अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि᳚वस्य॒ क्षम्य᳚स्य॒ राजा᳚ ।
तमूर्द᳚रं॒ न पृ᳚णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो अस्तु ॥
तमूर्द᳚रं॒ न पृ᳚णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो अस्तु ॥
पदपाठः (Word-by-word)
अध्व᳚र्यवः । यः । दि॒व्यस्य᳚ । वस्वः᳚ । यः । पार्थि᳚वस्य । क्षम्य᳚स्य । राजा᳚ ।
तम् । ऊर्द᳚रम् । न । पृ॒ण॒त॒ । यवे᳚न । इन्द्र᳚म् । सोमे᳚भिः । तत् । अपः᳚ । वः॒ । अ॒स्तु॒ ॥
तम् । ऊर्द᳚रम् । न । पृ॒ण॒त॒ । यवे᳚न । इन्द्र᳚म् । सोमे᳚भिः । तत् । अपः᳚ । वः॒ । अ॒स्तु॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेअध्वर्यवः यइन्द्रः दिव्यस्यद्युलोकार्हस्यवस्वोवसुनोराजाभवति यश्चपार्थिवस्य पृथिवीशब्देन- विस्तीर्णमन्तरिक्षमुच्यते तत्रत्यंधनंपार्थिवं तस्यराजा यश्चक्षम्यस्यक्षमाभूमिः तत्रत्यंधनंक्षम्यंतस्य- चराजाभवति तमेवंविधमिन्द्रंसोमेभिःसोमैः पृणतपूरयत तत्रदृष्टान्तः—ऊर्दरंन ऊर्ध्वंदीर्णमूर्दरंकुसूलं यथायवेनपूर्णंतद्वदिन्द्रंपूरयतेति तत् तादृशंसोमादिनेन्द्रोदरपूरणलक्षणमपःकर्म वोयुष्माकमस्तु ॥ ११ ॥