यद्दे॒वस्य॒ शव᳚सा॒ प्रारि᳚णा॒ असुं᳚ रि॒णन्न॒पः ।
भुव॒द्विश्व᳚म॒भ्यादे᳚व॒मोज᳚सा वि॒दादूर्जं᳚ श॒तक्र᳚तुर्वि॒दादिष᳚म् ॥
पदपाठः (Word-by-word)
यत् । दे॒वस्य᳚ । शव᳚सा । प्र । अरि᳚णाः । असु᳚म् । रि॒णन् । अ॒पः ।
भुव᳚त् । विश्व᳚म् । अ॒भि । अदे᳚वम् । ओज᳚सा । वि॒दात् । ऊर्ज᳚म् । श॒त॑क्र᳚तुः । वि॒दात् । इष᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
नृतोसर्वेषांनर्तयितः हेइन्द्र नर्यंनराणांहितकरंप्रथमंप्रततं प्रथमंप्रततमितियास्कः । पूर्व्यं पूर्वकाल भवंत्वयाकृतं तवत्यत् तत् अपःकर्म दिविस्वर्गलोकेप्रवाच्यंप्रकर्षेणवक्तव्यं श्लाघनीयमित्यर्थः किंतत् देवस्यविजिगीषोरसुरस्यशवसावलेनअसुंप्राणंरिणन् हिंसन् त्वंअपः तेननिरुद्धान्युदकानि प्रारिणाः प्रैरयः इतियदेतत्कर्मतत्प्रवाच्यमितिसमन्वयः परोक्षनिर्देशोवशिष्टः सइन्द्रः विश्वंव्याप्तं अदेवंतमोरू- पमसुरंओजसाबलेनअभिभुवत् अभिभवतु किञ्च शतक्रतुरिन्द्रः ऊर्जंबलंविदात् लभतु इषंहविर्लक्षण मन्नंचविदात् विदिर् लाभे शाविकरणी लेट्याडागमः ॥ ४ ॥
तृतीयेनुवाकेदशसूक्तानि तत्रेदमेकोनविंशत्यृचंगार्त्समदंप्रथमंसूक्तं अत्रेयमनुक्रमणिका गणाना मेकोनाब्राह्मणस्पत्यंहबार्हस्पत्यास्तुदृष्टलिङ्गाःपञ्चदश्यन्तेत्रिष्टुभाविति पञ्चदशीएकोनविंशीचत्रि ष्टुभौ शिष्टाजगत्यः यासुबृहस्पतिशब्दःश्रूयतेताबार्हस्पत्याः शिष्टाब्राह्मणस्पत्याः प्रवर्ग्येभिष्टवएतत्सू क्तं स्पृष्ट्वोदकमितिखण्डेसूत्रितम्—गणानांत्वाप्रथश्छयस्येति ।