स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त᳚वे म॒हामु॒रुं सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दु᳚ः ॥
पदपाठः (Word-by-word)
सः । ई॒म् । म॒मा॒द॒ । महि᳚ । कर्म᳚ । कर्त᳚वे । म॒हाम् । उ॒रुम् । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र᳚म् । स॒त्यः । इन्दुः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
गृत्समदोब्रूते महिषः महान्पूज्यः तुविशुष्मः बहुबलः तृपत् तृपप्रीणनेतुदादिः आगमानुशासन स्यानित्यत्वान्नुमभावः तृप्यन्निन्द्रः त्रिकद्रुकेषुज्योतिर्गौरायुरित्येतन्नामकेषुआभिप्लविकेष्वहस्सुसु तमभिषुतंयवाशिरंयवमयैःसक्तुभिर्मिश्रितं आङ् पूर्वस्यश्रीणातेःक्विपिअपस्पृधेथामित्यादिनाशिर इत्यादेशः तंसोमंविष्णुनासहापिबत् यथा वशत् पूर्वंयथा तं सोममकामयततथापिबत् वशकान्तौ बहुलंछन्दसीतिशपोलुगभावः पीत ससोमः महांमहान्तमुरुंतेजसाविस्तीर्णंईमेनमिन्द्रं ममादअमा दयत् किमर्थं महिमहद्वृत्रहननादिलक्षणं कर्मकर्तवेकर्तुं सत्यंयथार्थभूतः इन्दुः स्रवन् देवोदीप्यमानः ससोमः सत्यंयथार्थभूतं देवंसोमंकामयमानमेनमिन्द्रं सश्चत् सश्च्तिर्व्याप्तिकर्मा व्याप्नोतु ॥ १ ॥