द्वितीयं मण्डलम् - सूक्तम् 39

8 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: अश्विनौ छन्दः: त्रिष्टुप्

सूक्तम् 2.39 - सम्पूर्णम्

1 / 8
ऋक्: 2.39.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (8)
2.39.1
ग्रावा᳚णेव॒ तदिदर्थं᳚ जरेथे॒ गृध्रे᳚व वृ॒क्षं नि᳚धि॒मन्त॒मच्छ᳚ ।
ब्र॒ह्माणे᳚व वि॒दथ᳚ उक्थ॒शासा᳚ दू॒तेव॒ हव्या॒ जन्या᳚ पुरु॒त्रा ॥
▶ पदपाठः (Word-by-word)
ग्रावा᳚णा॑इव । तत् । इत् । अर्थ᳚म् । ज॒रे॒थे॒ इति᳚ । गृध्रा᳚॑इव । वृ॒क्षम् । नि॒धि॒॑मन्त᳚म् । अच्छ᳚ ।
ब्र॒ह्माणा᳚॑इव । वि॒दथे᳚ । उ॒क्थ॒॑शसा᳚ । दू॒ता॑इ᳚व । हव्या᳚ । जन्या᳚ । पु॒रु॒॑त्रा ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौग्रावाणेव अरातिंप्रतिप्रेषितौपाषाणाविव तदर्थं अर्तेर्धातोरर्थशब्दः अर्थोर्तेरितिया स्कः । तमरातिमित्यर्थः इदितिपूरणः जरेथेजरयेथेअरातिंबाधेथां यद्वा यथागुरूग्रावाणौक्षिप्तौत दानीमेवशीघ्रंगच्छतः तथातत् तमर्थं गन्तारंजरेथेशीघ्रंग्त्वास्तुतमित्यर्थः जरतिः स्तुतिकर्मा किंच गृध्रेव गृध्राविवपक्षिणाविववृक्षंफलितंवृक्षं निधिमन्तं धनवन्तं यजमानं अच्छ आगच्छत मितिशेषः विदथेयज्ञे विदथःसवनमितियज्ञनामसुपाठात् उक्थशसा उक्थशंसितारौब्रह्माणेवब्रा ह्मणाविव जन्याजनपदेषुदूतेव राज्ञाप्रेषितौदूताविव पुरुत्राबहुभिःपुरुषैर्हव्याह्वातव्यौयुवां अत्रउपमेयद्वित्वानुसारेणोपमानद्वित्वम् ॥ १ ॥

2.39.2
प्रा॒त॒र्यावा᳚णा र॒थ्ये᳚व वी॒राजेव᳚ य॒मा वर॒मा स᳚चेथे ।
मेने᳚ इव त॒न्वा॒३॒᳚ शुम्भ᳚माने॒ दम्प᳚तीव क्रतु॒विदा॒ जने᳚षु ॥
▶ पदपाठः (Word-by-word)
प्रा॒तः॒॑यावा᳚ना । र॒थ्या᳚॑इव । वी॒रा । अ॒जा॑इ᳚व । य॒मा । वर᳚म् । आ । स॒चे॒थे॒ इति᳚ ।
मेने᳚ इ॒वेति॒ मेने᳚॑इव । त॒न्वा᳚ । शुम्भ᳚माने॒ इति᳚ । दम्प᳚ती इ॒वेति॒ दम्प᳚ती॑इव । क्र॒तु॒॑विदा᳚ । जने᳚षु ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ प्रातर्यावाणा प्रातरेवयज्ञार्थंगन्तारौ रथ्येव रथिनाविव वीरावीरौ स्वकर्मणिशूरौ अजेव अजाविव छागाविव यमायमलौ मेने इव नार्याविव तन्वा शरीरेण शुंभमाने शोभमा नौ दंपतीव जायापतीइव संगतौ जनेषु विषयेषु क्रतुविदा कर्मविदौ युवां वरं संभक्तारं आस चेथे आगच्छथः ॥ २ ॥

2.39.3 समानपद
शृङ्गे᳚व नः प्रथ॒मा ग᳚न्तम॒र्वाक्छ॒फावि᳚व॒ जर्भु᳚राणा॒ तरो᳚भिः ।
च॒क्र॒वा॒केव॒ प्रति॒ वस्तो᳚रुस्रा॒र्वाञ्चा᳚ यातं र॒थ्ये᳚व शक्रा ॥
▶ पदपाठः (Word-by-word)
शृङ्गा᳚॑इव । नः॒ । प्र॒थ॒मा । ग॒न्त॒म् । अ॒र्वाक् । श॒फौ॑इ᳚व । जर्भु᳚राणा । तरः᳚॑भिः ।
च॒क्र॒वा॒का॑इ᳚व । प्रति᳚ । वस्तोः᳚ । उ॒स्रा॒ । अ॒र्वाञ्चा᳚ । या॒त॒म् । र॒थ्या᳚॑इव । श॒क्रा॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौश्रृङ्गे इव पशोःश्रृङ्गेइव प्रथमा देवानांप्रथमौ शफाविव अश्वादेःखुराविव तरो भिर्वेगैर्जर्भुराणा भृशंगच्छन्तौ युवां नोस्मान्प्रति अर्वागभिमुखं गन्तमागच्छतं किंच हे अश्विनौ वस्तोःप्रति अहःप्रति चक्रवाकेव चक्र्वाकाविवहेउस्रा शत्रूणामुत्स्वारकौ गमनशीलौवा रथ्येव रथिनाविव हेशक्रा स्वकर्मणिशक्तौ अर्वाञ्चा अर्वाञ्चौ अस्मदभिमुखौ यातंगच्छतम् ॥ ३ ॥

2.39.4 समानपद
ना॒वेव᳚ नः पारयतं यु॒गेव॒ नभ्ये᳚व न उप॒धीव᳚ प्र॒धीव᳚ ।
श्वाने᳚व नो॒ अरि᳚षण्या त॒नूनां॒ खृग᳚लेव वि॒स्रसः᳚ पातम॒स्मान् ॥
▶ पदपाठः (Word-by-word)
ना॒वा॑इ᳚व । नः॒ । पा॒र॒य॒त॒म् । यु॒गा॑इ᳚व । नभ्या᳚॑इव । नः॒ । उ॒प॒धी इ॒वेत्यु᳚प॒धी॑इ᳚व । प्र॒धी इ॒वेति᳚ प्र॒धी॑इ᳚व ।
श्वाना᳚॑इव । नः॒ । अरि᳚षण्या । त॒नूना᳚म् । खृग᳚ला॑इव । वि॒॑स्रसः᳚ । पा॒त॒म् । अ॒स्मान् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ नावेव वानाविव सिन्धून् नोस्मान् दुर्गाणि पारयतम् युगाइव यथारथस्ययुगेन भ्याइव यथाच रथचक्रनाभिफलके उपधीइव यथतत्पार्श्वस्थे फलके प्रधीइव यथावाचक्रबाह्य वलयौ रथं पारयतः तथानोस्मान् दुर्गाणिपारयतं किंच श्वानाविव यथाश्वानौ बाधकेभ्योर क्षन्तौ तनोर्हिंसामपनयतः तथानोस्माकंतनूनामङ्गानामरिषण्यावहिंसकौभवतं खृगलाइव यथा तनुत्राणे तनुहिंसायारक्षतः तथाविस्रसः जरायाः अस्मान् युवां पातम् ॥ ४ ॥

2.39.5
वाते᳚वाजु॒र्या न॒द्ये᳚व री॒तिर॒क्षी इ᳚व॒ चक्षु॒षा या᳚तम॒र्वाक् ।
हस्ता᳚विव त॒न्वे॒३॒᳚ शम्भ᳚विष्ठा॒ पादे᳚व नो नयतं॒ वस्यो॒ अच्छ᳚ ॥
▶ पदपाठः (Word-by-word)
वाता᳚॑इव । अ॒जु॒र्या । न॒द्या᳚॑इव । री॒तिः । अ॒क्षी इ॒वेत्य॒क्षी॑इ᳚व । चक्षु᳚षा । आ । या॒त॒म् । अ॒र्वाक् ।
हस्तौ᳚॑इव । त॒न्वे᳚ । शम्॑भ᳚विष्ठा । पादा᳚॑इव । नः॒ । न॒य॒त॒म् । वस्यः᳚ । अच्छ᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अश्विनौ वातेव वाताविव अजुर्या जरितुमशक्यौ नद्येव नद्याविव रीतिः व्यत्ययेनैक वचनं शीघ्रंगन्तारौयुवां अक्षीइव अक्षिणी इव चक्षुषादर्शनेन अर्वागस्मदभिमुखं आयातमाग च्छतं किंच हस्ताविव हस्तौइव पादेवपादाविव तन्वेशरीराय शंभविष्ठा सुखस्यभावयितृतमौ युवांनोस्मान् वस्यः वसीयः श्रेष्ठंधनं अच्छप्रतिनयतं प्रापयतम् ॥ ५ ॥

2.39.6 समानपद
ओष्ठा᳚विव॒ मध्वा॒स्ने वद᳚न्ता॒ स्तना᳚विव पिप्यतं जी॒वसे᳚ नः ।
नासे᳚व नस्त॒न्वो᳚ रक्षि॒तारा॒ कर्णा᳚विव सु॒श्रुता᳚ भूतम॒स्मे ॥
▶ पदपाठः (Word-by-word)
ओष्ठौ᳚॑इव । मधु᳚ । आ॒स्ने । वद᳚न्ता । स्तनौ᳚॑इव । पि॒प्य॒त॒म् । जी॒वसे᳚ । नः॒ ।
नासा᳚॑इव । नः॒ । त॒न्वः᳚ । र॒क्षि॒तारा᳚ । कर्णौ᳚॑इव । सु॒॑श्रुता᳚ । भू॒त॒म् । अ॒स्मे इति᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ ओष्ठाविवआस्ने आस्याय मधु मधुररसवद्वचनं वदन्ता वदन्तौ स्तनाविव नः अस्मान् जीवसे जीवनायपिप्यतं प्याययतं किंच नासेव नासिकेइव नःअस्माकंतन्वःतनोः रक्षितारा रक्षितारौ भूतंभवतं अपिच कर्णाविव अस्मेअस्माकं सुश्रुतासुश्रवणेयुवांभूतंभवतम् ॥ ६ ॥

2.39.7
हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी न॒ः क्षामे᳚व न॒ः सम᳚जतं॒ रजां᳚सि ।
इ॒मा गिरो᳚ अश्विना युष्म॒यन्ती॒ः क्ष्णोत्रे᳚णेव॒ स्वधि᳚तिं॒ सं शि᳚शीतम् ॥
▶ पदपाठः (Word-by-word)
हस्ता᳚॑इव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति᳚ स॒म्॑द॒दी । नः॒ । क्षामा᳚॑इव । नः॒ । सम् । अ॒ज॒त॒म् । रजां᳚सि ।
इ॒माः । गिरः᳚ । अ॒श्वि॒ना॒ । यु॒ष्म॒॑यन्तीः᳚ । क्ष्णोत्रे᳚ण॑इव । स्व॑धि᳚तिम् । सम् । शि॒शी॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ हस्तेव हस्ताविव शक्तिंसमर्थ्यंनोस्माकं अभिसंददी आभिमुख्येनसम्यक् प्रयच्छन्तौ भवतं किंच क्षामइव रोदसीइव रजांसिस्थानानिउदकानिवा उदकंरजउच्यतइतियास्कः । नो- स्माकंसमजतं प्रेरयतं अपिच अश्विना हेअश्विनौ इमागिरः अस्माभिःकृताःस्तुतोः युष्मयन्तीः युवामिच्छन्तीः स्वधितिमसिं क्ष्णोत्रेणेव तेजनशाणवत् संशिशीतं सम्यक् तीक्ष्णीकुरुतम् ॥ ७ ॥

2.39.8
ए॒तानि᳚ वामश्विना॒ वर्ध᳚नानि॒ ब्रह्म॒ स्तोमं᳚ गृत्सम॒दासो᳚ अक्रन् ।
तानि᳚ नरा जुजुषा॒णोप᳚ यातं बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
ए॒तानि᳚ । वा॒म् । अ॒श्वि॒ना॒ । वर्ध᳚नानि । ब्रह्म᳚ । स्तोम᳚म् । गृ॒त्स॒॑म॒दासः᳚ । अ॒क्र॒न् ।
तानि᳚ । न॒रा॒ । जु॒जु॒षा॒णा । उप᳚ । या॒त॒म् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अश्विना हेअश्विनौ वांयुवयोः एतानिवर्धनानिवृद्धिसाधनानिब्रह्मब्रह्माणि मन्त्रान् स्तोमं स्तो त्रंच गृत्समदासोगृत्समदाअक्रन् अकुर्वन् तानिब्रह्माणि नरानेतारौ जुजुषाणाभृशंप्रीयमाणौ युवांउपयातंउपगच्छतं किंच सुवीराः शोभनपुत्रावयं विदथेयज्ञेयुवां बृहद्वदेमप्रभूतंस्तुमः ॥ ८ ॥

सोमापूषणेतिषळृचमष्टमंसूक्तं गार्त्समदंत्रैष्टुभं सोमापूषदेवताकं तथाचानुक्रान्तं—सोमापूषणा षट् सोमापौष्णमन्त्योर्धर्चोप्यदितेरिति अवतुदेव्यदितिरित्यस्यार्धर्चस्यादितिर्देवता सोमापौष्णे पशौवपापुरोडाशहविषामाद्यास्तिस्रःक्रमेणानुवाक्याः उत्तरास्तिस्रोयाज्याः अग्नीषोमावितिखण्डे सूत्रितं—सोमापूषणाजननारयीणामिति ।