श्रवणम्

2.35.6
अश्व॒स्यात्र॒ जनि᳚मा॒स्य च॒ स्व᳚र्द्रु॒हो रि॒षः स॒म्पृचः᳚ पाहि सू॒रीन् ।
आ॒मासु᳚ पू॒र्षु प॒रो अ᳚प्रमृ॒ष्यं नारा᳚तयो॒ वि न᳚श॒न्नानृ᳚तानि ॥
▶ पदपाठः (Word-by-word)
अश्व᳚स्य । अत्र᳚ । जनि᳚म । अ॒स्य । च॒ । स्वः᳚ । द्रु॒हः । रि॒षः । स॒म्॑पृचः᳚ । पा॒हि॒ । सू॒रीन् ।
आ॒मासु᳚ । पू॒र्षु । प॒रः । अ॒प्र॒॑मृ॒ष्यम् । न । अरा᳚तयः । वि । न॒श॒न् । न । अनृ᳚तानि ॥
▶ सायणभाष्यम् (Sayana Commentary)

अत्रास्मिन्नपान्नपात्संज्ञकेदेवेअश्वस्यजनिमजन्मभवति अपांनप्त्नधिष्ठितात् समुद्रादुच्चैः श्रवसो जातत्वात् किंबहुना अस्यचस्वः सुष्ठुअरणीयस्यसर्वस्यजगतोजन्मास्मिन्नेवभवति अयं हिमेघ मध्येवर्तमानोवृष्टिद्वारेणसर्वंजगज्जनयति तादृशोऽपान्नपात् त्वंद्रुहः द्रोग्धुरपहर्तुः रिषोहिंसकस्य चसंपृचः संपर्कात् सूरीन् स्तोतॄनस्मान्पाहि रक्ष आमासुअपरिपक्वासुपूर्षुपूरयितव्यास्वप्सु परः परस्ताद्वर्तमानंअप्रमृष्यं अप्रधृष्यमाणं देवंअरातयः अदातारः पुरुषाः नविनशन् नप्राप्नुवन्ति नशतिर्व्याप्तिकर्मा लेट्यडागमः अनृतानिमायाविनोरक्षांसिचनप्राप्नुवन्ति ॥ ६ ॥