श्रवणम्

2.22.3
सा॒कं जा॒तः क्रतु᳚ना सा॒कमोज᳚सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यै᳚ः सास॒हिर्मृधो॒ विच᳚र्षणिः ।
दाता॒ राधः᳚ स्तुव॒ते काम्यं॒ वसु॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दु᳚ः ॥
▶ पदपाठः (Word-by-word)
सा॒कम् । जा॒तः । क्रतु᳚ना । सा॒कम् । ओज᳚सा । व॒व॒क्षि॒थ॒ । सा॒कम् । वृ॒द्धः । वी॒र्यैः᳚ । स॒स॒हिः । मृधः᳚ । वि॑च᳚र्षणिः ।
दाता᳚ । राधः᳚ । स्तु॒व॒ते । काम्य᳚म् । वसु᳚ । सः । ए॒न॒म् । स॒श्च॒त् । दे॒वः । दे॒वम् । स॒त्यम् । इन्द्र᳚म् । स॒त्यः । इन्दुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

क्रतुनकर्मणाप्रज्ञयावासाकं सहजातः साकमोजसाबलेनसहववक्षिथ विश्वंवोढुमिच्छसि वहेः सन्नं तस्यलिटिमन्त्रत्वादाम्नभवति किञ्च त्वंवीर्यैः शत्रुहननादिलक्षणैः परक्रमैः साकं सह वृद्धः प्रवृद्धः मृ- धोहिंसकान्संग्रामान्वासासहिः नलोकाव्ययेतिषष्ठीप्रतिषेधः तेषामभिभविता विचर्षणिः पुण्यकृतोऽ पुण्यकृतश्चविशेषेणद्रष्टा स्तुवतेस्तोत्रंकुर्वाणाययजमानायराधः साधकं काम्यं प्रार्थनीयं वसुधनं दाता सन् ववक्षिथेतिसमन्वयः सैनमितिपरोक्षनिर्देशः सिद्धार्थश्च ॥ ३ ॥