श्रवणम्

2.39.7
हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी न॒ः क्षामे᳚व न॒ः सम᳚जतं॒ रजां᳚सि ।
इ॒मा गिरो᳚ अश्विना युष्म॒यन्ती॒ः क्ष्णोत्रे᳚णेव॒ स्वधि᳚तिं॒ सं शि᳚शीतम् ॥
▶ पदपाठः (Word-by-word)
हस्ता᳚॑इव । श॒क्तिम् । अ॒भि । स॒न्द॒दी इति᳚ स॒म्॑द॒दी । नः॒ । क्षामा᳚॑इव । नः॒ । सम् । अ॒ज॒त॒म् । रजां᳚सि ।
इ॒माः । गिरः᳚ । अ॒श्वि॒ना॒ । यु॒ष्म॒॑यन्तीः᳚ । क्ष्णोत्रे᳚ण॑इव । स्व॑धि᳚तिम् । सम् । शि॒शी॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअश्विनौ हस्तेव हस्ताविव शक्तिंसमर्थ्यंनोस्माकं अभिसंददी आभिमुख्येनसम्यक् प्रयच्छन्तौ भवतं किंच क्षामइव रोदसीइव रजांसिस्थानानिउदकानिवा उदकंरजउच्यतइतियास्कः । नो- स्माकंसमजतं प्रेरयतं अपिच अश्विना हेअश्विनौ इमागिरः अस्माभिःकृताःस्तुतोः युष्मयन्तीः युवामिच्छन्तीः स्वधितिमसिं क्ष्णोत्रेणेव तेजनशाणवत् संशिशीतं सम्यक् तीक्ष्णीकुरुतम् ॥ ७ ॥