श्रवणम्

2.30.8 समानपद
सर᳚स्वति॒ त्वम॒स्मा{4} अ᳚विड्ढि म॒रुत्व᳚ती धृष॒ती जे᳚षि॒ शत्रू᳚न् ।
त्यं चि॒च्छर्ध᳚न्तं तविषी॒यमा᳚ण॒मिन्द्रो᳚ हन्ति वृष॒भं शण्डि᳚कानाम् ॥
▶ पदपाठः (Word-by-word)
सर᳚स्वति । त्वम् । अ॒स्मान् । अ॒वि॒ड्ढि॒ । म॒रुत्व᳚ती । धृ॒ष॒ती । जे॒षि॒ । शत्रू᳚न् ।
त्यम् । चि॒त् । शर्ध᳚न्तम् । त॒वि॒षी॒॑यमा᳚णम् । इन्द्रः᳚ । ह॒न्ति॒ । वृ॒ष॒भम् । शण्डि᳚कानाम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसरस्वति सरणवतिदेवि त्वंअस्मान् स्तोतॄन् अविड्वि रक्ष रक्षार्थस्यावतेर्लेट्येतद्रूपम् तथा- मरुत्वतीमरुद्भिर्युक्ताम ध्यमस्थानाहिवाक् सरस्वतीमरुतश्चमध्यमस्थानस्थाः अतस्तद्वतीसती धृषतीधर्षयन्तीश्त्रून् शातयितॄन्वैरिणोजेषिजय जयतेश्छान्दसःशपःश्लुः किञ्चायमिन्द्रः त्यंचित् तमप्यसुरंहन्तिहतवान् व्यत्ययेनभूतार्थेलट् कीदृशं शधंन्तं प्रसहनशीलं श्रृधुप्रसहने तविषीयमा- णंतविषीबलमिवाचरन्तं सर्वस्यभंजनेशक्तं शण्डिकानां शण्डामर्कावसुरपुरोहितौ शण्डवंश्या- नांमध्येवृषभंप्रधानम् ॥ ८ ॥