श्रवणम्

2.6.3
तं त्वा᳚ गी॒र्भिर्गिर्व᳚णसं द्रविण॒स्युं द्र᳚विणोदः ।
स॒प॒र्येम᳚ सप॒र्यवः᳚ ॥
▶ पदपाठः (Word-by-word)
तम् । त्वा॒ । गीः॒॑भिः । गिर्व᳚णसम् । द्र॒वि॒ण॒स्युम् । द्र॒वि॒णः॒॑दः॒ ।
स॒प॒र्येम᳚ । स॒प॒र्यवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेद्रविणोदः धनस्यदातः अग्ने तंतादृशंगिर्वणसं गीर्भिः स्तुतिभिर्वननीयंद्रविणस्युंहविर्लक्षणधने- च्छुंत्वात्वांसपर्यवः परिचरणकर्तारोवयंगीर्भिःस्तुतिभिः सपर्येम परिचरेम ॥ ३ ॥