द्वितीयं मण्डलम् - सूक्तम् 3

11 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इध्मः समिद्धोग्निर्वा छन्दः: त्रिष्टुप्

सूक्तम् 2.3 - सम्पूर्णम्

1 / 11
ऋक्: 2.3.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (11)
2.3.1
समि᳚द्धो अ॒ग्निर्निहि᳚तः पृथि॒व्यां प्र॒त्यङ्विश्वा᳚नि॒ भुव᳚नान्यस्थात् ।
होता᳚ पाव॒कः प्र॒दिवः᳚ सुमे॒धा दे॒वो दे॒वान्य᳚जत्व॒ग्निरर्ह᳚न् ॥
▶ पदपाठः (Word-by-word)
सम्॑इ᳚द्धः । अ॒ग्निः । नि॑हि᳚तः । पृ॒थि॒व्याम् । प्र॒त्यङ् । विश्वा᳚नि । भुव᳚नानि । अ॒स्था॒त् ।
होता᳚ । पा॒व॒कः । प्र॒॑दिवः᳚ । सु॒॑मे॒धाः । दे॒वः । दे॒वान् । य॒ज॒तु॒ । अ॒ग्निः । अर्ह᳚न् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पृथिव्यांवेदिलक्षणायांसमिद्धः सम्यक् दीप्तः एतन्नामकोग्निः निहितः स्थापितः सन् विश्वानिस- र्वाणि भुवनानिभूतजातानिप्रत्यङ् अभिमुखःसन् अस्थात् तिष्ठति यथासर्वेजनाः पश्यन्ति तथा प्रवृ- द्धोभव्दित्यर्थः किञ्च सोग्निर्होताहोमनिष्पादकोदेवानामाह्वातावापावकः शोधकः प्रदिवः पुराणः सुमेधाः शोभनप्रज्ञोदेवोद्योतमानः एवंमहानुभावोग्निः अर्हन् यागयोग्यः सन् देवान् यजतु अत्रय- ष्टव्यानिन्द्रादीन्पूजयतु ॥ १ ॥

2.3.2 समानपद
नरा॒शंस॒ः प्रति॒ धामा᳚न्य॒ञ्जन्ति॒स्रो दिव॒ः प्रति᳚ म॒ह्ना स्व॒र्चिः ।
घृ॒त॒प्रुषा॒ मन᳚सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम᳚नक्तु दे॒वान् ॥
▶ पदपाठः (Word-by-word)
नरा॒शंसः᳚ । प्रति᳚ । धामा᳚नि । अ॒ञ्जन् । ति॒स्रः । दिवः᳚ । प्रति᳚ । म॒ह्ना । सु॒॑अ॒र्चिः ।
घृ॒त॒॑प्रुषा᳚ । मन᳚सा । ह॒व्यम् । उ॒न्दन् । मू॒र्धन् । य॒ज्ञस्य᳚ । सम् । अ॒न॒क्तु॒ । दे॒वान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

नराशंसः नरैर्नेतृभिरृत्विग्भिः शंसनीयएतन्नामकोग्निः स्वर्चिः शोभनज्वालः सन् धामानिस्था- नानिआहुत्यधिकरणानितेजांसिप्रतिप्रत्येकंमह्नास्वमहिम्ना अञ्चन् व्यक्तीकुर्वन् तिस्रोदिवः द्योत- मानांस्त्रीन् भूम्यादिलोकांश्चप्रतिप्रत्येकमञ्चन् स्थित्याभूमिंप्रकाशेनान्तरिक्षंहविः प्रापणेनदिवमित्य- भिप्रायः यद्वा लोकानांप्रत्येकंत्रित्वोपेतत्वात् तिस्रोदिवइत्यविरुद्धं तिस्रोदिवः पृथिवीस्तिस्रइत्यादि- मन्त्रवर्णात् । त्रयोवाइमेत्रिवृतोलोकाइतिब्राह्मणाञ्च । तथाघृतप्रुषाघृतंसिञ्चता भनसाहव्यंउन्दन् क्लेदयन् स्निग्धीकुर्वन् यज्ञस्यमूर्धन् मूर्धनिमुखेहोमसमयेदेवन् यष्टव्यान् समनक्तु सम्यक् व्यक्तीकरोतु तर्पयत्वित्यर्थः ॥ २ ॥

2.3.3 समानपद
ई॒ळि॒तो अ᳚ग्ने॒ मन᳚सा नो॒ अर्ह᳚न्दे॒वान्य᳚क्षि॒ मानु᳚षा॒त्पूर्वो᳚ अ॒द्य ।
स आ व᳚ह म॒रुतां॒ शर्धो॒ अच्यु᳚त॒मिन्द्रं᳚ नरो बर्हि॒षदं᳚ यजध्वम् ॥
▶ पदपाठः (Word-by-word)
ई॒ळि॒तः । अ॒ग्ने॒ । मन᳚सा । नः॒ । अर्ह᳚न् । दे॒वान् । य॒क्षि॒ । मानु᳚षात् । पूर्वः᳚ । अ॒द्य ।
सः । आ । व॒ह॒ । म॒रुता᳚म् । शर्धः᳚ । अच्यु᳚तम् । इन्द्र᳚म् । न॒रः॒ । ब॒र्हि॒॑सद᳚म् । य॒ज॒ध्व॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअग्ने ईळितोस्माभिःस्तुतःसन् मनसास्मदनुरक्तेनदेवानांयगबुद्भ्यावाअर्हन् यागयोग्यःसन् मा- नुषाद्धोतुःपूर्वः पूर्वभावी नोस्मदर्थमद्यास्मिन् दिनेदेवान् यष्टव्यान् यक्षि त्वमेवयजसि सतादृशोय- ष्टात्वमावहआकारय कान् मरुतांशर्धोगणंअच्युतमक्षीणमिन्द्रंतदविंनाभूतमिन्द्रमपि यद्वा मरुद्बलोपे- तमिन्द्रंअनन्तरं हेनरोनेतारऋत्विजःबर्हिषदंबर्हिषिसीद्न्तंतमिन्द्रंयजध्वम् पूजयध्वम् ॥ ३ ॥

2.3.4 समानपद
देव᳚ बर्हि॒र्वर्ध᳚मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् ।
घृ॒तेना॒क्तं व᳚सवः सीदते॒दं विश्वे᳚ देवा आदित्या य॒ज्ञिया᳚सः ॥
▶ पदपाठः (Word-by-word)
देव᳚ । ब॒र्हिः॒ । वर्ध᳚मानम् । सु॒॑वीर᳚म् । स्ती॒र्णम् । रा॒ये । सु॒॑भर᳚म् । वेदी॒ इति᳚ । अ॒स्याम् ।
घृ॒तेन᳚ । अ॒क्तम् । व॒स॒वः॒ । सी॒द॒त॒ । इ॒दम् । विश्वे᳚ । दे॒वाः॒ । आ॒दि॒त्याः॒ । य॒ज्ञिया᳚सः ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेबर्हिःदेव एतदभिमानिन्नग्ने वर्धमानं सुवीरं शोभन वीरसंपादकं सुभरंसुपूर्णंस्तीर्णं अस्मदीयैरृ- त्विग्भिरास्तृतं भव किमर्थं रायेधनाय अस्यांवेदीवेद्यां सप्तम्यर्थेप्रगृह्यसंज्ञा संहितायां यणादेशश्छा- न्दसः घृतेनाज्येनक्तमिदंस्निग्धंबर्हिःसीदत के हेवसवः एतन्नामकाः हेविशेसर्वे देवाः हेआदित्याःयज्ञि- यासोयज्ञार्हास्तेयूयमिदंबर्हिः सीदत अस्मिन्बर्हिषिनिषीदतेत्यर्थः ॥ ४ ॥

2.3.5 समानपद
वि श्र᳚यन्तामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु᳚प्राय॒णा नमो᳚भिः ।
व्यच᳚स्वती॒र्वि प्र᳚थन्तामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीर᳚म् ॥
▶ पदपाठः (Word-by-word)
वि । श्र᳚यन्ताम् । उ॒र्वि॒या । हू॒यमा᳚नाः । द्वारः᳚ । दे॒वीः । सु॒प्र॒॑अ॒य॒नाः । नमः᳚॑भिः ।
व्यच᳚स्वतीः । वि । प्र॒थ॒न्ता॒म् । अ॒जु॒र्याः । वर्ण᳚म् । पु॒ना॒नाः । य॒शस᳚म् । सु॒॑वीर᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

द्वारोदेवीः अग्नेर्द्वाराभिमानिन्योदेव्योविश्रयन्तां विविच्यश्रयन्तां विवृतापिधानाभवन्तु कीदृश- स्ताः उर्विया उर्व्यःमहत्यः नमोभिर्नमस्कारोपेतैःस्तोत्रैर्हूयमानाः सुप्रायणाः सुष्ठुप्रकर्षेणगन्तव्याःईदृ- श्योदेव्योविश्रयन्तां किञ्च व्यचस्वतीः व्याप्तिमत्यः अजुर्याः अहिंस्याः अजननावा सुवीरंशोभनपुत्रा- द्युपेतं यशसंयशोयुक्तं वर्णं वर्णनीयंरूपविशेषं पुनानाः यजमानायशोधयित्र्यः संपादयित्र्योदेव्योवि- प्रथन्तां विशेषेणप्रख्याताभवन्तु ॥ ५ ॥

2.3.6 समानपद
सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते ।
तन्तुं᳚ त॒तं सं॒वय᳚न्ती समी॒ची य॒ज्ञस्य॒ पेशः᳚ सु॒दुघे॒ पय᳚स्वती ॥
▶ पदपाठः (Word-by-word)
सा॒धु । अपां᳚सि । स॒नता᳚ । नः॒ । उ॒क्षि॒ते इति᳚ । उ॒षसा॒नक्ता᳚ । व॒य्या᳚॑इव । र॒ण्वि॒ते इति᳚ ।
तन्तु᳚म् । त॒तम् । सं॒वय᳚न्ती॒ इति᳚ स॒म्॑वय᳚न्ती । स॒मी॒ची इति᳚ स॒म्॑ई॒ची । य॒ज्ञस्य᳚ । पेशः᳚ । सु॒दुघे॒ इति᳚ सु॒॑दुघे᳚ । पय᳚स्वती॒ इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

साधुसाधूनि नोस्मदीयानि अपांसि कर्माणि उद्दिश्य सनता सनातनेन अविच्छिन्न प्रवृत्तिकेन- स्तोत्रादिना उक्षिते पूजिते यद्वा पुराणवाचीविभक्त्यन्तः सनच्छब्दोस्ति तस्यप्रथमाद्विवचनस्याका- रः सनातने नित्येइत्यर्थः अस्मिन्पक्षे उक्षिते फलस्यसेचयित्र्यौ कर्तरिनिष्ठा उषासानक्ता अहोरात्रदे- वते वय्याइव कुशलेइव रण्विते शब्दितेस्तुते परस्परंगच्छ्न्त्यौवा ततं विस्तृतं तन्तुं तन्तुस्थानीयं यज्ञावयवं संतयन्ती सम्यक् चित्रं सहवा वयन्त्यौ उत्पादयित्र्यौ समीची सम्यक् प्रवृत्तिके परस्परा- नुकूले किमर्थंसंवयन्ती यज्ञस्यानुष्ठीयमानस्यपेशोरूपंनिर्मातुमितिशेषः यज्ञंनिवर्तयितुं तदवयवानु- क्रमेणानुष्ठापयित्र्यावित्यर्थः अहोरात्राभ्यांहियज्ञास्तन्यन्ते सुदुघे सुष्ठु फलस्यदोग्ध्र्यौ पयस्वत उदक- वत्यौ अहोरात्राभ्यांखलुवृष्टिर्जायते एवंमहानुभावे अहोरात्रदेवते अस्मद्यज्ञं निर्वहतामित्यर्थः ॥ ६ ॥

2.3.7
दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट᳚र ऋ॒जु य᳚क्षत॒ः समृ॒चा व॒पुष्ट᳚रा ।
दे॒वान्यज᳚न्तावृतु॒था सम᳚ञ्जतो॒ नाभा᳚ पृथि॒व्या अधि॒ सानु᳚षु त्रि॒षु ॥
▶ पदपाठः (Word-by-word)
दैव्या᳚ । होता᳚रा । प्र॒थ॒मा । वि॒दुः॑त᳚रा । ऋ॒जु । य॒क्ष॒तः॒ । सम् । ऋ॒चा । व॒पुः॑त᳚रा ।
दे॒वान् । यज᳚न्तौ । ऋ॒तु॒॑था । सम् । अ॒ञ्ज॒तः॒ । नाभा᳚ । पृ॒थि॒व्याः । अधि᳚ । सानु᳚षु । त्रि॒षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

दैव्या दिविभवोदिव्योग्निः तस्माद्दिव्यादग्नेर्जातौ होताराआह्वातारौ देवानांहोमनिष्पादकौवा- ग्नी पार्थिवान्तरिक्ष्यौ प्रथमाप्रथमंयष्टव्यौ विदुष्टराविद्वत्तमौ वपुष्टराप्रकृष्टवपुषौदेवावृचा मन्त्रेण ऋ- जुअविकलं यथातथासम्यक् यक्षतः पूजयतः ऋतुथातत्तदृतौ तत्रतत्रकाले देवान् यष्टव्यान् यजन्तौ देवौ पृथिव्याः नाभानाभौ उत्तरवेद्यां अधिउपरि त्रिषुसानुषुसमुच्छ्रितेषु प्रदेशेषुगार्हपत्यादिषु सम- ञ्चतः समांक्तां अञ्चतेर्लेट्यडागमः ॥ ७ ॥

2.3.8
सर᳚स्वती सा॒धय᳚न्ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार᳚ती वि॒श्वतू᳚र्तिः ।
ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि᳚द्रं पान्तु शर॒णं नि॒षद्य᳚ ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वती । सा॒धय᳚न्ती । धिय᳚म् । नः॒ । इळा᳚ । दे॒वी । भार᳚ती । वि॒श्व॑तू᳚र्तिः ।
ति॒स्रः । दे॒वीः । स्व॒धया᳚ । ब॒र्हिः । आ । इ॒दम् । अच्छि᳚द्रम् । पा॒न्तु॒ । श॒र॒णम् । नि॒॑सद्य᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नोस्मदीयां धियंबुद्धिंयागंवासाधयन्ती निवर्तयन्ती सरस्वती इळाएतन्नामिकादेवीभारतीच- विश्वतूर्तिर्विश्वानितूर्णानियस्याः सातादृशीसर्वविषयगतावाक् एतदुभयविशेषणं तिस्रोदेवीः एता- स्तिस्रोदेव्यः स्वधयाअस्मद्दत्तहविषा निमित्तेनेदंबर्हिर्यज्ञं अच्छिद्रंयथातथापान्तु किंकृत्वा शरणंया- गगृहं आनिषद्यआश्रित्य यद्वा स्वधयेदं वर्हिरिमंयज्ञमागत्यास्मदीयंशरणं गृहं निषद्याच्छिद्रंयथात- थापान्तु ॥ ८ ॥ अथपिशङ्गरूपइतिनव्मीत्वाष्ट्रेपशौपुरोडाशस्ययाज्या पिशङ्गरूपःसुभरोवयोधाः प्रथमभाजं- यशसंवयोधामितिसूत्रितत्वात् ।

2.3.9
पि॒शङ्ग᳚रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः ।
प्र॒जां त्वष्टा॒ वि ष्य᳚तु॒ नाभि᳚म॒स्मे अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः᳚ ॥
▶ पदपाठः (Word-by-word)
पि॒शङ्ग᳚॑रूपः । सु॒॑भरः᳚ । व॒यः॒॑धाः । श्रु॒ष्टी । वी॒रः । जा॒य॒ते॒ । दे॒व॑का᳚मः ।
प्र॒॑जाम् । त्वष्टा᳚ । वि । स्य॒तु॒ । नाभि᳚म् । अ॒स्मे इति᳚ । अथ᳚ । दे॒वाना᳚म् । अपि᳚ । ए॒तु॒ । पाथः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पिशङ्गरूपः सुवर्णवर्णः नानारूपोवासुभरः शोभनयज्ञः शोभनभरणोवा वयोधावयसोन्नस्य धारयितादातावा श्रुष्टीक्षिप्रगुणः वीरोविविधमीरयिता देवकामः देवाः काम्यन्तेयेनतादृशः पुत्रो- जायते जयतामुत्पाद्यतांत्वष्टुरनुग्रहात् सचत्वष्टाएतन्नामकोदेवोस्मेस्मभ्यंनाभिंकुलस्यबन्धिकांप्रजां पुत्रादिरूपांविष्यतु विमुञ्चतु वितरत्वित्यर्थः अथअपिचदेवानांसंबन्धिपाथोन्नमप्यस्मानेतु गच्छतु अपिःक्रिययावासंबध्यते गच्छत्वित्यर्थः ॥ ९ ॥

2.3.10 समानपद
वन॒स्पति᳚रवसृ॒जन्नुप᳚ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः ।
त्रिधा॒ सम᳚क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्य᳚ः शमि॒तोप᳚ ह॒व्यम् ॥
▶ पदपाठः (Word-by-word)
वन॒स्पतिः᳚ । अ॒व॒॑सृ॒जन् । उप᳚ । स्था॒त् । अ॒ग्निः । ह॒विः । सू॒द॒या॒ति॒ । प्र । धी॒भिः ।
त्रिधा᳚ । सम्॑अ᳚क्तम् । न॒य॒तु॒ । प्र॒॑जा॒नन् । दे॒वेभ्यः᳚ । दैव्यः᳚ । श॒मि॒ता । उप᳚ । ह॒व्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

वनस्पतिःयूपाभिमानीएतन्नामकोग्निः अवसृजन् अस्मदीयंकर्मानुजानन् उपास्मत्समीपे स्थात् तिष्ठतु अग्निःपाकाधारोग्नि श्चहविःपशुरूपंधीभिःकर्मविशेषैः पाकसाधनैः प्रप्रकर्षेणसूदयातिक्षारयति अपाकाधिकपाकादिराहित्येनहविः पचतीत्यर्थः किञ्च दैव्योदेवसंबन्धीआहुत्यधिकरणभूतोग्निःशमि- ताहविषः संस्कर्ता यद्वा दैव्यः शमिताएतन्नामकोग्निः अग्निर्वैदेवानांशमितेतिश्रूयते । त्रिधा त्रिप्रकारं- उपस्तरणावदानाभिघारणैः समक्तंसम्यक् सिक्तंहव्यंहविः प्रजानन् विद्वान् नयनप्रकाराभिज्ञःसन् देवेभ्यौपनयतु समीपंप्रपयतु ॥ १० ॥

2.3.11
घृ॒तं मि᳚मिक्षे घृ॒तम᳚स्य॒ योनि᳚र्घृ॒ते श्रि॒तो घृ॒तम्व᳚स्य॒ धाम᳚ ।
अ॒नु॒ष्व॒धमा व᳚ह मा॒दय᳚स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ॥
▶ पदपाठः (Word-by-word)
घृ॒तम् । मि॒मि॒क्षे॒ । घृ॒तम् । अ॒स्य॒ । योनिः᳚ । घृ॒ते । श्रि॒तः । घृ॒तम् । ऊं॒ इति᳚ । अ॒स्य॒ । धाम᳚ ।
अ॒नु॒॑स्व॒धम् । आ । व॒ह॒ । मा॒दय᳚स्व । स्वाहा᳚॑कृतम् । वृ॒ष॒भ॒ । व॒क्षि॒ । ह॒व्यम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्याग्नेर्घृतमाज्यंमिमिक्षे सिञ्चामि यतोस्यघृतं योनिःकारणं उत्पन्नोपिघृतेश्रितः आश्रितः अस्यग्नेर्घृतमेवधामतेजः घृतेनह्ययंदीप्यते इदानींसंबोध्योच्यते—हेअग्ने वृषभ फलस्यवर्षितस्त्वं- अनुष्वधंप्रतिहविः सर्वेष्वपिहविःषुदीयमानेषुआवह देवान् आहूयतान् मादयस्वप्रीणय ततस्त्वं- स्वाहाकृतंस्वाहाकारेणदत्तंहव्यं चरुपुरोडाशादि वक्षि वह ॥ ११ ॥

हुवेवइतिनवर्चंचतुर्थंसूक्तं भार्गवः सोमाहुतिनामकऋषिः अग्निर्देवता त्रिष्टुप् छन्दः हुवेनवसो- माहुतिर्भार्गवोहेत्यनुक्रमणिक प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभेछन्दसीदं सूत्रितञ्च—हुवेवः सुद्यो- त्मानंनिहोताहोतृषदनइतिसूक्तेइति ।