द्वितीयं मण्डलम् - सूक्तम् 21

6 ऋचः

ऋषिः: गृत्समद (आंगिरसः शौनहोत्रः पश्चाद्) भार्गवः शौनकः देवता: इंद्रः छन्दः: जगती

सूक्तम् 2.21 - सम्पूर्णम्

1 / 6
ऋक्: 2.21.1
0:00 0:00
▶ सर्वाणि ऋक्कानि (6)
2.21.1
वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित᳚ उर्वरा॒जिते᳚ ।
अ॒श्व॒जिते᳚ गो॒जिते᳚ अ॒ब्जिते᳚ भ॒रेन्द्रा᳚य॒ सोमं᳚ यज॒ताय᳚ हर्य॒तम् ॥
▶ पदपाठः (Word-by-word)
वि॒श्व॒॑जिते᳚ । ध॒न॒॑जिते᳚ । स्वः॒॑जिते᳚ । स॒त्रा॒॑जिते᳚ । नृ॒॑जिते᳚ । उ॒र्व॒रा॒॑जिते᳚ ।
अ॒श्व॒॑जिते᳚ । गो॒॑जिते᳚ । अ॒प्॑जिते᳚ । भ॒र॒ । इन्द्रा᳚य । सोम᳚म् । य॒ज॒ताय᳚ । ह॒र्य॒तम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेअध्वर्यो इन्द्राय सोमंभर संपादय कीदृशायविश्वजिते सर्वस्यजेत्रे तदेवप्रपञ्चयतिधनजिते शत्रु विजयेनतदीयधनानांजेत्रे स्वर्जिते स्वर्गस्यजेत्रे अधिपतये सत्राजिते सत्रासन्ततं जयशीलायमहतोजे त्रेवा नृजिते नृणांनायकानांजेत्रे उर्वराजिते उर्वरासर्वसस्याढ्याभूः तस्याजेत्रे अश्वजिते गोजितेबले नापहृतानांगवांजेत्रे अज्निते वृत्रेणाक्रान्तानामपांजेत्रे यजताय यजनियाय तस्माइन्द्रायहर्यतं हर्यग तिकान्त्योः भृमृदुशीत्यादिनाकर्मण्यतच् कमनियं स्पृहणीयंवा सोमंभरेतिसमन्वयः ॥ १ ॥

2.21.2
अ॒भि॒भुवे᳚॑भिभ॒ङ्गाय᳚ वन्व॒ते॑षा᳚ळ्हाय॒ सह᳚मानाय वे॒धसे᳚ ।
तु॒वि॒ग्रये॒ वह्न᳚ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इन्द्रा᳚य वोचत ॥
▶ पदपाठः (Word-by-word)
अ॒भि॒॑भुवे᳚ । अ॒भि॒॑भ॒ङ्गाय᳚ । व॒न्व॒ते । अषा᳚ळ्हाय । सह᳚मानाय । वे॒धसे᳚ ।
तु॒वि॒॑ग्रये᳚ । वह्न᳚ये । दु॒स्तरी᳚तवे । स॒त्रा॒॑सहे᳚ । नमः᳚ । इन्द्रा᳚य । वो॒च॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

अभिभुवे सर्वस्याभिभवित्रे अभिभङ्गायअसुराणांभच्चकाय वन्वतेवनषणसंभक्तौ व्यत्ययेनउप्र- त्ययः शत्रूणांधनानांसंभक्ते अषाह्ळाय सहेःकर्मणिनिष्ठा उत्वाभावश्छान्दसः शत्रुभिरनभिभूतायस हमानायसर्वंसहायवेधसे सर्वस्यविधात्रेतुविग्रये पूर्णग्रीवाय यद्वा गॄशब्दे औणादिकः कर्मणिकप्रत्ययः तुविभिर्बहुभिःस्तोतव्यायवह्वयेसर्वस्यवोढ्रेदुष्टरीतवेअन्यैर्दुस्तरायदुर्हिंसायवासत्रासहेसर्वदाभिभवि त्रेमहतोभिभवित्रेवा एव्ंविधायेन्द्रायनमः नमः शब्दपूर्वकंस्तोत्रंवोचत हेस्तोतारोयूयंब्रूत ब्रूञोलुङि ब्रुवोवचिः अस्यतिवक्तिख्यातिभ्योङित्यङादेशः वचउमित्युम् गुणः ॥ २ ॥

2.21.3
स॒त्रा॒सा॒हो ज᳚नभ॒क्षो ज᳚नंस॒हश्च्यव᳚नो यु॒ध्मो अनु॒ जोष᳚मुक्षि॒तः ।
वृ॒तं॒च॒यः सहु᳚रिर्वि॒क्ष्वा᳚रि॒त इन्द्र᳚स्य वोचं॒ प्र कृ॒तानि᳚ वी॒र्या᳚ ॥
▶ पदपाठः (Word-by-word)
स॒त्रा॒॑स॒हः । ज॒न॒॑भ॒क्षः । ज॒न॒म्॑स॒हः । च्यव᳚नः । यु॒ध्मः । अनु᳚ । जोष᳚म् । उ॒क्षि॒तः ।
वृ॒त॒म्॑च॒यः । सहु᳚रिः । वि॒क्षु । आ॒रि॒तः । इन्द्र᳚स्य । वो॒च॒म् । प्र । कृ॒तानि᳚ । वी॒र्या᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सत्रासाहः बहूनामभिभविताजनभक्षः जनानांयजमानानांकामप्रदानेनसंभक्ता तैःसंभजनीयइति वा जनंसहःबलिनांजनानामभिभविता च्यवनःशत्रूणांच्यावयितास्वस्थानात् युध्मः योद्धा जोषमनु प्रीतिमनुउक्षितः सिक्तःसोमेन वृतंचयःवृतस्याभीष्टस्याचेतासंचेतादातेत्यर्थः यद्वा वर्ततेपुनःपुनरभि मुखमागच्छतीतिवृत् शत्रुः तंचयतेहिनस्तीतिवृतञ्चयः चयतिर्हिंसाकर्मा तथाचब्राह्मणं—योवैभागि नंभागान्नुदतेचयतेवैनंसयदिवैनंनचयतेथपुत्रमथपौत्रंचयतेत्वेवैनमिति । सहुरिः जसिसहोरुरिन्निति उरिन्प्रत्ययःअभिभविताशात्रूणांविक्षुप्रजासुआरितः पालकत्वेनप्रापितोभवति तादृशस्येन्द्रस्यक्रुतानि वृत्रहननादिरूपाणि वीर्यासामर्थ्यानिप्रवोचं प्रकर्षेणवदामि ॥ ३ ॥

2.21.4
अ॒ना॒नु॒दो वृ᳚ष॒भो दोध᳚तो व॒धो ग᳚म्भी॒र ऋ॒ष्वो अस᳚मष्टकाव्यः ।
र॒ध्र॒चो॒दः श्नथ᳚नो वीळि॒तस्पृ॒थुरिन्द्र᳚ः सुय॒ज्ञ उ॒षस॒ः स्व᳚र्जनत् ॥
▶ पदपाठः (Word-by-word)
अ॒न॒नु॒॑दः । वृ॒ष॒भः । दोध᳚तः । व॒धः । ग॒म्भी॒रः । ऋ॒ष्वः । अस᳚मष्ट॑काव्यः ।
र॒ध्र॒॑चो॒दः । श्नथ᳚नः । वी॒ळि॒तः । पृ॒थुः । इन्द्रः᳚ । सु॒॑य॒ज्ञः । उ॒षसः᳚ । स्वः᳚ । ज॒न॒त् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अननुदः अनुपश्चाद्ददातीत्यनुदः आतश्चोपसर्गइतिकर्तरिकः सनास्तियस्यसतथोक्तः प्रभूतधनदाने नास्यसमानोनास्तीत्यर्थः अतएववृषभः कामानांवर्षितादोधतःदुधिर्हिंसाकर्मा हिंसकस्यासुरस्यवधः हन्तागंभीरः महत्त्वेनगांभीर्योपितः ऋष्वः महान् यद्वा दर्शनीयः सर्वैः असमष्टकाव्यः अशूव्याप्तौ कर्म णिनिष्ठा उदित्त्वादिड्विकल्पः नञ् समासः अन्यैख्याप्तकर्मा रध्रचोदः रधहिंसासंराध्योः रध्राणांसमृ द्धानांप्रेरकः यद्वा शत्रूणांहिंसकानांनोदकः श्नथनः शत्रूणांबलापहारेणशातयिता वीळितोदृढाङ्गः पृथुः स्वतेजसाजगद्भ्याप्यवर्तमानः सुयज्ञः सुकर्माएतादृशइन्द्रः उषसः स्वः सूर्यज्योतिः स्वःसूर्यइति हिब्राह्मणम् । सूर्यंचजनत् प्रादुश्चकार ॥ ४ ॥

2.21.5 समानपद
य॒ज्ञेन᳚ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना उ॒शिजो᳚ मनी॒षिणः᳚ ।
अ॒भि॒स्वरा᳚ नि॒षदा॒ गा अ᳚व॒स्यव॒ इन्द्रे᳚ हिन्वा॒ना द्रवि᳚णान्याशत ॥
▶ पदपाठः (Word-by-word)
य॒ज्ञेन᳚ । गा॒तुम् । अ॒प्॑तुरः᳚ । वि॒वि॒द्रि॒रे॒ । धियः᳚ । हि॒न्वा॒नाः । उ॒शिजः᳚ । म॒नी॒षिणः᳚ ।
अ॒भि॒॑स्वरा᳚ । नि॒॑सदा᳚ । गाः । अ॒व॒स्यवः᳚ । इन्द्रे᳚ । हि॒न्वा॒नाः । द्रवि᳚णानि । आ॒श॒त॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

धियोहिन्वानाः स्तुतीरिन्द्रेप्रेरयन्तः उशिजः इन्द्रंकामयमानाः मनीषिणोमेधाविनोङ्गिरसः अप्तु रः अपांप्रेरकाः इन्द्राद्गातुंगवांमार्गंयज्ञेनतपसाविविद्रिरे लेभिरे ततः अवस्यवः रक्षणमिच्छन्तः इन्द्रे गाः स्तुतीर्हिन्वानाः हिगतिवृद्भ्योः स्वादिः प्रेरयन्तः तेङ्गिरसः अभिस्वराअभितः स्वरः स्वरणंशब्द नंयस्यतेनस्तोत्रेणनिषदाउपसदनेनचद्रविणानिगोधनानिआशत आप्नुवन् अश्नोतेर्लुङि बहुलंछन्दसी तिविकरणस्यलुक् ॥ ५ ॥

2.21.6 समानपद
इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि᳚णानि धेहि॒ चित्तिं॒ दक्ष᳚स्य सुभग॒त्वम॒स्मे ।
पोषं᳚ रयी॒णामरि᳚ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु᳚दिन॒त्वमह्ना᳚म् ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚ । श्रेष्ठा᳚नि । द्रवि᳚णानि । धे॒हि॒ । चित्ति᳚म् । दक्ष᳚स्य । सु॒॑भ॒ग॒त्वम् । अ॒स्मे इति᳚ ।
पोष᳚म् । र॒यी॒णाम् । अरि᳚ष्टिम् । त॒नूना᳚म् । स्वा॒द्मान᳚म् । वा॒चः । सु॒दि॒न॒॑त्वम् । अह्ना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र श्रेष्ठान्युत्तमानिद्रविणानिधनानिअस्मभ्यंधेहि निधेहि दक्षस्य दक्षेर्भावेघञ् कर्मकरणसाम र्थ्यस्यचित्तिंख्यातिंधेहि अस्मेअस्मभ्यंसुभगत्वंशोभनधनत्वंसौभाग्यंवानिधेहि रयीणांत्वयादत्तानां धनानांपोषंसमृद्धिंधेहि तनूनामङ्गानां यद्वा तायतेएभिःकुलमितितन्वःपुत्राःतनोतेः करणेउप्रत्ययः तेषामरिष्टिंअहिंसांधेहि तथास्मदीयायावाचः स्वाद्मानंस्वादुतांअह्नांसुदिनत्वंशोभनदिनत्वंचधेहि येषुहीन्द्रादयोदेवाइज्यन्ते तानिसुदिनानि तेषांभावःसुदिनत्वम् ॥ ६ ॥

त्रिकद्रुकेष्वितिचतुरृचमेकादशंसूक्तं गार्त्समदमैन्द्रं अत्रेयमनुक्रमणिका त्रिकद्रुकेषुचतुष्कमष्ट्याद्य तिशाक्वरमन्त्याष्टिर्वेति आद्या अष्टिच्छन्दाः चतुःषष्ट्यक्षरा अवशिष्टाःषष्ट्यक्षराः अतिक्वशर्यःअन्त्या ष्टिर्वा षोडशिशस्त्रे त्रिकद्रुकेष्वितितृचः सूत्रितम्—त्रिकद्रुकेषुमहिषोयवाशिरंप्रोष्वस्मैपुरोरथमितितृ चावातिच्छन्दसाविति अविवाक्येहनिमरुत्वतीयेप्र्तिपत्तृचस्यत्रिकद्रुकेष्वितिप्रथमा दशमेहनीतिख- ण्डेसूत्रितम्—आत्वारथंयथोतयइत्येतस्याःस्थानेत्रिक्द्रुकेषुमहिषोयवाशिरमिति इतिआश्वमेधिकेम ध्यमेहनिमरुत्वतीयेआद्या तस्यविशेषान्वक्ष्यामइतिखण्डेसूत्रितम्—त्रिकद्रुकेषुमहिषोयवाशिरमिति मरुत्वतीयस्यप्रतिपदिति महाव्रतेपिमाध्यन्दिनेसवनेब्राह्मणाच्छंसिनःस्तोत्रियस्तृचः त्रिकद्रुकेषुमहि षोयवाशिरमितिस्तोत्रियइतिसूत्रितम् ।