श्रवणम्

2.30.5 समानपद
अव᳚ क्षिप दि॒वो अश्मा᳚नमु॒च्चा येन॒ शत्रुं᳚ मन्दसा॒नो नि॒जूर्वा᳚ः ।
तो॒कस्य᳚ सा॒तौ तन᳚यस्य॒ भूरे᳚र॒स्मा{4} अ॒र्धं कृ᳚णुतादिन्द्र॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अव᳚ । क्षि॒प॒ । दि॒वः । अश्मा᳚नम् । उ॒च्चा । येन᳚ । शत्रु᳚म् । म॒न्द॒सा॒नः । नि॒॑जूर्वाः᳚ ।
तो॒कस्य᳚ । सा॒तौ । तन᳚यस्य । भूरेः᳚ । अ॒स्मान् । अ॒र्धम् । कृ॒णु॒ता॒त् । इ॒न्द्र॒ । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेइन्द्र दिवोनभसः सकाशादश्मानं अश्मवत्कठिनं वज्रंउच्चाउच्चैर्वर्तमानस्त्वंअवक्षिपअस्मदीयान् शत्रूणुद्दिश्यावस्तात् क्षिप येनवज्रेणामन्दसानः स्तोतृभिःस्तूयमानःसन् शत्रुंनिजूर्वाः न्यहिंसीः जुवीं- र्हिंसार्थः लेट्याडागमः तथातोकस्यपुत्रस्यभूरेर्भर्तव्यस्यपौत्रस्यसातौ संभजने निमित्ते सप्तम्येषासं भजनार्थ तथाहेइन्द्र गोनांगवांसंभजनार्थंचास्मान् अस्माकं विभक्तिव्यत्ययः अर्धं समृद्धिंकृणुतात्कुरु गोःपादान्तेइतिगोशब्दस्यामोनुडागमः ॥ ५ ॥