प्र हि क्रतुं᳚ वृ॒हथो॒ यं व᳚नु॒थो र॒ध्रस्य᳚ स्थो॒ यज᳚मानस्य चो॒दौ ।
इन्द्रा᳚सोमा यु॒वम॒स्मा{4} अ᳚विष्टम॒स्मिन्भ॒यस्थे᳚ कृणुतमु लो॒कम् ॥
इन्द्रा᳚सोमा यु॒वम॒स्मा{4} अ᳚विष्टम॒स्मिन्भ॒यस्थे᳚ कृणुतमु लो॒कम् ॥
पदपाठः (Word-by-word)
प्र । हि । क्रतु᳚म् । वृ॒हथः᳚ । यम् । व॒नु॒थः । र॒ध्रस्य᳚ । स्थः॒ । यज᳚मानस्य । चो॒दौ ।
इन्द्रा᳚सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒य॑स्थे᳚ । कृ॒णु॒त॒म् । ऊं॒ इति᳚ । लो॒कम् ॥
इन्द्रा᳚सोमा । यु॒वम् । अ॒स्मान् । अ॒वि॒ष्ट॒म् । अ॒स्मिन् । भ॒य॑स्थे᳚ । कृ॒णु॒त॒म् । ऊं॒ इति᳚ । लो॒कम् ॥
सायणभाष्यम् (Sayana Commentary)
हेइन्द्रासोमा इन्द्रासोमौ यंवैरिणंवनुथोहिंसथः वनुष्यतिर्हन्तिकर्मेतियास्कः । तंक्रतुंद्वेषस्यकर्तारं- प्रहिवृहथः प्रकर्षेणोद्यच्छथःखलु उन्मूलयथइत्यर्थः वृहूउद्यमने तौदादिकः तथारध्रस्यराधकस्ययज- मानस्यचोदौशत्रूणांप्रेरकौस्थोभवथः तथा हेइन्द्रासोमौ युवंयुवांअस्मान् अविष्टमवतं अस्मिन्भयस्थे भयस्थानेयुद्धे घञर्थेकविधानमित्यधिकरणेकप्रत्ययः मरुद्वृधादित्वात्पूर्वपदान्तोदात्तत्वम् लोकंभ- यरहितंस्थानंकृणुतंकुरुतम् उइतिपदपूरणः ॥ ६ ॥