यो न॒ः सनु᳚त्य उ॒त वा᳚ जिघ॒त्नुर᳚भि॒ख्याय॒ तं ति᳚गि॒तेन᳚ विध्य ।
बृह᳚स्पत॒ आयु᳚धैर्जेषि॒ शत्रू᳚न्द्रु॒हे रीष᳚न्तं॒ परि᳚ धेहि राजन् ॥
बृह᳚स्पत॒ आयु᳚धैर्जेषि॒ शत्रू᳚न्द्रु॒हे रीष᳚न्तं॒ परि᳚ धेहि राजन् ॥
पदपाठः (Word-by-word)
यः । नः॒ । सनु᳚त्यः । उ॒त । वा॒ । जि॒घ॒त्नुः । अ॒भि॒॑ख्याय᳚ । तम् । ति॒गि॒तेन᳚ । वि॒ध्य॒ ।
बृह᳚स्पते । आयु᳚धैः । जे॒षि॒ । शत्रू᳚न् । द्रु॒हे । रिष᳚न्तम् । परि᳚ । धे॒हि॒ । रा॒ज॒न् ॥
बृह᳚स्पते । आयु᳚धैः । जे॒षि॒ । शत्रू᳚न् । द्रु॒हे । रिष᳚न्तम् । परि᳚ । धे॒हि॒ । रा॒ज॒न् ॥
सायणभाष्यम् (Sayana Commentary)
हेबृहस्पते योनोस्माकंसनुत्यः सनुतरित्यंतर्हितनाम अन्तर्हितेदेशेभवश्चोरः सगर्भसयूथस- नुताद्यत् उतवाअपिवा योजिघत्नुर्जिघांसुर्भवति तमभिख्यायसंवीक्ष्यतिगितेनतीक्ष्णेनायुधेनवि- ध्यताडय यथास्मदीयान् शात्रून् आयुधैरायोधनसाधनैरिष्वादिभिर्जेषिजय तथा हेराजन् रा- जमानबृहस्पते द्रुहेद्रोग्ध्रेशत्रवेरिषन्तंहिंसन्तंवज्रं परिधेहि परितोधारय प्रक्षिपेत्यर्थः ॥ ९ ॥