श्रवणम्

2.30.3 समानपद
ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षे॑धा᳚ वृ॒त्राय॒ प्र व॒धं ज᳚भार ।
मिहं॒ वसा᳚न॒ उप॒ हीमदु᳚द्रोत्ति॒ग्मायु᳚धो अजय॒च्छत्रु॒मिन्द्र᳚ः ॥
▶ पदपाठः (Word-by-word)
ऊ॒र्ध्वः । हि । अस्था᳚त् । अधि᳚ । अ॒न्तरि᳚क्षे । अध᳚ । वृ॒त्राय᳚ । प्र । व॒धम् । ज॒भा॒र॒ ।
मिह᳚म् । वसा᳚नः । उप᳚ । हि । ई॒म् । अदु᳚द्रोत् । ति॒ग्म॑आ᳚युधः । अ॒ज॒य॒त् । शत्रु᳚म् । इन्द्रः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेर्हेतो यम्सदयंवृत्रः अन्तरिक्षेऊर्ध्वःस्न् सर्वमावृत्याध्यस्थात् अधिष्ठतोभूत् अधअत्ःकारणात् वृत्रायवृत्रंप्रतिवर्धंहननसाधनं वज्रंइन्द्रः प्रजभार प्रचिक्षेप हृग्रहोर्भः सहिखलुवृत्रोमिहंवृष्टेः सेक्तारंमेघंवसानः आच्छादयत् ईमेनमिन्द्रंउपादुद्रोत् उपागमत् दुद्रुगतौ लङिछान्दसः शपः श्लुः तिग्मायुधः तीक्ष्णायुधः इन्द्रः शत्रुंशातयितारंतंवृत्रंअजयत् जितवान् ॥ ३ ॥