सु॒प्रा॒वीरिद्व᳚नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय᳚ज्यो॒र्वि भ᳚जाति॒ भोज᳚नम् ॥
पदपाठः (Word-by-word)
सु॒प्र॒॑अ॒वीः । इत् । व॒न॒व॒त् । पृ॒त्॑सु । दु॒स्तर᳚म् । यज्वा᳚ । इत् । अयज्योः᳚ । वि । भ॒जा॒ति॒ । भोज᳚नम् ॥
सायणभाष्यम् (Sayana Commentary)
ऋजुरितिआर्जवयुक्तएव यद्वा ऋञ्चतिःप्रसाधनकर्मा स्तोत्राणांप्रसाधकएवशंसः ब्रह्मणस्पतेः स्तोता वनुष्यतोहिंसतः शत्रून्वनवत् वनुयात् हिंस्यात् वनोतेर्हन्तिकर्मणएतद्रूपम् यथा देवयन्नित् देवंदानादिगुणयुक्तंब्रह्मणस्पतिमात्मनइच्छन्नेव अदेवयन्तं तद्विपरीतंपुरुषंअभ्यसत् अभिभवेत् अस्तेर्लेट्येतद्रूपम् तथासुप्रावीरित् अवतेस्तृप्त्यर्थादौणादिकईकारप्रत्ययः सुष्ठुप्रकर्षेणब्रह्मणस्पतेस्त- र्पयितैव पृत्सुपृतनासुसङ्ग्रामेषुदुस्तरंतरीतुमशक्यंवनवत् हिंस्यात् तथायज्वेत् ब्रह्मणस्पतिंहविषा इष्टवानेव अयज्योः अयज्वनः भोजनंभोगसाधनंविभजाति विशेषेणभजेत इत्यर्थः ॥ १ ॥