अह᳚रहर्यात्य॒क्तुर॒पां किया॒त्या प्र᳚थ॒मः सर्ग᳚ आसाम् ॥
पदपाठः (Word-by-word)
अहः᳚॑अहः । या॒ति॒ । अ॒क्तुः । अ॒पाम् । किय᳚ति । आ । प्र॒थ॒मः । सर्गः᳚ । आ॒सा॒म् ॥
सायणभाष्यम् (Sayana Commentary)
ऋतमुदकंवृष्टिलक्षणंकृण्वतेकुर्वतेदेवायद्योतमानायसवित्रेसर्वस्यप्रेरकायअहिघ्रेअहिंवृत्रं हतवते- इन्द्राययागार्थम् आपोनरमन्ते तस्माद्धेतोर्भीत्यानोपरताभवंति तस्मात् व्यत्ययेनचतुर्थी अपितुता- सामपांअप्तुः सेचकंस्रोतः अहरहः प्रत्यहंयातिगच्छति आसांप्रथमःसर्गः प्राथमिकंजन्म कियात्या- कियतिकालेनिष्पन्नं आकारःप्रश्ने किंशब्दआक्षेपे यावतिकालेताअजायन्तसकालः कियान् किंपरि- माणंतस्यकालस्य नकिमपिनित्याएवहिताइत्यर्थः ॥ १ ॥