इ॒मा उ॒ षु श्रु᳚धी॒ गिरः᳚ ॥
पदपाठः (Word-by-word)
इ॒माः । ऊं॒ इति᳚ । सु । श्रु॒धि॒ । गिरः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेअग्नेमेमदीयामिमां आधीयमानांसमिधं इमामुपसदंउपसदनसाधनामाहुतिंउपसद्यागेक्रिय- माणांवावनेः संभजेथाः तथेमाउ इमाअपिगिरः स्तुतीः सु सुष्ठुश्रुधि श्रृणु ॥ १ ॥