श्रवणम्

2.24.5
सना॒ ता का चि॒द्भुव᳚ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः ।
अय᳚तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार᳚ व॒युना॒ ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
सना᳚ । ता । का । चि॒त् । भुव᳚ना । भवी᳚त्वा । मा॒त्॑भिः । श॒रत्॑भिः᳚ । दुरः᳚ । व॒र॒न्त॒ । वः॒ ।
अय᳚तन्ता । च॒र॒तः॒ । अ॒न्यत्॑अ᳚न्यत् । इत् । या । च॒कार᳚ । व॒युना᳚ । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेऋत्विग्यजमानाः वोयुष्मदर्थंसना सनातनानि ता तानिकाचित् कानिचित् ब्रह्मणस्पतेः प्रज्ञा- नानि भुवनाभुवनानां सुपांसुलुगितिषष्ठ्यालुक् भुवनानामुदकानां भवीत्वा भाव्यानां दुरोद्वाराणि माद्भिः मासैः पद्दन्नित्यादिनामासशब्दस्यमासूभावः स्वतवस्मासोषसांचइष्यते इतितत्वम् शरद्भिः संवत्सरैश्चवरंत विवृण्वन्ति तत्कालेवर्षणार्थंमेघद्वाराण्युद्घाटयन्तीत्यर्थः कानिपुनस्तानि ब्रह्मणस्पति र्यायानि वयुना ज्ञाननामैतत् ज्ञानानिमन्त्रविषयाणिचकार कृतवान् तदनन्तरं अयतन्ता अयतमानौ अप्रयत्नौ उभौलोकौद्यौश्च पृथिवीच अन्यदन्यदित् अन्यदन्यदेवपृथिवीवृष्टिजलं दिव्यमुदकंद्यौः उदक कार्यं हविर्लक्षणं पार्थिवमन्नं एवं परस्परव्यतिहारेणचरतोभुञ्चाते चरगतिभक्षणयोः ॥ ५ ॥