अ॒न्तर्ह्य᳚ग्न॒ ईय᳚से वि॒द्वाञ्जन्मो॒भया᳚ कवे ।
दू॒तो जन्ये᳚व॒ मित्र्य᳚ः ॥
दू॒तो जन्ये᳚व॒ मित्र्य᳚ः ॥
पदपाठः (Word-by-word)
अ॒न्तः । हि । अ॒ग्ने॒ । ईय᳚से । वि॒द्वान् । जन्म᳚ । उ॒भया᳚ । क॒वे॒ ।
दू॒तः । जन्या᳚॑इव । मित्र्यः᳚ ॥
दू॒तः । जन्या᳚॑इव । मित्र्यः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
हेकवे मेधाविन्नग्ने अन्तर्जनानांत्दृदयेईयसेहि गच्छसिजानासिवा हिः सहोतासेदुदूत्यंचिकित्वाँ- अंतरीयसइत्यादिमन्त्रान्तरप्रसिद्धिद्योतनार्थः कीदृशस्त्वं उभयाउभयविधानिजन्मजन्मानि यष्टॄणां- यजमानानांयष्टव्यानांदेवनांचसंबन्धीनि विद्वान् जानन् सन् ईयसइतिसंबन्धः तत्रदृष्टान्तः—जन्यो- जनेभ्योहितः मित्र्योविशेषेणमित्रेभ्योहितोदूतइव सयथप्रजानांचित्तवृत्तिज्ञानायराज्ञाप्रेरितः तासां- मनोजानातितद्वत् त्वमप्यस्माकमन्तरीयसइत्यर्थः ॥ ७ ॥