स नो᳚ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज᳚मन॒र्वाण᳚म् ।
स नः᳚ सह॒स्रिणी॒रिषः᳚ ॥
स नः᳚ सह॒स्रिणी॒रिषः᳚ ॥
पदपाठः (Word-by-word)
सः । नः॒ । वृ॒ष्टिम् । दि॒वः । परि᳚ । सः । नः॒ । वाज᳚म् । अ॒न॒र्वाण᳚म् ।
सः । नः॒ । स॒ह॒स्रिणीः᳚ । इषः᳚ ॥
सः । नः॒ । स॒ह॒स्रिणीः᳚ । इषः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
सः सएवाग्निः नोस्मदर्थंदिवस्परि द्युलोकादन्तरिक्षात् परीतिपञ्चम्यर्थानुवादी वृष्टिंकरोतीतिच- शेषः सएवनोस्मदर्थमनर्वाणमविचलमनल्पंवाजंबलंददातु तथासहस्रिणीः अपरिमितप्रकाराणि इषः अन्नानि सएवाग्निर्नोस्मभ्यंददातु ॥ ५ ॥