द्वितीयं मण्डलम् - सूक्तम् 14

12 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: त्रिष्टुप्

सूक्तम् 2.14 - सम्पूर्णम्

1 / 12
ऋक्: 2.14.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (12)
2.14.1
अध्व᳚र्यवो॒ भर॒तेन्द्रा᳚य॒ सोम॒माम᳚त्रेभिः सिञ्चता॒ मद्य॒मन्ध᳚ः ।
का॒मी हि वी॒रः सद᳚मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व᳚ष्टि ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । भर᳚त । इन्द्रा᳚य । सोम᳚म् । आ । अम᳚त्रेभिः । सि॒ञ्च॒त॒ । मद्य᳚म् । अन्धः᳚ ।
का॒मी । हि । वी॒रः । सद᳚म् । अ॒स्य॒ । पी॒तिम् । जु॒होत᳚ । वृष्णे᳚ । तत् । इत् । ए॒षः । व॒ष्टि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

गृत्समदोब्रूते अध्वर्यवः अध्वरस्यनेतारः अध्वरंयजमानायेच्छन्तः कव्यध्व्रपृतनस्यर्चिलोपइत्य- कारलोपः अत्रयास्कः—अध्वर्युरध्वरयुध्वरंयुनक्त्यध्वरस्यनेताध्वरंकामयतइति । हेअध्वर्यवः इन्द्रा- यदेवायसोमहविर्धानादुत्तरवेदिंप्रतिभरतहरत आमन्त्रितस्याविद्यमानत्वादनिधातः हृत्वाअमत्रेभिः अमासहअदंत्यत्रहोत्रादयइतिअमत्राणिचमसाः तैः मद्यंमदकरमन्धः सोमलक्षणमन्नंआसिञ्चतअग्नौ प्रक्षिपत अत्रयास्कः—आसिञ्चतमत्रैर्मदनीयमन्धोमत्रंपात्रममाअस्मिन्नदन्तीति । वीरःसइन्द्रः अस्य सोमस्यपीतिंपानंप्रतिसदसदैवकामीहि कामयमानोहि तस्मात् वृष्णोवर्षित्रे इन्द्रायसोमंजुहोतजुहुत हुदानादनयोः लोटि तप्तनप्तनथनाश्चेतिवतादेशः एषइन्द्रः तदित् तदेवसोमद्रव्यंवष्टि कामयते ॥ १ ॥

2.14.2
अध्व᳚र्यवो॒ यो अ॒पो व᳚व्रि॒वांसं᳚ वृ॒त्रं ज॒घाना॒शन्ये᳚व वृ॒क्षम् ।
तस्मा᳚ ए॒तं भ᳚रत तद्व॒शाय{4}᳚ ए॒ष इन्द्रो᳚ अर्हति पी॒तिम᳚स्य ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । अ॒पः । व॒व्रि॒॑वांस᳚म् । वृ॒त्रम् । ज॒घान᳚ । अ॒शन्या᳚॑इव । वृ॒क्षम् ।
तस्मै᳚ । ए॒तम् । भ॒र॒त॒ । त॒त्॑व॒शाय᳚ । ए॒षः । इन्द्रः᳚ । अ॒र्ह॒ति॒ । पी॒तिम् । अ॒स्य॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः अपउदकानिवव्रिवांसंआवृत्यस्थितंवृत्रं वृणोत्याकाशमितिवृत्रोमेघः तंमेघं- वज्रेणजघानहतवान् अशन्येव यथाअशन्यावैद्युताग्निनावृक्षंदहतितद्वत् तस्मैतद्वशायसोमकामाय- तस्माइन्द्रायएतंसोमंभरत उत्तरवोदिंप्रतिहरत एषइन्द्रः अस्यसोमस्यपीतिंपानमर्हति ॥ २ ॥

2.14.3
अध्व᳚र्यवो॒ यो दृभी᳚कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः ।
तस्मा᳚ ए॒तम॒न्तरि᳚क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु᳚त॒ जूर्न वस्त्रै᳚ः ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । दृभी᳚कम् । ज॒घान᳚ । यः । गाः । उ॒त्॑आज᳚त् । अप᳚ । हि । व॒लम् । वरिति॒ वः ।
तस्मै᳚ । ए॒तम् । अ॒न्तरि᳚क्षे । न । वात᳚म् । इन्द्र᳚म् । सोमैः॒ । आ । ऊ॒र्णु॒त॒ । जूः । न । वस्त्रैः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः द्रुभीकंसर्वान् विदारयति भियंकरोतीतिदृभीकोनामासुरः तमसुरंजघान यश्च वलासुरेणनिरुद्धागाउदाजत् निरगमयत् ततश्चतमेवव्लमसुरंअपवः अपावृणोत् हिंसितवानित्यर्थःहि प्रसिद्धः वृणोतेर्लुङि मन्त्रेघसेत्यादिनाच्लेर्लुक् हल्ङ्यादिनातिपोलोपः तस्माइन्द्रायएतं सोमं अन्तरि- क्षेवातंन वातमिव धाराफ़्भिर्व्याप्तंकुरुत तदेवाह सोमैरिन्द्रंआऊर्णुत सर्वतआच्छादयत ऊर्णुञ् आ- च्छादने आदादिकः लोटिरूपम् तत्रदृष्टान्तः—जूःन जीर्णोयथावस्त्रैरङ्गमाच्छादयति तद्वत् ॥ ३ ॥

2.14.4
अध्व᳚र्यवो॒ य उर᳚णं ज॒घान॒ नव᳚ च॒ख्वांसं᳚ नव॒तिं च᳚ बा॒हून् ।
यो अर्बु᳚द॒मव᳚ नी॒चा ब᳚बा॒धे तमिन्द्रं॒ सोम᳚स्य भृ॒थे हि᳚नोत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । उर᳚णम् । ज॒घान᳚ । नव᳚ । च॒ख्वांस᳚म् । न॒व॒तिम् । च॒ । बा॒हून् ।
यः । अर्बु᳚दम् । अव᳚ । नी॒चा । ब॒बा॒धे । तम् । इन्द्र᳚म् । सोम᳚स्य । भृ॒थे । हि॒नो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः नवनवतिंचएकोनशतंबाहून् चख्वांसं चष्टेरिदंरूपं यद्वा खनतेःक्वसौरूपं जने- लोपः छान्दसंरूपं सर्वस्यदर्शयन्तम यद्वा आत्मनोदेहेनिखातवन्तं उरणं एतन्नामकमसुरं जघान यश्च- अर्बुदं एतन्नामकमसुरंचनीचाधोमुखंकृत्वाअवबबाधेतमेनमिन्द्रंसोद्मस्यभृथेसोमंबिभ्रति पात्रेहिनो- तवर्धयत यद्वा सोमस्यभृथेभरणेसंपादनेसतिहिनोत स्तोत्रैःप्रीणयत हिगतिवृद्ध्योः स्वादिः ॥ ४ ॥

2.14.5
अध्व᳚र्यवो॒ यः स्वश्नं᳚ ज॒घान॒ यः शुष्ण᳚म॒शुषं॒ यो व्यं᳚सम् ।
यः पिप्रुं॒ नमु᳚चिं॒ यो रु᳚धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध᳚सो जुहोत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । सु । अश्न᳚म् । ज॒घान᳚ । यः । शुष्ण᳚म् । अ॒शुष᳚म् । यः । वि॑अं᳚सम् ।
यः । पिप्रु᳚म् । नमु᳚चिम् । यः । रु॒धि॒॑क्राम् । तस्मै᳚ । इन्द्रा᳚य । अन्ध᳚सः । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः अश्नंअश्नाति भक्षयति प्राणिजातमिति यद्वा अश्रुते स्वतेजसासर्वं व्याप्नोतीति- अश्नः कश्चिदसुरः तमसुरंसुसुष्ठुजघान यःअशुषंकेनाप्यशोषणीयंशुष्ण मसुरं यश्च तं असुरंव्यंसंअंसही- नंक्रुत्वाजघान यश्चपिप्रुंतेजसाजगद्भ्याप्यवर्तमानंएतन्नामकमसुरंनमुचिंचासुरं जघान यश्च तैत्तिरीय- के—नमुचिमासुरंनालभतेतिप्रकृत्यफेनेनशिरउदवर्तयदित्यन्तेनवाक्यसन्दर्भेणनमुचिवधःप्रपञ्चितः । तथामन्त्रश्च—अपांफेनेननमुचेः शिरइन्द्रोदवर्तयइति । रुधिक्रांएतन्नामकमसुरंयश्चजघानतस्माइन्द्रा यअन्धसोहविर्लक्षणन्यन्नानिजुहोत जुहुत ॥ ५ ॥

2.14.6
अध्व᳚र्यवो॒ यः श॒तं शम्ब᳚रस्य॒ पुरो᳚ बि॒भेदाश्म᳚नेव पू॒र्वीः ।
यो व॒र्चिनः᳚ श॒तमिन्द्र᳚ः स॒हस्र᳚म॒पाव᳚प॒द्भर᳚ता॒ सोम᳚मस्मै ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । श॒तम् । शम्ब᳚रस्य । पुरः᳚ । बि॒भेद᳚ । अश्म᳚ना॑इव । पू॒र्वीः ।
यः । व॒र्चिनः᳚ । श॒तम् । इन्द्रः᳚ । स॒हस्र᳚म् । अ॒प॒॑अव᳚पत् । भर᳚त । सोम᳚म् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः शंबरस्यमायाविनोसुरस्यपूर्वीः पुरातनीः शतंपुरः पुरीः अश्मनेवअश्मसदृशे- नवज्रेणबिभेद यश्चेन्द्रोवर्चिनः वर्चदीप्तौ गमेरिनिरितिविधीयमानइनिर्बहुलवचनादस्माद्भवति यद्वा नामैतत् तस्यासुरस्यशतंसहस्रंएतत्संख्याकानपरिमितान्वीरान्पुत्रान् अपावपत् युगपदेवभूम्यामपा- तयत् तथाचमन्त्रवर्णः—शतंवर्चिनःसहस्रंचसाकंहथोअप्रत्यसुरस्यवीरानिति । अस्मैइन्द्रायसोमं- भरत ॥ ६ ॥

2.14.7
अध्व᳚र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या᳚ उ॒पस्थे॑व᳚पज्जघ॒न्वान् ।
कुत्स᳚स्या॒योर᳚तिथि॒ग्वस्य᳚ वी॒रान्न्यावृ᳚ण॒ग्भर᳚ता॒ सोम᳚मस्मै ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । श॒तम् । आ । स॒हस्र᳚म् । भूम्याः᳚ । उ॒प॑स्थे᳚ । अव᳚पत् । ज॒घ॒न्वान् ।
कुत्स᳚स्य । आ॒योः । अ॒ति॒थि॒॑ग्वस्य᳚ । वी॒रान् । नि । अवृ᳚णक् । भर᳚त । सोम᳚म् । अ॒स्मै॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः आजघन्वान् पूर्वंशत्रून् हतवान् यइन्द्रः शतं सहस्रमसुरान् भूम्याउपस्थे उत्सङ्गेअव- पत् एकैकेनप्रकारेणापातयत् किञ्च यःकुत्सस्यएतन्नामकस्यराजर्षेः आयोः पौरूरवस्यराजर्षेः अति- थिग्वस्यदिवोदासस्य एतेषांत्रयाणांवीरानभिगन्तॄन् प्रतिद्वन्द्विनः शुष्णादीनसुरान् न्यावृणक् वृणा- क्तिर्हिंसाकर्मा अवधीत् तथाचमन्त्रवर्णः—त्वंकुत्संशुष्णहत्ये ष्वाविथारन्धयोतिथिग्वायशंबरमिति ।

2.14.8
अध्व᳚र्यवो॒ यन्न᳚रः का॒मया᳚ध्वे श्रु॒ष्टी वह᳚न्तो नशथा॒ तदिन्द्रे᳚ ।
गभ᳚स्तिपूतं भरत श्रु॒तायेन्द्रा᳚य॒ सोमं᳚ यज्यवो जुहोत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यत् । न॒रः॒ । क॒मया᳚ध्वे । श्रु॒ष्टी । वह᳚न्तः । न॒श॒थ॒ । तत् । इन्द्रे᳚ ।
गभ᳚स्ति॑पूतम् । भ॒र॒त॒ । श्रु॒ताय᳚ । इन्द्रा᳚य । सोम᳚म् । य॒ज्य॒वः॒ । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

नरः कर्मणांनेतारः हेअध्वर्यवः यदभिलषितमर्थंकामयाध्वे कामयतेर्लेट्यडागमः श्रुष्टी क्षिप्रं इन्द्रे- सोमवहन्तः प्रापन्तोयूयंतदभषितंफलंनशथप्राप्नुत श्रुतायलोकेप्रसिद्धायेन्द्रायगभस्तिपूतंहस्ताभ्यां-मार्जनदोहनादिभिःशोधितंसोमंभरत उत्तरवेदिंप्रतिहरत ततोयज्यवः यागंकुर्वाणाहेअध्वर्यवः आहृ- तंसोममिन्द्रायजुहोतजुहुत अग्नौप्रक्षिपत । ॥ ८ ॥

2.14.9 समानपद
अध्व᳚र्यव॒ः कर्त᳚ना श्रु॒ष्टिम᳚स्मै॒ वने॒ निपू᳚तं॒ वन॒ उन्न᳚यध्वम् ।
जु॒षा॒णो हस्त्य᳚म॒भि वा᳚वशे व॒ इन्द्रा᳚य॒ सोमं᳚ मदि॒रं जु᳚होत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । कर्त᳚न । श्रु॒ष्टिम् । अ॒स्मै॒ । वने᳚ । नि॑पू᳚तम् । वने᳚ । उत् । न॒य॒ध्व॒म् ।
जु॒षा॒णः । हस्त्य᳚म् । अ॒भि । वा॒व॒शे॒ । वः॒ । इन्द्रा᳚य । सोम᳚म् । म॒दि॒रम् । जु॒हो॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः अस्माइन्द्रायसोमंश्रुष्टिंसुखकरंकर्तनकुरुत कोतेर्लोटिबहुलंछ्दीतिविकरणस्यलुक् तप्त- नप्तनथनाश्चेतितनबादेशः आमन्त्रितस्याविद्यमानत्वान्ननिघातः किञ्च वनेसंभजनीयेवनेउदकेनिपूत- माप्यायनेनशोधितसोममुन्नयध्वंऊर्ध्वंनयत यद्वा वनेतद्विकारेचमसेनिपूतंदशापवित्रेणशोधितंसोमं वनेचम्से उन्नयध्वं जुषाणः प्रीयमाणः सइन्द्रः वोयुष्महस्त्यंहस्ताभ्यामभिषुतंसोमंअभिवावशे काम- यते वश्कान्तौ यङ्लुगन्तस्यलटिव्यत्ययेनात्मनेपदं लोपस्तआत्मनेपदेष्वितितलोपः मदिरंमदकरमि- मंसोमंइन्द्रायजुहोतन्द्रोद्देशेनाग्नौप्रक्षिपत ॥ ९ ॥

2.14.10 समानपद
अध्व᳚र्यव॒ः पय॒सोध॒र्यथा॒ गोः सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् ।
वेदा॒हम᳚स्य॒ निभृ᳚तं म ए॒तद्दित्स᳚न्तं॒ भूयो᳚ यज॒तश्चि᳚केत ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । पय᳚सा । ऊधः᳚ । यथा᳚ । गोः । सोमे᳚भिः । ई॒म् । पृ॒ण॒त॒ । भो॒जम् । इन्द्र᳚म् ।
वेद᳚ । अ॒हम् । अ॒स्य॒ । नि॑भृ᳚तम् । मे॒ । ए॒तत् । दित्स᳚न्तम् । भूयः᳚ । य॒ज॒तः । चि॒के॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यथागोरूधः पयसापूर्णंतद्वदीमेनंभोजंफलस्यदातारंरक्षितारंचेन्द्रंसोमेभिः सोमैः पृ- णतपूरयत मेमदीयस्यास्यसोमस्यएतत् एतंनिभृतंगूढंसुखसाधनस्वभावमहमेववेदजानामि इतिपू- र्वंनपरस्मैकथितं तथापियुष्मभ्यंब्रवीमीत्येवंदित्सन्तंसोमंदातुमिच्छन्तंयजमानंयजतोयष्टव्यइन्द्रोभू- योतिशयेनचिकेतजानाति दित्सतं डुदाञ् दाने इच्छायांसन् सनिमीमाध्वितिआकारस्यइसादेशः अत्रलोपोभ्यासस्येत्यभ्यासलोपः सः स्यार्धधातुकइतिसकारस्यतत्वम् ॥ १० ॥

2.14.11
अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि᳚वस्य॒ क्षम्य᳚स्य॒ राजा᳚ ।
तमूर्द᳚रं॒ न पृ᳚णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो अस्तु ॥
▶ पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । दि॒व्यस्य᳚ । वस्वः᳚ । यः । पार्थि᳚वस्य । क्षम्य᳚स्य । राजा᳚ ।
तम् । ऊर्द᳚रम् । न । पृ॒ण॒त॒ । यवे᳚न । इन्द्र᳚म् । सोमे᳚भिः । तत् । अपः᳚ । वः॒ । अ॒स्तु॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यवः यइन्द्रः दिव्यस्यद्युलोकार्हस्यवस्वोवसुनोराजाभवति यश्चपार्थिवस्य पृथिवीशब्देन- विस्तीर्णमन्तरिक्षमुच्यते तत्रत्यंधनंपार्थिवं तस्यराजा यश्चक्षम्यस्यक्षमाभूमिः तत्रत्यंधनंक्षम्यंतस्य- चराजाभवति तमेवंविधमिन्द्रंसोमेभिःसोमैः पृणतपूरयत तत्रदृष्टान्तः—ऊर्दरंन ऊर्ध्वंदीर्णमूर्दरंकुसूलं यथायवेनपूर्णंतद्वदिन्द्रंपूरयतेति तत् तादृशंसोमादिनेन्द्रोदरपूरणलक्षणमपःकर्म वोयुष्माकमस्तु ॥ ११ ॥

2.14.12
अ॒स्मभ्यं॒ तद्व᳚सो दा॒नाय॒ राध॒ः सम᳚र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् ।
इन्द्र॒ यच्चि॒त्रं श्र᳚व॒स्या अनु॒ द्यून्बृ॒हद्व᳚देम वि॒दथे᳚ सु॒वीरा᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒स्मभ्य᳚म् । तत् । व॒सो॒ इति᳚ । दा॒नाय᳚ । राधः᳚ । सम् । अ॒र्थ॒य॒स्व॒ । ब॒हु । ते॒ । व॒स॒व्य᳚म् ।
इन्द्र᳚ । यत् । चि॒त्रम् । श्र॒व॒स्याः । अनु᳚ । द्यून् । बृ॒हत् । व॒दे॒म॒ । वि॒दथे᳚ । सु॒॑वीराः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अस्मभ्यंतदिति एषाऋग्व्याख्याता ॥ १२ ॥

प्रघान्वस्येतिदशर्चंचतुर्थंसूक्तम् गार्त्समदंत्रैष्टुभमैन्द्रम् अत्रानुक्रमणिका—प्रघदशेति । दशरात्रे षष्ठेहनिनिष्केवल्येत्रीणिसूक्तानि तत्रेदंद्वितीयं षष्ठस्येतिखण्डेसूत्रितम्—एन्द्रयाह्युपनः प्रघान्वस्या- भूरेकइतिनिष्केवल्यमिति त्र्येकमामकेनिष्केवल्येप्रघान्वस्येत्येषासूक्तमुखीया उशनसःस्तोमेनेतिख- ण्डेसूत्रितम्—त्र्यर्यमामनुषोदेवताताप्रघान्वस्यमहतोमहानीति ।