श्रवणम्

2.24.15
ब्रह्म᳚णस्पते सु॒यम᳚स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॒᳚ वय᳚स्वतः ।
वी॒रेषु᳚ वी॒रा{4} उप᳚ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म᳚णा॒ वेषि᳚ मे॒ हव᳚म् ॥
▶ पदपाठः (Word-by-word)
ब्रह्म᳚णः । प॒ते॒ । सु॒॑यम᳚स्य । वि॒श्वहा᳚ । रा॒यः । स्या॒म॒ । र॒थ्यः᳚ । वय᳚स्वतः ।
वी॒रेषु᳚ । वी॒रान् । उप᳚ । पृ॒ङ्धि॒ । नः॒ । त्वम् । यत् । ईशा᳚नः । ब्रह्म᳚णा । वेषि᳚ । मे॒ । हव᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेब्रह्मणस्पते मन्त्राधिपते सुयमस्यसुष्ठुनियन्तव्यस्य वयस्वतोन्नयुक्तस्य रायोधनस्यविश्वहावि- श्वोषुसर्वेष्वहस्सुरथ्योधिपतयः स्यामभूयास्म रथाएषांसन्तीतिरथ्यः छन्दसीवनिपावितिमत्वर्थी- योयः ईकारः अपिच नोस्माकंवीरेषुवीर्याज्जातेष्वस्मदीयेषुपुत्रेषुवीरान् पुत्रान् त्वंउपपृंग्धि सं- पृक्तान्कुरु उत्पादय पृचीसंपर्के रौधादिकः वयंपौत्रानपिलभेमहीतियावत् यद्यतः ईशानः सर्व- स्येश्वरस्त्वं ब्रह्मणा अन्ननामैतत् हविर्लक्षणेनान्नेनसह मेहवम् मदीयंस्तुतिलक्षणमाह्वानं वेषि कामयसे वीगतिप्रजनकान्त्यशनखादनेषु अतोमयोक्तंकुर्वित्यर्थः ॥ १५ ॥