श्रवणम्

2.24.6
अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प᳚णी॒नां प᳚र॒मं गुहा᳚ हि॒तम् ।
ते वि॒द्वांसः᳚ प्रति॒चक्ष्यानृ᳚ता॒ पुन॒र्यत᳚ उ॒ आय॒न्तदुदी᳚युरा॒विश᳚म् ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑नक्ष᳚न्तः । अ॒भि । ये । तम् । आ॒न॒शुः । नि॒॑धिम् । प॒णी॒नाम् । प॒र॒मम् । गुहा᳚ । हि॒तम् ।
ते । वि॒द्वांसः᳚ । प्र॒ति॒॑चक्ष्य᳚ । अनृ᳚ता । पुनः᳚ । यतः᳚ । ऊं॒ इति᳚ । आय᳚न् । तत् । उत् । ई॒युः॒ । आ॒॑विश᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

गोसमूहेपणिभिरसुरैरपहृतेसति पणीनांस्थानं सरमाख्ययादेवशुन्याज्ञात्वा ब्रह्मणस्पतिनासृष्टा अङ्गिरसस्तत् स्थानंप्राप्य गोसमूहं पणिभिर्निर्मितामायाश्चदृष्ट्वा असुरनिवासस्थानं स्वहस्तोद्भू तेनाग्निनादग्ध्वा प्रत्यागच्छन् तदेतत् द्वृचेनोच्यते अभिनक्षन्तः अभितोगच्छन्तोयेङ्गिरसः तंनिधि गोसमूहरूपं निधानं धनं परममुत्कृष्टं पणानां तृतीयार्थेषष्ठी पणिभिः गुहागुहायां हितंनिहितं स्था- पितं अभ्यानशुः अभिलक्ष्यानशिरे प्राप्तवन्तः विद्वांसोभिज्ञास्तेङ्गिरसः अनृताअनृतानिअसुरैः कृता मायाः प्रतिचक्ष्यदृष्ट्वा आविशं आवेष्टुंप्रवेष्टुंयतउयतएव स्थानादायन अच्छगन् तत्स्थानं पुनरुदीयुः उदगच्छन् उत्कर्षेणप्राप्ताः ॥ ६ ॥