तं व॒ः शर्धं॒ मारु᳚तं सुम्न॒युर्गि॒रोप᳚ ब्रुवे॒ नम᳚सा॒ दैव्यं॒ जन᳚म् ।
यथा᳚ र॒यिं सर्व᳚वीरं॒ नशा᳚महा अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि᳚वे ॥
यथा᳚ र॒यिं सर्व᳚वीरं॒ नशा᳚महा अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि᳚वे ॥
पदपाठः (Word-by-word)
तम् । वः॒ । शर्ध᳚म् । मारु᳚तम् । सु॒म्न॒॑युः । गि॒रा । उप᳚ । ब्रु॒वे॒ । नम᳚सा । दैव्य᳚म् । जन᳚म् ।
यथा᳚ । र॒यिम् । सर्व᳚॑वीरम् । नशा᳚महै । अ॒प॒त्य॒॑साच᳚म् । श्रुत्य᳚म् । दि॒वे॑दि᳚वे ॥
यथा᳚ । र॒यिम् । सर्व᳚॑वीरम् । नशा᳚महै । अ॒प॒त्य॒॑साच᳚म् । श्रुत्य᳚म् । दि॒वे॑दि᳚वे ॥
सायणभाष्यम् (Sayana Commentary)
हेमरुतः वोयुष्माकंशर्धं बलंमारुतंमरुत्समूहरूपंदैव्यंदेवेनेन्द्रेण संबद्धंजनं प्रादुर्भूतंएवं गुणबि- शिष्टंतंबलं नमसानमस्कारेणहविषावागिरास्तोत्रेण सुम्नयुः सुखेच्छुरहंउपब्रुवेस्तौमि यथा येनप्र- कारेणवयंसर्ववीरंसर्वैः वीरैर्विशेषेणशत्रूणांप्रेरकैर्भटैरुपेतं अपत्यसाचंअपत्यैरपतनहेतुभूतैः पुत्रादि- भिरुपेतं श्रुत्यंश्रवणीयंप्रशस्यभूतं रयिंदिवेदिवेप्रतिदिवसंनशामहै व्याप्नवाम नशतिर्व्याप्तिकर्मा लेट्याडागमः वैतोन्यत्रेत्यैकारः ॥ ११ ॥
अस्मकमितिसप्तर्चंन्व्मंसुक्तम् गृत्समदस्यार्षंवैश्वदेवं अन्त्यात्रिष्टुप् शिष्टाजगत्यः तथाचानुक्रा- न्तम्—अस्माकंसप्तवैश्वदेवंत्रिष्टुबन्तमिति विनियोगोलैङ्गिकः ।