र॒॑मृ॒ष्यम् । न । अरा᳚तयः । वि । न॒श॒न् । न । अनृ᳚तानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्नपान्नपात्संज्ञकेदेवेअश्वस्यजनिमजन्मभवति अपांनप्त्नधिष्ठितात् समुद्रादुच्चैः श्रवसो जातत्वात् किंबहुना अस्यचस्वः सुष्ठुअरणीयस्यसर्वस्यजगतोजन्मास्मिन्नेवभवति अयं हिमेघ मध्येवर्तमानोवृष्टिद्वारेणसर्वंजगज्जनयति तादृशोऽपान्नपात् त्वंद्रुहः द्रोग्धुरपहर्तुः रिषोहिंसकस्य चसंपृचः संपर्कात् सूरीन् स्तोतॄनस्मान्पाहि रक्ष आमासुअपरिपक्वासुपूर्षुपूरयितव्यास्वप्सु परः परस्ताद्वर्तमानंअप्रमृष्यं अप्रधृष्यमाणं देवंअरातयः अदातारः पुरुषाः नविनशन् नप्राप्नुवन्ति नशतिर्व्याप्तिकर्मा लेट्यडागमः अनृतानिमायाविनोरक्षांसिचनप्राप्नुवन्ति ॥ ६ ॥

2.35.7
स्व आ दमे᳚ सु॒दुघा॒ यस्य᳚ धे॒नुः स्व॒धां पी᳚पाय सु॒भ्वन्न᳚मत्ति ।
सो अ॒पां नपा᳚दू॒र्जय᳚न्न॒प्स्व१॒᳚न्तर्व᳚सु॒देया᳚य विध॒ते वि भा᳚ति ॥
▶ पदपाठः (Word-by-word)
स्वे । आ । दमे᳚ । सु॒॑दुघा᳚ । यस्य᳚ । धे॒नुः । स्व॒धाम् । पी॒पा॒य॒ । सु॒॑भु । अन्न᳚म् । अ॒त्ति॒ ।
सः । अ॒पाम् । नपा᳚त् । ऊ॒र्जय᳚न् । अ॒प्॑सु । अ॒न्तः । व॒सु॒॑देया᳚य । वि॒ध॒ते । वि । भा॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योपांनपात्स्वेदमेस्वकीयेगृहेन्तरिक्षलक्षणेआसीदति यस्यचधेनुर्माध्यमिकावाक् सुदुघासुखेन दोग्धव्याभवति सदेवः स्वधांवृष्ट्युदकंपीपायवर्धयति प्यायीवृद्धौ लिड्यङोश्चेतिपीभावः सुभु सुष्ठुभूतं वृष्टेःसकाशादुत्पन्नंहविर्लक्षणमन्नंचअत्तिभक्षयति सोपान्नपात्संज्ञकोदेवः ऊर्जयन् बलंकुर्वन् अप्स्वन्तः मेघस्थास्वप्सुमध्येविधते परिचरतेयजमानायवसुदेयायधनदानार्थं विभाति विशेषेण दीप्यते ॥ ७ ॥

2.35.8
यो अ॒प्स्वा शुचि᳚ना॒ दैव्ये᳚न ऋ॒तावाज᳚स्र उर्वि॒या वि॒भाति᳚ ।
व॒या इद॒न्या भुव᳚नान्यस्य॒ प्र जा᳚यन्ते वी॒रुध᳚श्च प्र॒जाभि᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । अ॒प्॑सु । आ । शुचि᳚ना । दैव्ये᳚न । ऋ॒त॑वा᳚ । अज᳚स्रः । उ॒र्वि॒या । वि॒॑भाति᳚ ।
व॒याः । इत् । अ॒न्या । भुव᳚नानि । अ॒स्य॒ । प्र । जा॒य॒न्ते॒ । वी॒रुधः᳚ । च॒ । प्र॒॑जाभिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

योपांनपात् ऋतावा ऋतमित्युदकनाम तद्वान् सत्यवान्वा अजस्रोनित्यः एकरूपेणसदावर्त मानः उर्वियाउरुर्विस्तीर्णः अप्सुमेघस्थासुमध्येशुचिनाशोचकेनदैव्येनदेवसंबन्धिनातेजसाआसम न्ताद्विभाति विशेषेणप्रकाशते अस्यापांनपातः अन्याअन्यानिभुवनानि सर्वाणिभूतजातानि च वयाइत् शाखाएववीरुधओषधयः प्रजाभिःस्वकीयाभिः पुष्पफलादिभिः सहअस्मादेव प्रजायन्ते ॥ ८ ॥ पूर्वोक्तसारस्वतसत्रस्यापोनप्त्नीयेचरौअपांनपादाहीत्येषानुवाक्या सूत्रितञ्च—अपान्नप्त्नेचरुम पान्नपादाह्यस्थादुपस्थमिति ।

2.35.9
अ॒पां नपा॒दा ह्यस्था᳚दु॒पस्थं᳚ जि॒ह्माना᳚मू॒र्ध्वो वि॒द्युतं॒ वसा᳚नः ।
तस्य॒ ज्येष्ठं᳚ महि॒मानं॒ वह᳚न्ती॒र्हिर᳚ण्यवर्णा॒ः परि᳚ यन्ति य॒ह्वीः ॥
▶ पदपाठः (Word-by-word)
अ॒पाम् । नपा᳚त् । आ । हि । अस्था᳚त् । उ॒प॑स्थ᳚म् । जि॒ह्माना᳚म् । ऊ॒र्ध्वः । वि॒॑द्युत᳚म् । वसा᳚नः ।
तस्य᳚ । ज्येष्ठ᳚म् । म॒हि॒मानम् । वह᳚न्तीः । हिर᳚ण्य॑वर्णाः । परि᳚ । य॒न्ति॒ । य॒ह्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अपान्नपात्संज्ञकोग्निः उपस्थंअपामुपस्थानं अन्तरिक्षंआह्यस्थात् आस्थितवानारूढवान् खलु किंकुर्वन् जिह्नानांकुतिलगतीनामपांमध्येऊर्ध्वः स्वयमूर्ध्वंज्वलन् विद्युतंविद्योतमानंमेघंवसानः आच्छादयन् अन्तरिक्षमास्थायवर्षणंकृतवान् तस्यवर्षितुरपांनपातः ज्येष्ठंप्रशस्यतमंमहिमानंमाहा त्म्यंवहन्तीः वहन्त्यः सर्वत्रप्रापयंत्यः यह्वीर्यह्व्यः महत्यः हिरण्यवर्णाः नदीनामैतत् हिरण्य वन्निर्मलरूपानद्यः परियन्ति परितोगच्छन्ति अपांनप्त्नामहतीवृष्टिरस्माकंप्रवहणायोत्पादिताइति कृतज्ञतयातदीयंमाहात्म्यंसर्वत्रप्रकटयन्त्यइवनद्यः प्रवहन्तीत्यर्थः ॥ ९ ॥

2.35.10
हिर᳚ण्यरूप॒ः स हिर᳚ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर᳚ण्यवर्णः ।
हि॒र॒ण्यया॒त्परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द᳚द॒त्यन्न᳚मस्मै ॥
▶ पदपाठः (Word-by-word)
हिर᳚ण्य॑रूपः । सः । हिर᳚ण्य॑सन्दृक् । अ॒पाम् । नपा᳚त् । सः । इत् । ऊं॒ इति᳚ । हिर᳚ण्य॑वर्णः ।
हि॒र॒ण्यया॒त् । परि᳚ । योनेः᳚ । नि॒॑सद्य᳚ । हि॒र॒ण्य॒॑दाः । द॒द॒ति॒ । अन्न᳚म् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सोपांनपात् हिरण्यरूपः रूप्यइतिरूपंशरीरं सुवर्णमयशरीरः हितरमणीयशरीरोवा तथाहिर ण्यसंदृक् सम्यक् पश्यन्तीतिसन्दृशिइन्द्रियाणिसुवर्णमयेन्द्रियः हितरणीयेन्द्रियोवा सेदुसएवापान्न पात् हिरण्यवर्णः हिरण्यसदृशकान्तियुक्तः एवंभूतःसन् हिरण्ययात् सुवर्णमयाद्योनेःस्थानात्पर्यु परि निषद्योपविश्य राजतइतिशेषः अस्मैईदृग्विधायापांनपातेहिरण्यदाः दक्षिणारूपस्यसुवर्ण स्यदातारोयजमानाः अन्नंहविर्लक्षणंददति प्रयच्छन्ति ॥ १० ॥

2.35.11
तद॒स्यानी᳚कमु॒त चारु॒ नामा᳚पी॒च्यं᳚ वर्धते॒ नप्तु᳚र॒पाम् ।
यमि॒न्धते᳚ युव॒तय॒ः समि॒त्था हिर᳚ण्यवर्णं घृ॒तमन्न᳚मस्य ॥
▶ पदपाठः (Word-by-word)
तत् । अ॒स्य॒ । अनी᳚कम् । उ॒त । चारु᳚ । नाम᳚ । अ॒पी॒च्य᳚म् । व॒र्ध॒ते॒ । नप्तुः᳚ । अ॒पाम् ।
यम् । इ॒न्धते᳚ । यु॒व॒तयः᳚ । सम् । इ॒त्था । हिर᳚ण्य॑वर्णम् । घृ॒तम् । अन्न᳚म् । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्यापांनप्तुर्देवस्यअनीकंरश्मिसमूहरूपंशरीरंचारु शोभनं उतअपिच अस्यनामसंज्ञाच चारु शोभनं नपातयतिनविनाशयतीतिनपादितितद्भ्युत्पत्तेः तदुभयंअपीच्यंअन्तर्हितनामैतत् मेघान्त र्हितंसद्वर्धतेयुवतयः सङ्गमनस्वभावाआपः हिरण्यवर्णंहिरण्यसमानतेजसं यमपान्नपातं इत्थाअ मुत्रान्तरिक्षेसमिन्धते सम्यक् दीपयन्ति अस्यचदेवस्यघृतंक्षरणशीलमुदकमन्नंभक्ष्यं अबिन्धनोह्य सौवैद्युतोग्निः ॥ ११ ॥

2.35.12
अ॒स्मै ब᳚हू॒नाम᳚व॒माय॒ सख्ये᳚ य॒ज्ञैर्वि᳚धेम॒ नम᳚सा ह॒विर्भि᳚ः ।
सं सानु॒ मार्ज्मि॒ दिधि᳚षामि॒ बिल्मै॒र्दधा॒म्यन्नै॒ः परि᳚ वन्द ऋ॒ग्भिः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मै । ब॒हू॒नाम् । अ॒व॒माय᳚ । सख्ये᳚ । य॒ज्ञैः । वि॒धे॒म॒ । नम᳚सा । ह॒विः॑भिः᳚ ।
सम् । सानु᳚ । मार्ज्मि᳚ । दिधि᳚षामि । बिल्मैः᳚ । दधा᳚मि । अन्नैः᳚ । परि᳚ । व॒न्दे॒ । ऋ॒क्॑भिः ॥
▶ सायणभाष्यम् (Sayana Commentary)

अमैपुरोवर्तिनेबहूनांदेवानामवमायाद्यायसख्येअस्माभिः समानाख्यानायापांनपातेयज्ञैर्यागसा- धनैर्हविर्भिः चरुपुरोडाशादिभिः नमसानमस्कारेणच विधेमपरिचरेम अस्यापान्नपातः सानुसमु च्छ्रितप्रदेशंसंमार्ज्मि सम्यक् शोधयामि अलङ्करोमिवा मृजूशौचालङ्कारयोः चादिलोपेविभाषे त्यस्यनिघातप्रतिषेधः दिधिषामिधारयामिच बिल्मैर्भासनैः काष्ठैरेनं धिषशब्दे अयंधारणार्थोपि जुहोत्यदित्वात् शपःश्लुः मिपोव्यत्ययेनाडागमः अभ्यस्तानामादिरित्याद्युदात्तत्वम् दधामिधार यामिचैनंगार्हपत्यादिरूपेण अन्नैर्हविर्लक्षणैः तथाऋग्भिः मन्त्रैः परिवन्दे परितःस्तौमि ॥ १२ ॥

2.35.13
स ईं॒ वृषा᳚जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु᳚र्धयति॒ तं रि᳚हन्ति ।
सो अ॒पां नपा॒दन᳚भिम्लातवर्णो॒॑न्यस्ये᳚वे॒ह त॒न्वा᳚ विवेष ॥
▶ पदपाठः (Word-by-word)
सः । ई॒म् । वृषा᳚ । अ॒ज॒न॒य॒त् । तासु᳚ । गर्भ᳚म् । सः । ई॒म् । शिशुः᳚ । ध॒य॒ति॒ । तम् । रि॒ह॒न्ति॒ ।
सः । अ॒पाम् । नपा᳚त् । अन᳚भिम्लात॑वर्णः । अ॒न्यस्य᳚॑इव । इ॒ह । त॒न्वा᳚ । वि॒वे॒ष॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सईंसोयमपांनपात् संज्ञकोदेवः वृषासेक्ताभूत्वातासुमेघस्थास्वप्सुगर्भमजनयत् स्वात्मानमेव गर्भरूपेणवर्षणार्थंकृतवानित्यर्थः गर्भोभूत्वाचसईंसोयंमाध्यमिकोवैद्युतोग्निः तासांशिशुः पुत्रः सन् धयतिमेघस्थास्ताःपिबति अबिन्धनोह्यसौतंपुत्रस्थानीयमद्भिः आपश्चरिहन्ति लिहआस्वा दने कपिलकादित्वाल्लत्वविकल्पः सोयमपांनपात् वृष्ट्यासहभूमौनिपतितः अनभिम्लातवर्णः अभितोम्लातोम्लानः क्षीणोवर्णोयस्यतद्विपरीतोत्यर्थंदीप्यमानःसन् इहास्मिन्लोकेअन्यस्येव इव शब्दोवधारणे अन्यस्यपार्थिवस्यैवाग्नेस्तन्वाशरीरेणकाष्ठेन्धनत्वलक्षणेनविवेष व्याप्तोबभूव विषॢ व्याप्तौ ॥ १३ ॥

2.35.14
अ॒स्मिन्प॒दे प᳚र॒मे त᳚स्थि॒वांस᳚मध्व॒स्मभि᳚र्वि॒श्वहा᳚ दीदि॒वांस᳚म् ।
आपो॒ नप्त्रे᳚ घृ॒तमन्नं॒ वह᳚न्तीः स्व॒यमत्कै॒ः परि᳚ दीयन्ति य॒ह्वीः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मिन् । प॒दे । प॒र॒मे । त॒स्थि॒॑वांस᳚म् । अ॒ध्व॒स्म॑भिः᳚ । वि॒श्वहा᳚ । दी॒दि॒॑वांस᳚म् ।
आपः᳚ । नप्त्रे᳚ । घृ॒तम् । अन्न᳚म् । वह᳚न्तीः । स्व॒यम् । अत्कैः᳚ । परि᳚ । दी॒य॒न्ति॒ । य॒ह्वीः ॥
▶ सायणभाष्यम् (Sayana Commentary)

परमेउत्कृष्टेस्मिन्पदेन्तरिक्षलक्षणेस्थानेतस्थिवांसंस्थितवन्तंअध्वस्मभिः ध्वंसनरहितैस्तेजोभिः विश्वहासर्वाण्यहानिदीदिवांसंदीप्यमानमपांनपातंयह्वीर्यत्द्भ्योमहत्यः आपः स्वयमात्मनैवअत्कै रतनशीलैः सततगन्तृभिः स्वकीयैरूपैः परिदीयन्ति परिगच्छन्ति दीयतिर्गतिकर्मा दीङ्क्षये व्यत्ययेनपरस्मैपदं किंकुर्वत्यः नप्त्नेअपान्नपातेघृतं क्षरणशीलोदकात्मकंअन्नंवहन्तीर्वहंत्यः ॥ १४ ॥

2.35.15
अयां᳚समग्ने सुक्षि॒तिं जना॒यायां᳚समु म॒घव᳚द्भ्यः सुवृ॒क्तिम् ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अयां᳚सम् । अ॒ग्ने॒ । सु॒॑क्षि॒तिम् । जना᳚य । अयां᳚सम् । ऊं॒ इति᳚ । म॒घव᳚त्॑भ्यः । सु॒॑वृ॒क्तिम् ।
विश्व᳚म् । तत् । भ॒द्रम् । यत् । अव᳚न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने सुक्षितिं शोभननिवासंत्वांअयांसमुपागच्छं किमर्थं जनायास्मदीयपुत्रादिजननार्थं तथामघवद्भ्यः हविर्लक्षणधनयुक्तेभ्योयजमानेभ्यश्च सुवृक्तिंशोभनावर्जकंत्वद्विषयंस्तोत्रं अयां समुपगच्छं यमउपरमे उःपूरणः अतःकारणाद्यद्भद्रंसर्वेदेवाअवन्ति रक्षन्ति विश्वंसर्वंतद्भद्रम स्माकंभवतु सुवीराः सुपुत्रावयंविदथेयज्ञेगृहेवाबृहत्प्रौढंस्तोत्रंवदेम अच्चारयाम ॥ १५ ॥

तुभ्यमितिषळृचंचतुर्थंसूक्तंगार्त्समदंजागतं प्रथमायाइन्द्रोमधुश्चदेवता द्वितीयायाःमरुतोमाध वश्च तृतीयायास्त्वष्टाशुक्रश्च चतुर्थ्याअग्निःशुचिश्च पञ्चम्याइन्द्रोनभश्च षष्ठ्यामित्रावरुणौनभस्य श्च तथाचानुक्रान्तम्—तुभ्यंषळृतव्यंतुजागतन्त्विति दशरात्रेषष्ठेहनिऋतुयाजेषुऋक् शिरस्कैःप्रैषैः प्रेषितव्यंयष्टव्यंच तत्राद्यानांषण्णांप्रैषाणामुपरिष्टाद्देवताः षळृचोहोरात्रादिभिः क्रमेणावपनीयाः तथाचसूत्रितम्—उपरिष्टात् द्वृचऋतुयाजानामित्युपक्रम्यतुभ्यंहिन्वानोवसिष्टगाअपइतिद्वादशे त्यन्तेन ।