श्रवणम्

2.30.10 समानपद
अ॒स्माके᳚भि॒ः सत्व᳚भिः शूर॒ शूरै᳚र्वी॒र्या᳚ कृधि॒ यानि᳚ ते॒ कर्त्वा᳚नि ।
ज्योग᳚भूव॒न्ननु᳚धूपितासो ह॒त्वी तेषा॒मा भ᳚रा नो॒ वसू᳚नि ॥
▶ पदपाठः (Word-by-word)
अ॒स्माके᳚भिः । सत्व᳚॑भिः । शू॒र॒ । शूरैः᳚ । वी॒र्या᳚ । कृ॒धि॒ । यानि᳚ । ते॒ । कर्त्वा᳚नि ।
ज्योक् । अ॒भू॒व॒न् । अनु᳚॑धूपितासः । ह॒त्वी । तेषा᳚म् । आ । भ॒र॒ । नः॒ । वसू᳚नि ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेशूर शौर्यवन्निन्द्र अस्माकेभिरास्माकीनैः सत्वभिः परेषांसादकैः शूरैः शौर्योपेतैर्भटैः तानिवीर्या वीर्याणि वीरकर्माणिकृधिकुरु यानितेत्वयाकर्त्वानिकरणीयानि कृत्यार्थेतवैकेनि- तिकरोतेस्त्वन् प्रत्ययः ज्योक् चिरकालंअनुधूपितासः धूपायमानाहृदयामदीयाः शत्रवोभूव- न्नासन् हत्वीतान् हत्वा स्नात्व्यादयश्चेतीकारः तेषांशत्रूणां वसूनिधनानिनोस्मभ्यंआभर आहर ॥ १० ॥