बृह᳚स्पते॒ तपु॒षाश्ने᳚व विध्य॒ वृक᳚द्वरसो॒ असु᳚रस्य वी॒रान् ।
यथा᳚ ज॒घन्थ᳚ धृष॒ता पु॒रा चि᳚दे॒वा ज᳚हि॒ शत्रु᳚म॒स्माक᳚मिन्द्र ॥
यथा᳚ ज॒घन्थ᳚ धृष॒ता पु॒रा चि᳚दे॒वा ज᳚हि॒ शत्रु᳚म॒स्माक᳚मिन्द्र ॥
पदपाठः (Word-by-word)
बृह᳚स्पते । तपु᳚षा । अश्ना᳚॑इव । वि॒ध्य॒ । वृक᳚॑द्वरसः । असु᳚रस्य । वी॒रान् ।
यथा᳚ । ज॒घन्थ᳚ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु᳚म् । अ॒स्माक᳚म् । इ॒न्द्र॒ ॥
यथा᳚ । ज॒घन्थ᳚ । धृ॒ष॒ता । पु॒रा । चि॒त् । ए॒व । ज॒हि॒ । शत्रु᳚म् । अ॒स्माक᳚म् । इ॒न्द्र॒ ॥
सायणभाष्यम् (Sayana Commentary)
हेबृहस्पते बृहतांपरिवृढानांपालयितरिन्द्र तपुषातापकेनदीप्तेनवज्रेणअश्नेवअशन्याइव वृक द्वरसः संवृतद्वारस्यासुरस्यवीरान्पुत्रान् यद्वा संवृतद्वारान् असुरस्यवीरन् विध्य ताडय वृणोतेः सृवृभूषिमुषिभ्यः किदितिकर्मणिकन्प्रत्ययः द्रुगतौ अस्मादौणादिकोऽसन्प्रत्ययः वृकाणि संवृतानि द्वरांसि द्वाराणियेषां बहुव्रीहौपूर्वपदप्रकृतिस्वर्त्वम् हेइन्द्र पुराचित् पुरापिधृषता धर्षकेणवज्रेण- यथाजघन्थ त्वंहतवानेव एवमेवास्माकंशत्रुंजहि नाशय हन्तेर्जइतिर्होजादेशः ॥ ४ ॥