श्रवणम्

2.24.11
यो॑व᳚रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु᳚ र॒ण्वः शव᳚सा व॒वक्षि᳚थ ।
स दे॒वो दे॒वान्प्रति᳚ पप्रथे पृ॒थु विश्वेदु॒ ता प᳚रि॒भूर्ब्रह्म᳚ण॒स्पति᳚ः ॥
▶ पदपाठः (Word-by-word)
यः । अव᳚रे । वृ॒जने᳚ । वि॒श्व॑था᳚ । वि॒॑भुः । म॒हाम् । ऊं॒ इति᳚ । र॒ण्वः । शव᳚सा । व॒वक्षि᳚थ ।
सः । दे॒वः । दे॒वान् । प्रति᳚ । प॒प्र॒थे॒ । पृ॒थु । विश्वा᳚ । इत् । ऊं॒ इति᳚ । ता । प॒रि॒॑भूः । ब्रह्म᳚णः । पतिः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

विश्वथासर्वप्रकारेणविभुर्व्याप्तः रण्वोरमयिता स्तोतव्योवायोब्रह्मणस्पतिः अवरेनिकृष्टे वृजनेवर्ज नहेतुभूतेबलेवर्तमानंदुर्बलमितियावत् महामुमहान्तंच छान्दसोवर्णलोपः उभयविधंस्तोतारंशवसा- आत्मीयेनबलेन ववक्षिथ वोढुमिच्छति सर्वदावहतीतियावत् वहतेःसन्नन्तस्यलिट्येतद्रूपं पुरुषव्यत्य- यः सदेवोदानादिगुणयुक्तः देवान्प्रतिसर्वेषांदेवानांप्रतिनिधिः सन् पृथुपप्रथे अत्यन्तंप्रथते यशसावि- स्तीर्णोभवतीतियावत् यस्मादेवंतस्मात् विश्वेदुसर्वाण्येवतातानिसर्वाणि भूतजातानिपरिभूः परि- भवन् अभिभवन् वर्ततइतिशेषः ॥ ११ ॥