द्वितीयं मण्डलम् - सूक्तम् 24

16 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: बृहस्पतिः छन्दः: जगती

सूक्तम् 2.24 - सम्पूर्णम्

1 / 16
ऋक्: 2.24.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (16)
2.24.1
सेमाम᳚विड्ढि॒ प्रभृ᳚तिं॒ य ईशि᳚षे॒॑या वि᳚धेम॒ नव᳚या म॒हा गि॒रा ।
यथा᳚ नो मी॒ढ्वान्त्स्तव᳚ते॒ सखा॒ तव॒ बृह᳚स्पते॒ सीष᳚ध॒ः सोत नो᳚ म॒तिम् ॥
▶ पदपाठः (Word-by-word)
सः । इ॒माम् । अ॒वि॒ड्ढि॒ । प्र॑भृ᳚तिम् । यः । ईशि᳚षे । अ॒या । वि॒धे॒म॒ । नव᳚या । म॒हा । गि॒रा ।
यथा᳚ । नः॒ । मी॒ढ्वान् । स्तव᳚ते । सखा᳚ । तव᳚ । बृह᳚स्पते । सीस᳚धः । सः । उ॒त । नः॒ । म॒तिम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

यस्यनिःश्वसितंवेदायोवेदेभ्योखिलंजगत् ॥ निर्ममेतमहंव्न्देविद्यातीर्थमहेश्वरम् ॥ १ ॥

अथऋषिच्छन्दोदेवताविनियोगपुरः सरसप्तमो व्याख्यायते गार्त्समदस्यद्वितीयमण्डलस्य तृतीयेनुवाकेदशसूक्तानि तत्रैकंसूक्तं व्याकृतम् सेमामितिषोळशर्चंद्वितीयंसूक्तम् अत्रानुक्रम्यते— सेमांषोळशान्त्यात्रिष्टुप् द्वादशीचसैन्द्रीचेति मण्डलद्रष्टागृत्समदऋषिः द्वादशीषोडश्यौत्रिष्टुभौ शिष्टाचतुर्दशजगत्यः ब्राह्मणस्पत्यंहेत्युक्तत्वात् तुह्यादिपरिभाषयाइदमादीनित्रीणिसूक्तानिब्राह्म णस्पत्यानि अस्यसूक्तस्यद्वादशीऎन्द्रीइन्द्रदेवत्या चशब्दात् ब्राह्मणस्पत्याच सामान्यविनियोगः पूर्वमेवोक्तः विशेषस्तुलिङ्गादवगन्तव्यः ।

हेबृहस्पते यस्त्वंईशिषेसर्वस्यजगतईश्व्रोभवसि सत्वंइमामस्मदीयांप्रभृतिंप्रकर्षेणभृतां स्तुतिं अविड्डिप्राप्नुहि अवतेः प्राप्त्यर्थस्यलोट्येतद्रूपम् वयंचत्वांअयाअनयाछान्दसोवर्णलोपः नवयानूतन याप्रत्यग्रयामहामहत्यागिरावेदरूपयास्तुतिलक्षणयावाचाविधेमपरिचरेम विधतिःपरिचरणकर्मा उतअपिचनोस्माकं मध्येमीड्वान् सेक्तास्तुतेर्वर्षिता कर्तेतियावत् तवसखामित्रभूतः सन् यथायेन प्रकारेणयत्कामनयास्तवतेत्वांस्तौति हेबृहस्पते बृहतोब्रह्मणोमन्त्रस्यस्वामिन् सत्वं नोस्माकंमतिं तदभिमतंफलंसीषधः साधय छान्दसेलुङिचङिएतद्रूपम् ॥ १ ॥

2.24.2
यो नन्त्वा॒न्यन᳚म॒न्न्योज᳚सो॒ताद᳚र्दर्म॒न्युना॒ शम्ब᳚राणि॒ वि ।
प्राच्या᳚वय॒दच्यु᳚ता॒ ब्रह्म᳚ण॒स्पति॒रा चावि᳚श॒द्वसु᳚मन्तं॒ वि पर्व᳚तम् ॥
▶ पदपाठः (Word-by-word)
यः । नन्त्वा᳚नि । अन᳚मत् । नि । ओज᳚सा । उ॒त । अ॒द॒र्दः॒ । म॒न्युना᳚ । शम्ब᳚राणि । वि ।
प्र । अ॒च्य॒व॒य॒त् । अच्यु᳚ता । ब्रह्म᳚णः । पतिः᳚ । आ । च॒ । अवि᳚शत् । वसु᳚॑मन्तम् । वि । पर्व᳚तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

योब्रह्मणस्पतिः नन्त्वानि नमनीयानिराक्षसादीनि ओजसाबलेनन्यनमत् नितरामनमयत् प्रह्वी भूतान्यकरोत् उतअपिच सब्रह्मणस्पतिर्मन्युना मनुनाक्रोधेनवा मन्युर्मन्यतेर्दीप्तिकर्मणः क्रोधकर्मणो वधकर्मणोवेतियास्कः । शंबराणि मेघनामैतत् मेघान् व्यदर्दः वर्षणार्थंविदारितवान् द्दृविदारणेइ त्यस्माद्यङ् लुगन्ताल्लङ्येतद्रूपम् तदनन्तरंअच्युताअच्युतानिनैश्छल्येनमेघेवस्थितान्युदकानि प्राच्या वयत् प्रकर्षेणगमयत् मेघान्निरगमयदित्यर्थः तथावसुमंतंगोरूपधनवन्तं पर्वतंबलनाम्नासुरेणबिलद्वा रेपिधानार्थंनिहितं शिलोच्चयंआचाअभिमुख्येनचेत् चशाब्दश्चेदर्थः समुच्चयार्थत्वेतुचवायोगेप्रथमेति पूर्वस्याच्यावयदित्यस्याद्युदात्तत्वंस्यात् अस्यचसर्वानुदात्तत्वं चेदर्थेतु निपातैर्यद्यदिहन्तेतिनिघात प्रतिषेधःसिध्यति व्यविशत् विशेषेणप्रविशति तदानींतद्गोरूपंधनं प्राप्नोदित्यर्थः ॥ २ ॥

2.24.3
तद्दे॒वानां᳚ दे॒वत᳚माय॒ कर्त्व॒मश्र᳚थ्नन्दृ॒ळ्हाव्र᳚दन्त वीळि॒ता ।
उद्गा आ᳚ज॒दभि᳚न॒द्ब्रह्म᳚णा व॒लमगू᳚ह॒त्तमो॒ व्य᳚चक्षय॒त्स्व᳚ः ॥
▶ पदपाठः (Word-by-word)
तत् । दे॒वाना᳚म् । दे॒व॑त᳚माय । कर्त्व᳚म् । अश्र᳚थ्नन् । दृ॒ळ्हा । अव्र᳚दन्त । वी॒ळि॒ता ।
उत् । गाः । आ॒ज॒त् । अभि᳚नत् । ब्रह्म᳚णा । व॒लम् । अगू᳚हत् । तमः᳚ । वि । अ॒च॒क्ष॒य॒त् । स्व१॒᳚रिति᳚ स्वः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानामिन्द्रादीनांमध्येदेवतमाय अतिशयेनदानादिगुणयुक्ताय षष्ठ्य्र्थेचतुर्थी ईदृशस्य ब्रह्मण स्पतेस्तत्कर्त्वंकर्तव्यं कर्म किंपुनस्तदितिचेदुच्यते—दृह्ळा दृढानिपर्वतादीनि अश्रश्नन् श्रंथविमोचनप्र तिहर्षणयोः अस्यबलेनश्रथितानि विश्लिष्टान्यभूवन् तथावीळितावीळितानिसंस्तं भितानिदृढीकृता- निवृक्षादीनि वीळयतिश्चव्रीडयतिश्चसंस्तंभकर्माणावितियास्कः । अव्रदन्त मृदून्यभवन् व्रदतिर्मृदू- भावकर्मा अपिचसब्रह्मणस्पतिः बलेनापहृतागाः उदाजत् अजगतिक्षेपणयोः देवान्प्रत्युदगमयत् तथाब्रह्मणाआत्मीयेनमन्त्रेणबलंसर्वस्यावरकमसुरंअभिनत् मन्त्रसामर्थ्येनाभैत्सीत् तदनन्तरंबलेनो त्पादितंतमः ध्वान्तंअगूहत् गुहूसंवरणे गूढमदृश्यमकरोत् तदनन्तरं स्वरादित्यंव्यचक्षयत् तमसोनि राकरणेनतत्स्थमदर्शयत् चष्टिःपश्यतिकर्मा ॥ ३ ॥

2.24.4
अश्मा᳚स्यमव॒तं ब्रह्म᳚ण॒स्पति॒र्मधु᳚धारम॒भि यमोज॒सातृ᳚णत् ।
तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि᳚सिचु॒रुत्स᳚मु॒द्रिण᳚म् ॥
▶ पदपाठः (Word-by-word)
अश्म᳚॑आस्यम् । अ॒व॒तम् । ब्रह्म᳚णः । पतिः᳚ । मधु᳚॑धारम् । अ॒भि । यम् । ओज᳚सा । अतृ᳚णत् ।
तम् । ए॒व । विश्वे᳚ । प॒पि॒रे॒ । स्वः॒॑दृशः᳚ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स᳚म् । उ॒द्रिण᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ब्रह्मणस्पतिः ब्रह्मणोमन्त्रस्यपतिः पालयितादेवः अश्मास्यं अश्मवदृढतरास्यम् यास्कस्त्वाह—अशनवन्तमास्यन्दनवन्तमिति । व्यापनवन्तम् आसेचनवन्तमितितस्यार्थः मधुधारं मधुर्मादयित्री उदकधारायस्यतादृशम् अवतंअवस्तात्ततंविस्तृतं यंमेघंओजसाबलेनअभ्यतृण त् उतृदिर् हिंसानाद रयोः अहिंसीत् वर्शणार्थवधीदित्यर्थः तमेवमेघंविश्वेसर्वेस्वर्दृशः स्वरादित्यः तस्यसंबन्धिनोद्रष्टारो रश्मयः पपिरे घर्मकालेपिबन्ति मेघेनवृष्टस्योदकस्यपानात्तमेवपिबन्तीत्युच्यते तेचरश्मयोवर्षासु उत्सं उत्सेचनवन्तंउद्रिणंउदकवन्तंमेघंसाकंसहयुगपदेवबहुसिसिचुः घर्मकालेयत्पीतं ततोपिबहुतरं सहस्रगुणितं सिञ्चन्तीत्यर्थः ॥ ४ ॥

2.24.5
सना॒ ता का चि॒द्भुव᳚ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः ।
अय᳚तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार᳚ व॒युना॒ ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
सना᳚ । ता । का । चि॒त् । भुव᳚ना । भवी᳚त्वा । मा॒त्॑भिः । श॒रत्॑भिः᳚ । दुरः᳚ । व॒र॒न्त॒ । वः॒ ।
अय᳚तन्ता । च॒र॒तः॒ । अ॒न्यत्॑अ᳚न्यत् । इत् । या । च॒कार᳚ । व॒युना᳚ । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋत्विग्यजमानाः वोयुष्मदर्थंसना सनातनानि ता तानिकाचित् कानिचित् ब्रह्मणस्पतेः प्रज्ञा- नानि भुवनाभुवनानां सुपांसुलुगितिषष्ठ्यालुक् भुवनानामुदकानां भवीत्वा भाव्यानां दुरोद्वाराणि माद्भिः मासैः पद्दन्नित्यादिनामासशब्दस्यमासूभावः स्वतवस्मासोषसांचइष्यते इतितत्वम् शरद्भिः संवत्सरैश्चवरंत विवृण्वन्ति तत्कालेवर्षणार्थंमेघद्वाराण्युद्घाटयन्तीत्यर्थः कानिपुनस्तानि ब्रह्मणस्पति र्यायानि वयुना ज्ञाननामैतत् ज्ञानानिमन्त्रविषयाणिचकार कृतवान् तदनन्तरं अयतन्ता अयतमानौ अप्रयत्नौ उभौलोकौद्यौश्च पृथिवीच अन्यदन्यदित् अन्यदन्यदेवपृथिवीवृष्टिजलं दिव्यमुदकंद्यौः उदक कार्यं हविर्लक्षणं पार्थिवमन्नं एवं परस्परव्यतिहारेणचरतोभुञ्चाते चरगतिभक्षणयोः ॥ ५ ॥

2.24.6
अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प᳚णी॒नां प᳚र॒मं गुहा᳚ हि॒तम् ।
ते वि॒द्वांसः᳚ प्रति॒चक्ष्यानृ᳚ता॒ पुन॒र्यत᳚ उ॒ आय॒न्तदुदी᳚युरा॒विश᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑नक्ष᳚न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒॑धिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा᳚ । हि॒तम् ।
ते । वि॒द्वांसः᳚ । प्र॒ति॒॑चक्ष्य᳚ । अनृ᳚ता । पुनः᳚ । यतः᳚ । ऊं॒ इति᳚ । आय᳚न् । तत् । उत् । ई॒युः॒ । आ॒॑विश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोसमूहेपणिभिरसुरैरपहृतेसति पणीनांस्थानं सरमाख्ययादेवशुन्याज्ञात्वा ब्रह्मणस्पतिनासृष्टा अङ्गिरसस्तत् स्थानंप्राप्य गोसमूहं पणिभिर्निर्मितामायाश्चदृष्ट्वा असुरनिवासस्थानं स्वहस्तोद्भू तेनाग्निनादग्ध्वा प्रत्यागच्छन् तदेतत् द्वृचेनोच्यते अभिनक्षन्तः अभितोगच्छन्तोयेङ्गिरसः तंनिधि गोसमूहरूपं निधानं धनं परममुत्कृष्टं पणानां तृतीयार्थेषष्ठी पणिभिः गुहागुहायां हितंनिहितं स्था- पितं अभ्यानशुः अभिलक्ष्यानशिरे प्राप्तवन्तः विद्वांसोभिज्ञास्तेङ्गिरसः अनृताअनृतानिअसुरैः कृता मायाः प्रतिचक्ष्यदृष्ट्वा आविशं आवेष्टुंप्रवेष्टुंयतउयतएव स्थानादायन अच्छगन् तत्स्थानं पुनरुदीयुः उदगच्छन् उत्कर्षेणप्राप्ताः ॥ ६ ॥

2.24.7
ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ᳚ता॒ पुन॒रात॒ आ त᳚स्थुः क॒वयो᳚ म॒हस्प॒थः ।
ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म᳚नि॒ नकि॒ः षो अ॒स्त्यर᳚णो ज॒हुर्हि तम् ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑वा᳚नः । प्र॒ति॒॑चक्ष्य᳚ । अनृ᳚ता । पुनः᳚ । आ । अतः᳚ । आ । त॒स्थुः॒ । क॒वयः᳚ । म॒हः । प॒थः ।
ते । बा॒हु॑भ्या᳚म् । ध॒मि॒तम् । अ॒ग्निम् । अश्म᳚नि । नकिः᳚ । सः । अ॒स्ति॒ । अर᳚णः । ज॒हुः । हि । तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतावानः ऋतमितिसत्यनामधेयं तद्वन्तः कवयः क्रान्तदर्शिनः सर्वज्ञाअङ्गिरसः अनृताअनृता- निप्रतिचक्ष्यपूर्वोक्तप्रकारेणदृष्ट्वाअतः अस्मात् स्थानात् पुनराजिगमिषवः महस्पथोमहतोमार्गान् प्रतिआतस्थुः अवतस्थिरे अवतिष्ठमानाश्चते बाहुभ्यांहस्ताभ्यांधमितंमन्थनेनोत्पादितं प्रज्वालितं तमग्निंअश्मनिपणीनांनिवासभूतेशिलोच्च्येजहुर्हि दग्धुंत्यक्तवन्तः खलु अरणः अरमयितादाहेनदुःख- कारीसोग्निः पूर्वंतत्रनकिरस्तिनविद्यते अविद्यमानमग्निंस्वसामर्थ्यादुत्पाद्यतत्रप्रचिक्षिपुरित्यर्थः ॥ ७ ॥

2.24.8
ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म᳚ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद᳚श्नोति॒ धन्व᳚ना ।
तस्य᳚ सा॒ध्वीरिष᳚वो॒ याभि॒रस्य᳚ति नृ॒चक्ष᳚सो दृ॒शये॒ कर्ण᳚योनयः ॥
▶ पदपाठः (Word-by-word)
ऋ॒त॑ज्ये᳚न । क्षि॒प्रेण᳚ । ब्रह्म᳚णः । पतिः᳚ । यत्र᳚ । वष्टि᳚ । प्र । तत् । अ॒श्नो॒ति॒ । धन्व᳚ना ।
तस्य᳚ । सा॒ध्वीः । इष᳚वः । याभिः᳚ । अस्य᳚ति । नृ॒॑चक्ष᳚सः । दृ॒शये᳚ । कर्ण᳚॑योनयः ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऋतज्येन ऋतंसत्यमेवज्यायस्यतेनक्षिप्रण इषूणांक्षेपकेणधन्वनाधारणभूतेनधनुषायः ब्रह्मणस्प- तिः ब्रह्मणोमन्त्रस्यपालयितादेवः यत्रयस्मिन्विषयेवष्टिकामयतेतत्प्राश्नोति प्रकर्षेणव्याप्नोति अश्नोते र्व्यत्ययेनपरस्मैपदम् तस्यधनुषः साध्वीः साधिकास्ताइपवोभवन्ति याभिरिषुभिः ब्रह्मणस्पतिरस्य- ति राक्षसादीन् क्षिपति कीद्रुश्यस्ताः न्रुचक्षसः नॄन्पश्यतः उपलक्षणमेतत् सर्वज्ञस्यब्रह्मणस्पतेः दृशये दर्शनायज्ञानायजाताः कर्णयोनयः श्रोत्रेन्द्रियेणग्राह्यमन्त्रपूताआकर्णकृष्टावाबाणाः ब्रह्मणस्पतिर्मन्त्रैरे वसर्वंसाधयतीतिभावः ॥ ८ ॥

2.24.9
स सं᳚न॒यः स वि᳚न॒यः पु॒रोहि᳚त॒ः स सुष्टु᳚त॒ः स यु॒धि ब्रह्म᳚ण॒स्पति᳚ः ।
चा॒क्ष्मो यद्वाजं॒ भर᳚ते म॒ती धनादित्सूर्य᳚स्तपति तप्य॒तुर्वृथा᳚ ॥
▶ पदपाठः (Word-by-word)
सः । स॒म्॑न॒यः । सः । वि॒॑न॒यः । पु॒रः॑हि᳚तः । सः । सु॑स्तु᳚तः । सः । यु॒धि । ब्रह्म᳚णः । पतिः᳚ ।
चा॒क्ष्मः । यत् । वाज᳚म् । भर᳚ते । म॒ती । धना᳚ । आत् । इत् । सूर्यः᳚ । त॒प॒ति॒ । त॒प्य॒तुः । वृथा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुरोहितोदेवैः पुरतोत्रस्थापितः सब्रह्मणस्पतिः संनयः विश्लिष्टानांमन्त्रैःसंगमयिताभवति विनयः संगतानांविविधंनेतापृथक्कर्तापिसएव तथा ससुष्टुतः शोभनंस्तोतृभिःस्तुतश्च भवति तथायुधिसंग्रामे सस्तोतॄणामनुग्रहाय प्रादुर्भवतीतिशेषः यद्यदाचाक्ष्मः चष्टेः क्षमतेर्वासर्वस्यद्रष्टासर्वसहोवा ब्रह्मणा स्पतिनादत्तैरन्नैर्धनैश्चयज्ञस्यसिद्धत्वात्स्वयंकेवलंहवींषिभुञ्चानएववर्ततइत्यर्थः ॥ ९ ॥

2.24.10
वि॒भु प्र॒भु प्र᳚थ॒मं मे॒हना᳚वतो॒ बृह॒स्पते᳚ः सुवि॒दत्रा᳚णि॒ राध्या᳚ ।
इ॒मा सा॒तानि᳚ वे॒न्यस्य᳚ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुञ्ज॒ते विशः᳚ ॥
▶ पदपाठः (Word-by-word)
वि॒॑भु । प्र॒॑भु । प्र॒थ॒मम् । मे॒हना᳚॑वतः । बृह॒स्पतेः᳚ । सु॒॑वि॒दत्रा᳚णि । राध्या᳚ ।
इ॒मा । सा॒तानि᳚ । वे॒न्यस्य᳚ । वा॒जिनः᳚ । येन᳚ । जनाः᳚ । उ॒भये᳚ । भु॒ञ्ज॒ते । विशः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विभुविभूनिव्याप्तानि प्रभुप्रभूणिप्रौढानि प्रथमं प्रथमानिमुख्यानि एवंभूतानिमेहनावतः वर्षण वतोवृष्टिप्रदस्यबृहस्पतेः बृहतोमन्त्रस्यपालयितुः संबन्धीनिसुविदत्राणि विदॢलाभे सुविदेः कत्रन् सुष्ठुलब्धव्यानि सुविदत्रंधनंभवतीतियास्कः । राध्याराध्यानिसम्यक् साधनीयानिप्राप्तव्यानीतिया- वत् इमासातानीमानिधनानिवेन्यस्यकमनीयस्यवाजिनो न्नवतोबृहस्पतेः तृतीयार्थे षष्ठी बृहस्पति नादत्तानियेनधनेनउभयेउभयविधाजनाः स्तोतारोयजमानाश्चदेवामनुष्याश्चवा विशोनिविष्टाः स- न्तोभुञ्चते भोगान् लभन्ते तत्सर्वंबृहस्पतिनादत्तमित्यर्थः ॥ १० ॥

2.24.11
यो॑व᳚रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु᳚ र॒ण्वः शव᳚सा व॒वक्षि᳚थ ।
स दे॒वो दे॒वान्प्रति᳚ पप्रथे पृ॒थु विश्वेदु॒ ता प᳚रि॒भूर्ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । अव᳚रे । वृ॒जने᳚ । वि॒श्व॑था᳚ । वि॒॑भुः । म॒हाम् । ऊं॒ इति᳚ । र॒ण्वः । शव᳚सा । व॒वक्षि᳚थ ।
सः । दे॒वः । दे॒वान् । प्रति᳚ । प॒प्र॒थे॒ । पृ॒थु । विश्वा᳚ । इत् । ऊं॒ इति᳚ । ता । प॒रि॒॑भूः । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वथासर्वप्रकारेणविभुर्व्याप्तः रण्वोरमयिता स्तोतव्योवायोब्रह्मणस्पतिः अवरेनिकृष्टे वृजनेवर्ज नहेतुभूतेबलेवर्तमानंदुर्बलमितियावत् महामुमहान्तंच छान्दसोवर्णलोपः उभयविधंस्तोतारंशवसा- आत्मीयेनबलेन ववक्षिथ वोढुमिच्छति सर्वदावहतीतियावत् वहतेःसन्नन्तस्यलिट्येतद्रूपं पुरुषव्यत्य- यः सदेवोदानादिगुणयुक्तः देवान्प्रतिसर्वेषांदेवानांप्रतिनिधिः सन् पृथुपप्रथे अत्यन्तंप्रथते यशसावि- स्तीर्णोभवतीतियावत् यस्मादेवंतस्मात् विश्वेदुसर्वाण्येवतातानिसर्वाणि भूतजातानिपरिभूः परि- भवन् अभिभवन् वर्ततइतिशेषः ॥ ११ ॥

2.24.12
विश्वं᳚ स॒त्यं म᳚घवाना यु॒वोरिदाप᳚श्च॒न प्र मि᳚नन्ति व्र॒तं वा᳚म् ।
अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नो॑न्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ॥
▶ पदपाठः (Word-by-word)
विश्व᳚म् । स॒त्यम् । म॒घ॒॑वा॒ना॒ । यु॒वोः । इत् । आपः᳚ । च॒न । प्र । मि॒न॒न्ति॒ । व्र॒तम् । वा॒म् ।
अच्छ᳚ । इ॒न्द्रा॒ब्र॒ह्म॒ण॒स्प॒ती॒ इति᳚ । ह॒विः । नः॒ । अन्न᳚म् । युजा᳚॑इव । वा॒जिना᳚ । जि॒गा॒त॒म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेमघवाना मघमितिधननाम तद्वन्ताविन्द्राब्रह्मणस्पती युवोरित् युवयोरेव विश्वंसर्वं स्तोत्रं सत्यं यथार्थं स्तुत्यायद्यद्गुणजातं प्रतिपाद्यते तत्सर्वंयुवयोर्विद्यमानमेव नत्वारोपितमित्यर्थः तथाचनेत्ये तत्पदद्लयसमुदायः ऎकपद्यंत्वाध्यापकसाम्प्रदायिकं यद्येवशब्दस्यपूर्वपदेन आपश्चआपोपिउपलक्षण मेतत् एतदुपलक्षितानिसर्वाण्यपिभूतानिवांयुवयोर्व्रतं कर्मनप्रमिनन्तिनहिंसन्ति मीङ् हिंसायाम् क्रैयादिकः मीनातेर्निगमइतिह्रस्वत्वम् हेइन्द्राब्रह्मणस्पती नोस्माकंहविरच्छाभिमुख्येन जिगातंगच्छ तम् आगच्छतमितियावत् जिगातिर्गतिकर्मा जौहोत्यादिकः तत्रदृष्टान्तः—युजेववाजिना युजारथेनि युक्तौवाजिनौ वेजनवन्तावश्वौअन्नंघासं प्रतियथास्वयमेवशीघ्रंगछतस्तद्वत् शीघ्रमागच्छतमित्यर्थः युजेवेत्यत्रसुपांसुलुगितिप्रथमाद्विवचनस्याकारः तृतीयायांहिसावेकाचइतिविभक्तेरुदात्तत्वम् ॥ १२ ॥

2.24.13
उ॒ताशि᳚ष्ठा॒ अनु᳚ शृण्वन्ति॒ वह्न᳚यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ ।
वी॒ळु॒द्वेषा॒ अनु॒ वश᳚ ऋ॒णमा᳚द॒दिः स ह᳚ वा॒जी स᳚मि॒थे ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
उ॒त । आशि᳚ष्ठाः । अनु᳚ । शृ॒ण्व॒न्ति॒ । वह्न᳚यः । स॒भेयः᳚ । विप्रः᳚ । भ॒र॒ते॒ । म॒ती । धना᳚ ।
वी॒ळु॒॑द्वेषाः᳚ । अनु᳚ । वशा᳚ । ऋ॒णम् । आ॒॑द॒दिः । सः । ह॒ । वा॒जी । स॒म्॑इ॒थे । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उतअपिचआशिष्ठाः आशुतराः शीघ्रगामिनोवह्नयः अश्वनामैतत् वोढारोब्रह्मणस्पतेरश्वाअनुश्रृ ण्वन्ति अस्माभिः कृतंस्तोत्रं अनुक्रमेणश्रृण्वन्ति यद्वा ब्रह्मणस्पतिना कृतमनुशासनं शृण्वन्ति अतस्ते तमस्मदीयंयज्ञं प्रापयन्त्वितिशेषः सभेयः सभायांसाधुः ढश्छन्दसीतिढः विप्रोमेधावीअध्वर्युर्होतावा मतीमत्यामननीयेनस्तोत्रेण सुपांसुलुगितिपूर्वसवर्णदीर्घः धनाहविर्लक्षणानिधनानितस्मै ब्रह्मणस्प- तये भरतेबिभर्ति संपादयतीतियावत् यद्वा स्तोत्रेणधनानिभरते बिभर्तिपोषयति अतोवीळृद्वेषाःवी- छन् दृढान् प्रबलान् राक्षसादीन् द्वेष्टीति तादृशोब्रह्मणस्पतिः वशावशायागोः सुपांसुलुगितिषष्ठ्या- लुक् ऋत्यकइतिप्रकृतिभावः ऋणंअस्माभिर्यज्वभिः प्रदेयं अवदानात्मकं अनुअनुक्रमेणाददिरादाताभवत्वितिशेषः अवदानस्य ऋणत्वंचतैत्तिरीयेत्रिभिरृणवाजायतेब्रह्मचर्येण ऋषिभ्यइत्यादिनास्पष्टमान्त्रातम् । यद्वा अनुरानुगुण्ये वशावशस्यकामस्याभिलाषस्यानुगुणं आदा- ताभवत्वितियोज्यम् हशब्दःप्रसिद्धौ सखलु ब्रह्मणस्पतिः समिथे संयन्ति सङच्छन्तेस्मिन्नाहुतिभिर्दे- वाइतिसमिथोयज्ञः तस्मिन्वाजी अन्नवान् तस्माद्धविषआदाताभव त्वित्यर्थः ॥ १३ ॥

2.24.14
ब्रह्म᳚ण॒स्पते᳚रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः ।
यो गा उ॒दाज॒त्स दि॒वे वि चा᳚भजन्म॒हीव᳚ री॒तिः शव᳚सासर॒त्पृथ᳚क् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । पतेः᳚ । अ॒भ॒व॒त् । य॒था॒॑व॒शम् । स॒त्यः । म॒न्युः । महि᳚ । कर्म᳚ । क॒रि॒ष्य॒तः ।
यः । गाः । उ॒त्॑आज᳚त् । सः । दि॒वे । वि । च॒ । अ॒भ॒ज॒त् । म॒ही॑इ᳚व । री॒तिः । शव᳚सा । अ॒स॒र॒त् । पृथ᳚क् ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिमहत्कर्मकरिष्यतः ब्रह्मणस्पतेः मन्युः मननसाधनोमन्त्रः क्रोधोवायथावशं यथाकामंसत्यः अवितथोभवत् सयथाकामयतेतथाकरोतीत्यर्थः योब्रह्मणस्पतिः पणिभिरपहृतागाः उदाजत् उदग- मयत् गुहायानिरगमयदित्यर्थः सब्रह्मणस्पतिः दिवेद्युलोकायतत्रत्येभ्योदेवेभ्यइत्यर्थः व्यभजच्च तागाविभक्ताश्चाकरोत् सचगोसमूहः महीवरीतिः महतीस्तुतिरिव रीङ्स्रवणेयथागंगादीनांस्रोतः विभक्तंसत् न्म्नदेशाभिमूकंप्रसरति तथाशवसाआत्मीयेनबलेन तत्तदेवगृहंपृथक् विभिन्नंअसरत् अग- च्छत् ॥ १४ ॥

2.24.15
ब्रह्म᳚णस्पते सु॒यम᳚स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॒᳚ वय᳚स्वतः ।
वी॒रेषु᳚ वी॒रा{4} उप᳚ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म᳚णा॒ वेषि᳚ मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । प॒ते॒ । सु॒॑यम᳚स्य । वि॒श्वहा᳚ । रा॒यः । स्या॒म॒ । र॒थ्यः᳚ । वय᳚स्वतः ।
वी॒रेषु᳚ । वी॒रान् । उप᳚ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा᳚नः । ब्रह्म᳚णा । वेषि᳚ । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते मन्त्राधिपते सुयमस्यसुष्ठुनियन्तव्यस्य वयस्वतोन्नयुक्तस्य रायोधनस्यविश्वहावि- श्वोषुसर्वेष्वहस्सुरथ्योधिपतयः स्यामभूयास्म रथाएषांसन्तीतिरथ्यः छन्दसीवनिपावितिमत्वर्थी- योयः ईकारः अपिच नोस्माकंवीरेषुवीर्याज्जातेष्वस्मदीयेषुपुत्रेषुवीरान् पुत्रान् त्वंउपपृंग्धि सं- पृक्तान्कुरु उत्पादय पृचीसंपर्के रौधादिकः वयंपौत्रानपिलभेमहीतियावत् यद्यतः ईशानः सर्व- स्येश्वरस्त्वं ब्रह्मणा अन्ननामैतत् हविर्लक्षणेनान्नेनसह मेहवम् मदीयंस्तुतिलक्षणमाह्वानं वेषि कामयसे वीगतिप्रजनकान्त्यशनखादनेषु अतोमयोक्तंकुर्वित्यर्थः ॥ १५ ॥

2.24.16
ब्रह्म᳚णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य᳚ बोधि॒ तन᳚यं च जिन्व ।
विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । प॒ते॒ । त्वम् । अ॒स्य । य॒न्ता । सु॒॑उक्तस्य᳚ । बो॒धि॒ । तन᳚यम् । च॒ । जि॒न्व॒ ।
विश्व᳚म् । तत् । भ॒द्रम् । यत् । अव᳚न्ति । दे॒वाः । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते यन्तासर्वस्यजगतोनियन्तात्वं अस्यसूक्तस्यइदंसूक्तं क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रदानत्वाच्चतुर्थ्यर्थेषष्ठि बोधि बुध्यस्व बुध्वातनयंपुत्रंचास्मभ्यं जिन्व प्रेरय जिविःप्रीणनार्थः अत्र प्रेरणेवर्तते धातूनामनेकार्थत्वात् यद्भद्रंकल्याणं देवाःसर्वे अवन्तिरक्षन्ति विश्वं सर्वं तद्भद्रंचजिन्वे तिशेषः वयंचसुवीराः शोभनैः वीरैः पुत्रपौत्रादिभिरुपेताःसन्तः बृहत्प्रौढं स्तोत्रं विदथेविदन्ति यष्टव्यतयास्मिन्देवान् जानन्तीतिविदथोयज्ञः तस्मिन्वदेमब्रूयाम ॥ १६ ॥

इन्धानइतिपञ्चर्चंतृतीयंसूक्तं गार्त्समदं जागतंब्राह्मणस्पत्यम् तथाचानुक्रान्तम्—इन्धानःपञ्चजा- गतन्त्विति लैङ्गिकोविनियोगः ।