अश्मा᳚स्यमव॒तं ब्रह्म᳚ण॒स्पति॒र्मधु᳚धारम॒भि यमोज॒सातृ᳚णत् ।
तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि᳚सिचु॒रुत्स᳚मु॒द्रिण᳚म् ॥
तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि᳚सिचु॒रुत्स᳚मु॒द्रिण᳚म् ॥
पदपाठः (Word-by-word)
अश्म᳚॑आस्यम् । अ॒व॒तम् । ब्रह्म᳚णः । पतिः᳚ । मधु᳚॑धारम् । अ॒भि । यम् । ओज᳚सा । अतृ᳚णत् ।
तम् । ए॒व । विश्वे᳚ । प॒पि॒रे॒ । स्वः॒॑दृशः᳚ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स᳚म् । उ॒द्रिण᳚म् ॥
तम् । ए॒व । विश्वे᳚ । प॒पि॒रे॒ । स्वः॒॑दृशः᳚ । ब॒हु । सा॒कम् । सि॒सि॒चुः॒ । उत्स᳚म् । उ॒द्रिण᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
ब्रह्मणस्पतिः ब्रह्मणोमन्त्रस्यपतिः पालयितादेवः अश्मास्यं अश्मवदृढतरास्यम् यास्कस्त्वाह—अशनवन्तमास्यन्दनवन्तमिति । व्यापनवन्तम् आसेचनवन्तमितितस्यार्थः मधुधारं मधुर्मादयित्री उदकधारायस्यतादृशम् अवतंअवस्तात्ततंविस्तृतं यंमेघंओजसाबलेनअभ्यतृण त् उतृदिर् हिंसानाद रयोः अहिंसीत् वर्शणार्थवधीदित्यर्थः तमेवमेघंविश्वेसर्वेस्वर्दृशः स्वरादित्यः तस्यसंबन्धिनोद्रष्टारो रश्मयः पपिरे घर्मकालेपिबन्ति मेघेनवृष्टस्योदकस्यपानात्तमेवपिबन्तीत्युच्यते तेचरश्मयोवर्षासु उत्सं उत्सेचनवन्तंउद्रिणंउदकवन्तंमेघंसाकंसहयुगपदेवबहुसिसिचुः घर्मकालेयत्पीतं ततोपिबहुतरं सहस्रगुणितं सिञ्चन्तीत्यर्थः ॥ ४ ॥